________________
काबमाला।
रागिणोऽनुरागवतः । पक्षे लौहित्यवतः । कर हस्खम् । पझे किरणम् । समर्पयतो मम पृष्ठमपि यदि ददासि । लज्जावशान्मुखपरावर्तनादिति भावःपक्षे 'पृष्ठतः सेवयेदम्' इत्युकत्वादिति भावः । तदपि कमलबन्धोरिव खस्याहं सौभाग्यं मन्ये। एवं चैतावताप्यहमात्मानं कृतार्थ मन्ये, किमु संमुखावलोकन इति भावः । एवं यथाकयंचित्कुचस्पर्शार्थ करमर्पयतो मम पृष्ठदाने कूर्पासप्रन्थिमोचनानुमितिदानेनात्यन्तानुकूल्यं विहितं त्वयेति व्यज्यते ॥ पुष्पवतीवृत्तं कश्चित्सखायं वक्ति
मा स्पृश मामिति सकुपितमिव भणितं व्यञ्जिता न च ब्रीडा ।
आलिक्तिया सस्मितमुक्तमनाचार किं कुरुषे ॥ १२८ ॥ मेति । मा मां स्पृशेति सकुपितमिव । न वास्तवमिति भावः। भणितम् । लजा न च व्यनिता । पुष्पवत्त्वे ज्ञाते स्पर्शमयं न करिष्यतीति भावः। आलिशितया । औत्कण्ठ्यादिति भावः । आचारहीन, किं कुरुषे इति सस्मितम् । सुखो. देकादिति भावः । उक्तम् । एवं च कामिनीनां सुरते सर्वदा सौख्यमिति ध्वन्यते ॥ कश्चित्कांचिदन्योक्त्या वक्ति
मूलानि च निचुलानां हृदयानि च कूलवसतिकुलटानाम् ।
मुदिरमदिरा प्रमचा गोदावरिं किं विदारयसि ॥ ४२९ ।। मलेति । हे गोदावरि, मेघरूपा या मदिरा तयोत्कृष्टमदवती । एवं च कर्वव्याकर्तव्यविवेकविधुरत्वं वन्यते । वृक्षाणाम् । निकटस्थानामिति भावः । मूलानि च, तीरवसतिशालिकुलटानां हृदयानि च विदारयसि । वीचीभिः शिथिलकरणेन संकेविततरून्मूलनेनेति भावः । कूलवसतिपदेन कुलटानामनन्यगतिकत्वं तददयविदारकत्वानौचित्यं च ध्वन्यते । इदं किं नूचितमिति भावः । एवं चास्थिरद्रव्याबुन्मादक्शात्परोपकारप्रवणानां निकटवसतिमात्रशालिनामितस्ततः समानीतानोपजीविनां दुःखदानमनुचितं तवेति ध्वन्यते ॥ पाण्डित्यादिगुणशालित्वेऽपि जडाचारामिरतं कश्चिदुपदिशति
मलयद्रुमसाराणामिव धीराणां गुणप्रकर्षोऽपि ।
जडसमयनिपतितानामनादरायैव न गुणाय ॥ १३०॥ . . मलयेति । मूर्खचरपतितानाम् । 'समयाः. शपथाचार-' इत्यमरः । पक्षे