________________
काव्यमाल।
वदनमीक्षितम् । मत्समाधानलेशमपि कर्तुं न शक्रोति वदति त्वेतादृशमपीति विस्मयेनेति भावः । एवं च वणिजः पुंस्त्वहीनतया तदानायाच समृद्धमन्मथत्वेन तत्र त्वद्गमनेन तस्या आसकिस्त्वयि भविष्यतीति ध्वन्यते ॥ • कस्याश्चिदुणादिकं कस्यचिद्वदनादाकर्ण्य कश्चित्तस्यामासक्त इति मधुपनलिनीत्तान्तव्याजेन काचिद्वक्ति
बलवदनिलोपनीतस्फुटितनवाम्मोजसौरमो मधुपः ।
आकृष्यते नलिन्या नासानिक्षिप्तबडिशरज्जुरिव ॥ १०६ ॥ - बलवदिति । बलवान्यो वायुस्तेन समीपानीतं विकसितनवकमलसौगन्ध्यं थस्य स मधुपो अमरः कमलिन्या नासायां निक्षिप्ता बडिशस्य मत्स्यवेधनस्य । 'बडिशं मत्स्यवेधनम्' इत्यमरः । रज्जुर्यस्यैतादृश इवाकृष्यते। क्वचिदडिशपदरहितः पाठः॥ * गुणमात्राहकत्वं सुजनत्वम्, दोषमात्रप्राहकत्वं पिशुनत्वमिति कश्चित्कंचिकि
बाणं हरिरिव कुरुते सुजनो बहुदोषमप्यदोषमिव ।
यावदोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥ १०७ ।। बाणमिति । हरिर्विष्णुर्बाणासुरमिव सुजनो बहुदोषमपि । गुणभिनो दोषः । पक्षे बहुतरबाहुशालिनम् । दोषशून्यमिव । पक्षे बाहुरहितम् । कुरुते। मलि'लुचा इव तस्करा इव पिशुनाः । पुनःशब्दोऽन्यदित्यर्थे । यावदोषम् । समप्रदोषमित्यर्थः । पक्षे यावद्रात्रिम् । जाप्रति । तद्विषयकगवेषणावन्तो भवन्तीत्यर्थः । पक्षे निद्राभाववन्त इत्यर्थः। परखापहरणार्थमिति भावः। एवं च सुजनान भीतिः, किं तु दुर्जनादेवेत्यतस्त्वं ततः सावधानतया तिष्ठेति धन्यते ॥ नायिकादूती नायकं वक्ति
बौद्धस्येव क्षणिको यद्यपि बहुवल्लभस्य तव भावः ।
भमा भमा बेरिव न तु तस्या विघटते मैत्री ॥ १०८॥ · बौद्धस्येति । बौद्धस्येव बढ्यो वलमा नायिका यस्य । पक्षे बहूनां वल्लमस भक्तिविषयस्य । तव यद्यपि भावश्चित्ताभिप्रायः, प्रेम वा। पक्षे पदार्थः । क्षणिकोऽस्थिरः । बौद्धमते तु पदार्थस्य क्षणिकत्वादस्थिरत्वम् । तथापि भमा भमा