________________
१०२
'काव्यमाला ।
मित्रार्येण यामिनीविशेषणम् । यमुनेव रात्रिः खल्पा भवति । तथा क्रमेण द्वीपा इव । ‘द्वीपोऽस्त्रियामन्तरीषं यदन्तर्वारिणस्तटम्' इत्यमरः । दिवसा महत्तरा भवन्ति । यमुनायास्तन्वीत्वकथनेन चरणसंचरणयोग्यत्वं व्यज्यते । द्वीपानां प्रथीयस्त्वकथनेनानेककुजवत्त्वम् तेन च तत्र क्रीडाविशेषसंपादनयोग्यत्वं ध्वन्यते । एवं च रात्रेरतितनीयस्तया रतविशेषानईत्वेन, दिवसानामतिदीर्घतया दिवैव यमुनाद्वीप एव संकेतयोग्यस्तन्निश्चय एव विधेय इति द्योत्यते ॥
नामिकासखी नायकं बक्ति
भवता महति स्नेहानलेऽर्पिता पथिक हेमगुटिकेव । तन्वी हस्तेनापि स्प्रष्टुमशुद्धेर्न सा शक्या ॥ ४१२ ॥
=
भवतेति । भवता महति प्रीतिरूपवहौ । एवं च त्वत्प्रीतेर्दुःखदत्वं ध्वन्यते । पक्षे तैलसंबन्धिवह्नौ यार्पिता सुवर्णगुटिकेव । एवं च नायिकायां गौराङ्गीत्वमा - वेद्यते । सा तन्वी हे पथिक प्रवासशालिन् । एवं चान्यथाबुद्धियोग्यत्वं द्योत्यते । अशुद्धैर्हस्तेन स्प्रष्टुमपि । एवं च हस्ते स्थापयितुं न शक्येति किं वक्तव्यामिति भावः । न शक्या । एवं चेयं त्वदासक्त्या नान्यं कमपि चित्तपथे करोतीति ध्वन्यते। तप्ततैले प्रक्षिप्ता सुवर्णादिगुटिका सदोषैर्न स्प्रष्टुं शक्येति दिव्यादिव्यवहारः॥ कश्चित्सखायं वक्ति
भूमिलुलितैककुण्डलमुत्तंसितकाण्डपटमियं मुग्धा ।
पश्यन्ती निःश्वासैः क्षिपति मनोरेणुपूरमपि ॥ ४१३ ॥
1
भूमीति । भूमौ लुलितं संलग्नमेकं कुण्डलं यत्र । उत्तंसीकृतः काण्डपटो यत्र । पश्यन्तीयं मुग्धा निःश्वासैः । क्लेशजन्यैरिति भावः । मनोरेणुसमूहमपि क्षिपति । एवं चैतस्या एतादृशावलोकनेन मम मनोऽवतिष्ठते मयीति ध्वन्यते ॥ मूर्खाङ्गनाभिलाषिणं कंचन काचिदन्योक्त्या वदति-
भवतालिङ्गि भुजंगी जातः किल भोगिचक्रवर्ती त्वम् ।
कञ्चुक वनेचरीस्तनमभिलषतः स्फुरति लघिमा ते ॥ ४१४ ॥ भवति । हे कक, येन भवता भुजंगी उरगी । पक्षे वेश्या । आलिङ्गिता, यस्त्वं निश्चयेन भोगिनामुरगाणाम् । पक्षे भोगोपचारशालिनाम् । समूहवर्ती, यद्वा तेषु राजा जातः । तस्य ते बवनेचरी भिल्लकान्ता । पक्षे वनेचरीत्वेन मूर्खताशालित्वं