________________
काव्यमाला ।
किमित्यस्य गौरवादि न विधीयते त्वयेति वादिनीं सखीं नायिका वक्तिभूषणतां भजतः सखि कषणविशुद्धस्य जातरूपस्य 1 पुरुषस्य च कनकस्य च युक्तो गरिमा सरागस्य ॥ ४१८
भूषणतामिति 1 हे सखि, भूषणतां सर्वोत्कृष्टतां कटकादिरूपतां च भजतः । कषणेन चिरकालीनसंगत्या निकषोपलेन च विशुद्धस्य विज्ञातसकलस्वभावस्य विज्ञातशुद्धेश्च। जातरूपस्य सुरूपस्य । यद्वा यतो रूपादिकमित्यर्थः । पक्षे सुवर्णस्य । 'चामीकरं जातरूपम्' इत्यमरः । सरागस्य प्रीतिमतः । पक्षे रागो लौहित्यम् । पुरुषस्य च, कनकस्य च, गरिमा गौरवम् । पक्षे परिमाणम् । युक्तम् । एवं चैतादृशस्यैव गौरवमुचितम्, अन्यादृशस्य नेति भावः ॥
खगुणैः प्रियवश्यताविधानदक्षाम् 'कार्मणेनानया पतिः स्वाधीनतामानीतः " इति सपत्नीभिः प्रोच्यमानां नायिकां काचिदन्योक्त्या वक्ति
भस्म परुषेऽपि गिरिशे स्नेहमयी त्वमुचितेन सुभगासि । मोघस्त्वयि जनवादो यदोषधिप्रस्थदुहितेति ॥ ४१९ ॥ भस्मेति । भस्ममलिनेऽपि गिरिशे । एवमपि काठिन्यमावेद्यतेऽज्ञत्वं वा । तेन दुराराध्यत्वम् । स्नेहः प्रीतिस्तत्खरूपा, न तु प्रीतिकर्त्री । प्रीतिप्रचुरेति कश्चित् । इत्युचितेन सुभगासि । परं तु यत्, ओषधीनां प्रस्थान सानूनि यस्मिंस्तस्य दुहितेति । 'नुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । एवं चानया कार्मणबलेन पतिर्वश्यतामानीत इति जनवादः । जनपदमनिवारणीयतां ध्वनयति । मोघोऽलीकः । एवं च त्वया नायकः स्वगुणैरेव स्वाधीनतां नीतः, न तु कार्मणबलेनेति व्यज्यते । तेन व लोकस्य भ्रान्तत्वम् । तेन च तद्वचनस्याप्रामाण्यम् ॥
निकटस्थाया अपि नवोढाया उपभोगो दुःसाध्य इति कश्चिद्वतिमयपिहितं बालायाः पीवरमूरुद्वयं स्मरोन्निद्रः ।
निद्रायां प्रेमाः पश्यति निःश्वस्य निःश्वस्य ॥ ४२० ॥
भयेति । बालाया भयेन । नवोढास्वभावसुलमेनेति भावः । आच्छादितं पीवरं जङ्घाद्वयं प्रेमाईः । प्रेमयुक्त इति यावत् । मदनोद्गतनिद्रो नायको निद्रायाम् । नायिकाया इति भावः । निःश्वस्य निःश्वस्य । संभोगाभावादिति भावः । पश्यति । यद्वा यस्य यत्र मनस्तदेव तेन निद्रायामपि दृश्यत इति कश्चित्कंचिद्वति । निद्रायां
1