________________
आर्यासप्तशती।
नायिकायामाधिक्यम् । यद्वा यथा मया त्वत्प्राप्त्यर्थमजलिः क्रियते तथा त्वया मदर्य सदीयगुरुष्वजलयो विधेया इति शिक्षा । माङ्गलिकत्वेन कुडमसंबन्धः। अथवाह रजःशालिनीत्यतः क्षन्तव्यो मदनागमनापराध इति ज्ञापनायैकाञ्जलिकरणे मयाजलिसहस्रकरणेनेदानीमेव रतमभ्यर्थनीयमिति भावः ॥ दूती कस्याश्चित्साहसकथनेन नायिकायाः साहसकर्तृत्वमुपदिशति
प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति ।
प्राग्गिरिपिहिता रात्रिः संध्यारागं दिनस्येव ॥ ३९२ ॥ प्राचीरेति । इयं तव प्रतिवेशिनी प्राचीरेण व्यवहिता। 'प्राचीर प्रान्ततो वृतिः' इत्यमरः। प्रियस्य वदनेऽधरं समर्पयति । प्राचीनाचलाच्छादिता रात्रिः संध्यारागं दिवसस्येव वदने । प्रागिरिसमताप्रतिपादनेन प्राचीरेऽतितुङ्गत्वं ध्वन्यते। तेन चोल्लङ्घनानहत्वम् । रात्रिसमताप्रतिपादनेन तमःप्रधानतयान्यजनावलोकनभीतिशून्यत्वं नायिकायामावेद्यते। तेन चात्यन्तानुरागवत्त्वम् । संध्यारागमित्यनेनात्यन्तलौहित्यवत्त्वमधरे व्यज्यते। दिनस्येत्यनेन बहिर्वर्तितया नायके लोकदृश्यत्वं ध्वन्यते। समर्पयतीत्यनेन खयं चुम्बनविरामासंपादनेन रागोद्धरत्वं नायिकायां बोयते । एवं च त्वयापि भीतिमुत्सृज्यैवंविधाचरणमाचरणीयमिति ध्वन्यते॥ नायिका नायकं वक्ति
परपतिनिर्दयकुलटाशोषित शठ नेjया न कोपेन ।
दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥ ३९३ ॥ परेति । परस्याः पत्यो निर्दया या अनेकग्ममिन्यस्ताभिर्तृतशरीरसार । सर्वखपरत्वेन कादाचित्कलाभवत्त्वम् , तेन चात्यन्तसुरतसंपादनाहत्वं ध्वन्यते । शठ। एवं च विश्वासाभाववत्त्वमन्यवचनप्रामाण्यानभ्युपगन्तृत्वं च व्यज्यते । नेर्पाया। तासामिति भावः । न कोपेन । किमिति तत्र गम्यत इति हेतोरिति भावः । दग्धममतोपतप्ताहं तव कार्य वीक्ष्य रोदिमि । दग्धपदेन ममताया निवारणानहतया. त्यन्तदुःखदत्वं ध्वन्यते। एवं चैतादृशेऽपि त्वयि मम ममतेति खस्मिन्नाधिक्यमावेद्यते । अन्योऽपि संतप्तो रोदितीति लौकिकम् ॥
प्राङ्गण एव कदा मां लिप्यन्ती मन्युकम्पिकुचकलशा ।
अंसनिषण्णमुखी सा खपयति बाष्पेण मम पृष्ठम् ॥ ३९॥ प्राकण इति । प्राङ्गण एव । एवं च प्रेमाधिक्यमावेद्यते। मां श्लिष्यन्ती।