________________
आर्यसतशती। ध्वन्यते । स्तनमित्येकत्वमविवक्षितम् । इच्छतो लाघवं स्फुरति । एवं च चतुरीयाः संगतिं परित्यज्याचतुरासंगतीच्छा लाघवकारिणीति ध्वन्यते ॥ केनचित्कस्याश्चित्संकेतः कृत इति कश्चित्कंचिद्वधि
मैक्षभुजा पल्लीपतिरिति स्तुतस्तद्वधूसुदृष्टेन ।
स्क्षक जयसि यदेकः शून्ये सुरसदसि सुखमसि ॥ ४१५॥ भैक्षति । तस्य पल्लीपतेर्वध्वा सुदृष्टेन । सकामदृष्ट्यावलोकितेनेत्यर्थः । मिक्षासंबन्ध्यनभोजनवता । एवं च प्रयासशून्यत्वेन पुष्टत्वाद्यमिव्यज्यते । पल्लीपतिः । एवं च चातुर्यविशेषाशालित्वं ध्वन्यते । इति स्तुतः स्तुतिविषयीकृतः । तामेवाहरक्षक, सर्वोत्कर्षेण तिष्ठसि । यस्मादेक इतरशून्यः शून्ये मदतिरिक्तजनरहिते देवालये सुखमस्मि । एवं च त्वद्रक्षणसामर्थ्यान्न क्वापि कस्यापि भीतिरिति भावः। एवं च देवालये मयैकाकिना स्थीयते तत्र त्वयागन्तव्यमिति ध्वन्यते ॥ वृद्धेन स्त्रीसंग्रहो वसुसंग्रहो वा न विधेय इति कश्चित्कंचिद्वक्ति
मोगाक्षमस्य रक्षा हयात्रेणैव कुर्वतोऽनभिमुखस्य ।
वृद्धस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥ ११६ ॥ भोगेति । भोगो रतम् , सक्चन्दनादिकं च। तत्रासमर्थस्य । दृष्टिमात्रेण रक्षणं कुर्वतः । मात्रपदेन शरीरसामर्थ्याभावो ध्वन्यते । 'वाड्यात्रेण' इत्यपि पाठः । अनभिमुखस्य, असामर्थ्यात्तत्कटाक्षनिरीक्षणासमर्थस, अर्थिपरायुखस्य च । वृद्धस्य प्रकृष्टमदशालिनी नायिकापि लक्ष्मीरपि सेवकस्स भोगाय । एवं चैतदुभयसंग्रहोऽनर्थक एव तस्येति द्योत्यते ॥
भवितासि रजनि यस्यामध्वश्रमशान्तये पदं दधतीम् ।।
स बलाद्वलयितजङ्घाबद्धां मामुरसि पातयति ॥ ११७ ॥ भवितेति । हे रजनि, यस्यां त्वयि श्रमापनोदाय पदं दधतीम् । वलयिता या जला तया बद्धां मामुरसि पातयिष्यति, एतादृशी त्वं भवितासि । श्रमापनोदनाय श्रान्तस्य चरणायुपरि चरणदानादि विधीयत इति लौकिकम् । पथिकााना. शंसनमेतत् ॥