________________
भार्यासप्तशती। रिव तस्या मैत्री न तु विघटते । एवं च ममभ्रुवोर्यया चमत्कारधायकत्वं तयाँ तदीयकलहस्य प्रीतिजन्यतया तत्त्वमित्यवेहीति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता बकारवज्या।
भकारवज्या। कश्चन दैन्यकारिणं महाकायमन्योक्स्या निम्दति
अमसि प्रकटयसि रदं कर प्रसारयसि तृणमपि श्रयसि ।
घिब्यानं तव कुञ्जर जीवं न जुहोषि जठरामौ ।। ४०९ ॥ भ्रमसीति । हे कुञ्जर, भ्रमसि । दन्तं प्रकटयसि । रदमित्येकत्वमविवक्षितम् । करं शुण्डां हस्तं च प्रसारयसि । तृणमपि । अपिनानाश्रयणीयत्वमावेद्यते। आश्रयसि । अतस्तव मानं महापरिमाणं धिक् । उदरानले जीवं न जुहोषि। एवं चोदरपूर्त्यर्थमेताकरणमत्सन्तानुचितमिति व्यज्यते । अन्योऽप्युदरपूरणार्थ नीच. त्वमुपगत इतस्ततो श्रमणादि करोतीति लौकिकम् ॥ लघोझटित्यपकारः कर्तुं शक्योऽनेन न गौरववत इति कश्चित्कंचिद्वक्ति
भूतिमयं कुरुतेऽमिस्तृणमपि संलममेनमपि भजतः ।
सैव सुवर्ण दशा ते शके गरिमोपरोधेन ॥ ४१०॥ भूतीति । संलममपि । एवं च न चिरकालखद्विनाश इति भावः। तृणमनिर्भस्मरूपं कुरुते । विनाशयतीत्यर्थः । हे सुवर्ण, एनं भजतोऽपि चिरसंबन्धवतोऽपि ते सैव दशा गुरुत्वानुरोधेनेति तर्कयामि । एवं चायमपकारकारक एव पर तु त्वं खगौरवबलादेव यथावस्थितोऽतिष्ठस्यतो नैनं सेवेयेति ध्वन्यते । यद्वौद्धत्यविहीनैतत्सेवाकरणेऽत्यन्तमर्थावाप्तिरिति कश्चिदन्योक्त्या वकि । तृणमित्यनेन दीनमित्यावेद्यते । अत्र समित्युपसर्गो नोचितः । ऐश्वर्यप्रचुर कुरुते । सुवर्ण, एनं " भजतस्ते गुरुत्ववत्त्वात्सैव दशा । एवं चत्वयौद्धत्येन तस्मात्किंचिदवाप्तमित्यावेधते॥ कश्चित्कांचित्प्रति संकेतं वति
भवति निदाघे दीचे यथेह यमुनेव यामिनी तन्वी।
द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥ १११॥ भवतीति । इहैतसिभिदाचे महत्तरे सति ।. 'दीर्घा' इति. पाढे पूर्वकाला