________________
आर्यासप्तशती।
नायिकेयमत्यन्तमप्रगल्भत्सतः शनैरेव किंचिदुपभोग्येति सखी नायकमन्योक्त्या वक्ति. पिब मधुप बकुलकलिकां दूरे रसनाप्रमात्रमाधाय ।
अधरविलेपसमाप्ये मधुनि मुधा वदनमर्पयसि ॥ ३९७ ॥ पिबेति । हे मधुप । एवं च रसलम्पटत्वमावेद्यते । तेन च तूष्णीमवस्थित्यः नईत्वम्। दूरे जिह्वाप्रमात्रं संस्थाप्य बकुलकलिकां पिब । अधरस्य विलेपेन समाप्तियोग्ये। अत्र लेपनेत्येव युक्तम् । मकरन्दे वृथा वदनमर्पयसि । एवं च बकुलकलिकाया अतिसूक्ष्मत्वात्तन्मधुनोऽतिखल्पतया वदनसंपर्के समाप्तिरेव भविप्यतीत्यतो रसनाप्रेणैव तद्रायमिति भावः। एवं च नेयमत्यन्तसुरतविमर्दसहेति ध्वन्यते ॥ कश्चित्कंचिदक्ति
प्रायेणैव हि मलिना मलिनानामाश्रयत्वमुपयान्ति ।
कालिन्दीपुटमेदः कालियपुटभेदनं भवति ॥ ३९८ ॥ प्रायेणेति । बाहुल्येन मलिनानामाश्रयत्वं प्राप्नुवन्ति । अर्थान्तरन्यासेनामुमेवार्थ द्रढयति-यमुनायाः पुटमेदश्चक्राणि । 'चक्राणि पुटमेदाः स्युः' इत्यमरः। कालियनामसर्पस्य पुटमेदनं पत्तनम् । 'पत्तनं पुटमेदनम्' इत्यमरः। भवति । एवं चामलिनामिर्गङ्गादिभिर्न कालियस्याश्रयो दत्तः, किं तु कलिन्दतनययैवेति भावः । एवं च सद्भिरसतामाश्रयो न देय इति ध्वन्यते ॥ प्रियप्रीतिनिमित्तं सपत्नीसंमाननमपि विधेयमिति काचित्कांचिच्छिक्षयति
पश्य प्रियतनुविघटनभयेन शशिमौलिदेहसंलमा ।
सुभगैकदैवतमुमा शिरसा भागीरथीं वहति ॥ ३९९ ।। ) पश्येति । चन्द्रशेखरशरीरसंलमा उमा पार्वती । उमापदेन 'उमेति मात्रा तपसे निषिद्धा' इत्यादि कालिदासोकरीत्या प्रियप्रीतिस्तपोरूपक्लेशविशेषलभ्येति ध्वन्यते। प्रियशरीरविश्लेषमीत्या भागीरथीम् । भगीरथक्षत्रियसंबन्धोत्कीर्तनेन तीक्ष्णप्रतापतयातिदुःसहत्वं व्यज्यते। शिरसा वहति । इदं त्वं पश्य । एवं च त्वयाप्यनयैव रीत्या स्थेयमिति भावः। एवं च यत्र भगवत्या पार्वत्याप्येवंरीत्यावस्थीयते तत्र का वार्तान्यासामिति भावः ॥