________________
आयोससन्नती।
१००
रणे मदपदमधिकमिवाभाति । बाला एवं च लजौचित्यमादेयते । यथा क्या मुखम् । अर्थानायकस्य । वकि । वल्लभोऽजाततृप्तिः सन्बालामुखं तथा तथा सादरमवलोकयति। एवं च रसिकानां नायिकौद्धत्यकृतवचनरचनादिकं न दुःखदम्, बतस्त्वयैतादृयैतद्वचनादिना कोपो न विधेय इति ध्वन्यते ॥ सखी नायिका वति
मित्रैरालोच्य समं गुरु कृत्वा कदनमपि समारब्धः ।
अर्थः सतामिव हतो मुखवैलक्ष्येण मानोऽयम् ।। १२६ ।। मित्रैरिति । मित्रः समं विचार्य, महत्तरं कलहमपि कृत्वा, सम्यक् । आटोपपुरःसरमिति भावः । प्रारब्धः । अर्थ इव सतां सभ्यानां मुखवैलक्ष्येण । असम्यगिदमिति धियेति भावः । अयं मानस्तव मुखवैलक्ष्येण । प्रसादजन्येनेति भावः । हतः । एवं च यथा मित्रैः समं विचार्य महत्तरकलहं विधायारब्धोऽर्थः सतां मुखवैलक्ष्यमात्रकरणेन विनष्टो भवति, तथा ते मानः प्रसादजन्यमुखवैलक्षण्यतया विनष्टः। एवं च प्रसादचिहं कंचित्कालं गोपयेति ध्वन्यते । यद्वा यथा विचार्य कलहादिकं च विधायारब्धः समीचीनानामर्थों मुखवैलक्ष्येण । खतः कृत्रिमत्वेन ज्ञानादिति भावः । अत एव सतामिति पदमुपयोगि । हतो भवति । लोकैर्मुखवैलक्ष्येणान्यथानिर्णयादिति भावः । तथा. ते मानः 'कथं समाधेयो दयितः' इत्यादिचिन्ताजन्यमुखमालिन्येन हत इत्यर्थः । अथवा मित्रः समं मित्रतुल्यतया विचार्य । उपकारकत्वादिति भावः । मुखवैलक्ष्येणादैन्यादिवशादिति भावः । गुरु महत्तरं कदनं क्लेशादि कृत्वा सम्यगर्जितोऽप्यर्थो द्रव्यं सतां विवेकिनो दुःखदत्वादनादरणीयो भवति । तथा मित्रत्वेन विभाव्यैवं चालाकमनादरकरणं न तवोचितमिति व्यज्यते । मुखवैलक्षण्येन महत्तरं कलहं कृत्वा । एवं चान्यासां दुर्वचनादिरूपः कलहः, तव तु मुखवैलक्षण्यकरणमात्ररूप इत्यन्यनायिकाव्यतिरेकः सूच्यते। कृतोऽपि तवायं मानो हतो भवति दुःखदत्वादनादरणीयो भवति । एवं चैतारण मानविधानं तवानुचितमिति द्योत्यते ॥ कश्चिलनावशात्खकटाक्षविक्षेपसमयेऽन्यप्रदेशामिमुखीं कांचिदकि
मम रागिणो मनखिनि करमर्पयतो ददासि पृष्ठमसि ।
यदि तदपि कमलबन्धोरिव मन्ये खस सौभाग्यम् ॥ ४२७॥ ममेति । हे मनस्विनि प्रशस्त्रान्तःकरणे । एवं च कौटिल्याभावो मान्यते।
१२ आ. स.