________________
आर्यासप्तशती
बकारखज्या।
काचित्कस्याश्चित्तं वक्ति. बहुयोषिति लाक्षारुणशिरसि वयस्पेन दयित उपहसिते।
तत्कालकलितलज्जा पिशुनयति सखीषु सौभाग्यम् ॥ १०३॥ बहिति । बहुतरनायिकाशालिनि लाक्षयारुणमस्तके प्रियतमे वयस्येनोपहसिते। कथं श्रीप्रणाममकरोदिति । तत्कालकृतलज्जा नायिका सखीषु सौभाग्य सूचयति । बहुतराङ्गनाजातमपहाय मय्येवासक्त्या मञ्चरणप्रणतिजन्यैवेयमरुणतैत. च्छिरसीति द्योतनेनेति भावः। यद्वा यद्यपि नायको न तथा प्रेमादि विदधाति तथापि सख्यादिषु तु मय्येव प्रेमवानिति प्रदर्शनेन खगौरवं रक्षणीयमिति तत्प्रदर्शनप्रकार काचित्कांचिदुपदिशति । बहुयोषितीत्यनेनानेकनायिकाचिन्तया किमीयश्वरणालक्तक इति संदेहयोग्यत्वं ध्वन्यते । तत्कालं वयस्योपहासैककालम् । अजीकृतलजव सखीषु सौभाग्यं सूचयति । एवं चैतादृशसमयेऽनया रीत्या खसौभाग्यप्रदर्शनं विधेयमित्यावेद्यते । तेन चैतादृशेऽपि समये न मनसि खेदो विधेयः, किं तु हर्ष एवाविष्करणीय इति ॥ कश्चिन्नायिकाकेशकलापं स्तौति
बन्धनभाजोऽमुष्याश्चिकुरकलापस्य मुक्तमानस्य ।
सिन्दूरितसीमन्तच्छलेन हृदयं विदीर्णमिव ॥ १० ॥ बन्धनेति । बन्धनवतः। गतपरिमाणस्य । अतिदीर्घस्येत्यर्थः । पक्षे गताभिमानस्य । अस्याः केशकलापस्य सिन्दूरयुक्तो यः सीमन्तस्तन्मिषेण हृदयं विदीगमिव । बन्धनवतो गताभिमानस्यापि विदीर्णहृदयता भवतीति लौकिकम् ॥ काचित्कंचिद्वक्ति
बलमपि वसति मयीति श्रेष्ठिनि गुरुगर्वगद्दं वदति ।
तज्जायया जनाना मुखमीक्षितमावृतस्मितया ॥ ४०५ ।। बलमिति । सामर्थ्यमपि । अपिना गुणादिसमुच्चयः । मयि वसतिः। वसतीत्यनेन यो हि यदधिकं स्थलं जानाति तत्रैव वसतीत्यतोऽन्यनायकव्यतिरेकः खस्मिबावेवते । इत्यतिगर्वगद्दं यथा स्यात्तथा वदति सति संकुचितस्मितया। एवं च किंचित्सलज्जत्वमावेद्यते। तदानया लोकानाम् । तद्वार्तादत्तावधानानामिति भावः।