________________
कायमाला।
: भ्रमयसीति । हे हालिकनन्दिनि । हालिकपदेन जातिशम्नतम्, तेन कामुकागमनसौकर्यम् , विवाहयोग्येयं जातेति ज्ञानवैधुर्येण कंचित्कालं ययेच्छपर पुरुषभोगसंपादनयोग्यत्वं ध्वन्यते । गुणाः सौन्दर्यादयः । पक्षे तन्तवः । खसदननिकटे कण्ठाहयोग्यानालिझनयोम्यान् । पक्षे कण्ठबन्धनयोग्यान् । तरुणान् ।' मेढिरजुः । 'पुंसि मेढिः खले दार न्यस्तं यत्पशुबन्धने' इत्यमरः । वृषभानिव अमयसि । एवं चते गृहमध्य एव कुतो नानीयन्ते भीतेरभावादिति भावः । 'गुणमय-' इति पाठे गुणप्रचुराश्च ते कण्ठाहयोग्याश्च तानित्यर्थः । कश्चित्कंचित्प्रसन्योक्त्या वक्ति
भालनयनेऽमिरिन्दुर्गौली गात्रे भुजंगमणिदीपाः ।
तदपि तमोमय एवं त्वमीश कः प्रकृतिमतिशेते ॥ १२ ॥ मालेति । हे ईश । एवं चोकदोषदानानहत्वं ध्वन्यते । यद्यपि तव ललाटनेत्रे वहिः, मस्तके चन्द्रः, शरीरे सर्पमणिरूपा दीपास्तथापि वं तमोमय एव । एनमर्थमर्थान्तरोपन्यासेन द्रढयति । खभावं कोऽतिक्रमते। न कोऽपीत्यर्थः । प्रकाशकवस्तुबाहुल्येऽप्यन्धकारप्रचुरत्वमिति विरोधः । तदभावस्तु तमःपदस्य गुणविशेषवाचित्वात् । एवं च यद्यपि समीचीनसात्त्विकसंगतिखवास्ति, तथापि स्वदीयं खाभाविकं तमोगुणप्रकृतित्वं नापगच्छतीति व्यज्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता भकारव्रज्या।
मकारव्रज्या। • आसक्तचित्तेनाङ्गनौद्धत्यमपि न गण्यत इति ।
मधुमदवीतत्रीडा यथा यथा लपति संमुखं बाला ।
तन्मुखमजाततृप्तिस्तथा तथा वल्लभः पिबति ॥ ४२५ ॥ मचिति । मद्यमदा । अत एव गतलजेति विग्रहः । मधुमदेन वीतवीडेति २. अत्रासि पुस्तकान्तरे व्याख्याभेदो यथा-कथन भकः शिवं प्रति वक्तिभालेति । एतासमकाशकसामग्रीसत्वेऽपि तमोरूपगुणमय एव । अमुमेवार्थ द्रढयतिक खमावमतिशते । सजवीत्यर्थः । एवं चाशेयोऽसीति व्यज्यते। अथवा नायकीयप्राङ्गनासङ्गबानोचरं विमनस्का नायिका सखी दृष्यन्तद्वारा समापते-तथा च यो. परास्याप्येतादृश्यवला तत्र का वार्ता बाच्या त्वदीडनावकसति भावः ॥' ..