________________
आर्यासप्तशती।
१७५ खस्येति भावः । एवं च जाग्रदृशायां यादृग्दृष्टं बालाया ऊरुद्वयं तादृगेव निद्रायां पश्यतीति भावः ॥ नायिकासखी नायकं वक्ति
अमरीव कोषगर्ने गन्धहृता कुसुममनुसरन्ती त्वाम् ।
अव्यक्तं कूजन्ती संकेतं तमसि सा अमति ॥ १२१ ॥ भ्रमरीति । गन्धेन परिमलेन खाधीनीकृतचित्ता कुसुममनुसरन्ती कोषगर्भ भ्रमरीव त्वामनुसरन्ती । अव्यक्तम् । लोकभयादिति भावः । पक्षे कोषैराच्छादितत्वात् । कूजन्ती सा तमसि संकेतं भ्रमति । नायिकाया भ्रमरीसाम्येन नायके च कुसुमसाम्येन यथा कुसुमानुसरणं विना न गतिभ्रमर्यास्तथा त्वदनुसरणं विना न गतिर्नायिकाया इति द्योत्यते ॥ एतस्या मय्यनुरागश्चिरं स्थास्यति न वेति संशयानं नायक नायिकासखी वक्ति
आम प्रामं स्थितया खेहे तव पयसि तत्र तत्रैव ।
आवर्तपतितनौकायितमनया विनयमपनीय ॥ १२२॥ भ्राममिति । तत्र तत्र तद्विधानशालिनि । लोकोत्तर इति यावत् । तव स्नेहरूपे पयसि । पयःपदेन माधुर्याद्यभिव्यज्यते । पक्षे स्नेहयुक्त जले । भ्रान्त्वा भ्रान्त्वा स्थितयानया विनयं नम्रतां विशिष्टनीति वा । पक्षे विशिष्टनयनम् । अपनीय । आवर्तेऽम्भसां भ्रमे पतिता या नौका तद्वदाचरितमेव । एवं च नान्यथा शङ्कनीयमिति भावः । एवं च यथा जले स्थिता नौकावर्तपतिता ततोऽन्यत्र न गच्छति, तथेयं तव स्नेहे स्थिता नान्यत्र चित्तं करिष्यतीति व्यज्यते । तेन च सर्वथैवेयमनुप्रात्येति ॥ काचित्कांचिद्वक्ति
अमयसि गुणमयि कण्ठाहयोग्यानात्ममन्दिरोपान्ते।
हालिकनन्दिनि तरुणान्ककुमिनो मेढिरजुरिव ॥ १२३ ।। १. असा आर्यायाः पुस्तकान्तरे तु व्याख्यामेदो यथा-'काचिदन्योक्त्या हलि. कवर्धू प्रत्याह-अमयसीति । सौन्दर्यशालिनि । पक्षे तन्तुप्रचुरे । कण्ठाहयोग्यानालिङ्गनयोग्यान् । पक्षे ताडनयोग्यान् । खगृहसमीपे नूतनान् । पक्षे यूनः । उच्चा. सान् । पक्षे बलीवर्दान् । मेढिरज्जुरिवेतस्ततः संचारयसि । सुरतखलाप्रात्येति भावः। 'गुणमय-' इति पाठे गुणप्रचुराश्च ते कण्ठयहयोग्याश्च वानित्यर्थः ।'