________________
काव्यमाला
कोपेन । कमियन्ति दिनान्यतिवाहितानि विदेश इति धियेति भावः। कम्पितस्तनकलशा। स्कन्धस्थितवदना सा पूर्वानुभूता बाष्पेण मम पृष्ठं कदा अपयति । अपयिष्यतीत्यर्थः । पथिकाशंसनमेतत् ॥
कथमीदृशभयानकावसरे प्रियसविधे समभिसरणमिति वादिनी नायिका दूती कस्याश्चित्तकथनव्याजेन सति प्रेम्णि न कस्यापि भीतिरिति वक्ति
प्रेतैः प्रशस्तसत्त्वा साच वृकैर्वीक्षिता स्खलद्रासैः ।
चुम्बति मृतस्य वदनं भूतमुखोल्केक्षितं बाला ॥ ३९५॥ प्रेतैरिति । प्रेतैः स्तुतसामर्थ्या । स्खलदासः । विस्मयादिति भावः । साश्रु । क्रियाविशेषणमेतत् । कथमीदृश्या अपि प्रियः प्रपेदे पञ्चत्वमिति शोकोद्रेकादिति भावः। वीक्षिता बाला। एवं च भीतियोग्यत्वं ध्वन्यते। भूतमुखसंबन्धिनी योल्का तयेक्षितम् । एवं चान्धकारबाहुल्यं ध्वन्यते । मृतस्य । अर्थात्खप्रियस्य । वदनं चुम्बति। एवं चैतादृशसमयेऽपि भीसनुदयेन जुगुप्साद्यभावेन च प्रेम्णि दृढत्वमावेद्यते । अत्र प्रेतैः प्रशस्तसत्त्वेत्यादिकथनं भयानकाक्रमपि भृक्षारपरिपोषकत्वादथवा बाध्यत्वेनोक्तत्वाद्वा 'स्मर्यमाणो विरुद्धोऽपि' इत्युक्तदिशा 'अयं स रशनोत्कर्षी' इत्यादाविव 'संचार्यादेविरुद्धस्य बाध्ययोतिर्गुणावहा' इत्युक्तदिशा 'काकार्य शशलक्ष्मणः' इत्यादाविव भयानकक्षारयोरविरोधानासमञ्जसम् ॥ कश्चित्कंचिदुपदिशति
पिशुनः खलु सुजनानां खलमेव पुरो विधाय जेतव्यः ।
कृत्वा ज्वरमात्मीयं जिगाय बाणं रणे विष्णुः ॥ ३९६ ॥ पिशुन इति । सुजनानां यदि पिशुनो जेतव्यः । एवं च सतां पिशुनजयेन न कापि श्लाघ्यतेति भावः। तदा निश्चयेन खलमेव पुरो विधाय। एवकारेण । खातिरिक्तसुजनस्य निरासः । अमुमेवार्थ द्रढयितुमितिहासमाह-विष्णुः । एवं च खतः सामर्थ्यसत्त्वमावेद्यते । ज्वरं खीयत्वेन संपाद्य । एवं च दुष्टे यद्यपि खीयत्वसंपादनमनुचितं तथापि खकार्यकाल एव तत्र तद्विधेयमिति ध्वन्यते । साझामे बाणासुरं जितवान् । एवं च खस्स सामर्थेऽपि न दुष्टनिबर्हणं स्वयं विधेयमिति धन्यते । तेन च क्लेशेऽपि दुष्टसंभाषणमनुचितमिति ॥