________________
१९९
'काव्यमाल। : काचिद्वक्ति
पथिकवधूजनलोचननीरनदीमातृकपदेशेषु ।
घनमण्डलमाखण्डलधनुषा कुण्डलितमिव विधिना ॥ ४०॥ पथिकेति । पथिकाङ्गनानयनबाष्पैर्नदीमातृका नद्यम्बुपालिताः प्रदेशास्त्रेषु वसा कर्तृभूतेनेन्द्रधनुषा करणभूतेन मेघमण्डलं कुण्डलितमिव । पथिकानाश्रुमिरेव सस्योत्पत्तेर्मेघमण्डलस्यानर्थक्यादिति भावः। एवं च पयिकाहनानयननीराविक्यप्रतिपादनेन तासामत्यन्तदुःखमावेद्यते ॥ काचित्कस्याश्चिद्वृत्तं वति
प्रतिवेशिमित्रबन्धुषु दूराकृच्छागतोऽपि गेहिन्या ।
अतिकेलिलम्पटतया दिनमेकमगोपि गेहपतिः ।। १०१॥ प्रतिवेशीति । गेहिन्या। एवं च सर्वसामर्थ्यमावेद्यते । क्लेशागतोऽपि । एवं च झटिति सर्वग्राह्यदर्शनयोग्यत्वं ध्वन्यते । गेहपतिः । एवं च बहुतरदिनोत्तरागमनतया सर्वकार्यस्य खमात्रकर्तृकतया सर्वदर्शनयोग्यत्वं व्यज्यते । अत्यन्तं या क्रीडासकिस्तया प्रतिवेशिमित्रबन्धुषु । एवं च गोपनानहत्वमावेद्यते । एक दिनमगोपि। यद्वा गेहिन्या अप्येतादृशी गतिस्तत्र का वार्तान्यस्या इति काचित् 'कथमीदृशक्रीडालम्पटा त्वम्' इति वादिनी प्रति वति ॥ नायिका नायकं प्रति वकि
परपट इव रजकीमिर्मलिनो भुक्त्वापि निर्दयं ताभिः ।
अर्थग्रहणेन विना जघन्य मुक्तोऽसि कुलटाभिः ॥ १०२॥ परेति । हे निन्द्य । निन्द्यकार्यकारित्वादिति भावः । रजकीमिः परपट इव तामिः प्रसिद्धाभिः कुलटसभिः मलिनस्त्वं निर्दयं भुक्त्वा । परकीयत्वादिति भावः। द्रव्यग्रहणेन विना परित्यक्तोऽसि । एवं च कुलटात्वेन बहुनायकविषयरतिमत्तया तद्रतेराभासतया 'अर्थादोषधव कामः' इत्युक्तदिशा च तत्र न रस इति ध्वन्यते। अनान्यद्विचारजातमस्मत्कृतरसमजरीटिप्पणे द्रष्टव्यम् ॥ इसनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता पकारव्रज्या