________________
काव्यमाला।
पूर्वमागत इति गर्वादत्यधिका जाता । अन्येषां न तथा खप्रियासु प्रीतियथा मस्तिप्रस्येति धियेति भावः । प्रियपदमागमनेन प्रीतिजनकत्वमावेदयति । दूरादित्यनेन चिरविरहशालित्वं द्योत्यते। गेहिनीपदेन गृहव्यासाप्रवणाया अप्येतादृशावस्थावत्वं तत्रेतरस्साः किं वकव्यमिति ध्वन्यते । पथिकपदं प्रियात्पूर्व प्रचलितत्वं व्यजयति। बहुवचनेन सर्वेषामपि पश्चात्परित्यागेनोत्कण्ठतिशयशालित्वं नायके व्यज्यते । एवं चान्येषां त्वरयानागमनेन खप्रियस्यागमनेन नायिकायां गुणातिशयो द्योत्यते । तेन घेतरनायिकाव्यतिरेको ध्वन्यते। शिखरस्य पर्वतसंबन्धित्वात्प्रीती चात्युत्कटत्वं लक्ष्यते । प्रयोजनं चेतरगर्वव्यतिरेकः ॥ नायिकासखी नायकमन्योक्त्या नायिकाप्रेम वक्ति
पृष्ठं प्रयच्छ मा स्पृश दूरादपसर्प विहितवैमुख्य ।
त्वामनुधावति तरणिस्तदपि गुणाकर्षतरलेयम् ॥ ३९० ॥ पृष्ठमिति । हे विहितवैमुख्य । पक्षे कृतौदासीन्य । वैमुख्यकार्यमाह-पृष्ठ प्रयच्छ । तीरस्थिततरणेः पृष्ठेनैव गमीरजलनिरसनमिति कैवर्तकसंप्रदायः । यद्वा गुणाकर्षकस्य नौकासांमुख्याभावादिति भावः । अत एव मा स्पृश । करेणेति भावः । पक्षे विलोकनामावं कुरु, आलिङ्गनं च मा कुरु । दूरादपसर्प । पक्षे निकटवर्तित्वाभावं कुरु । तथापि गुणैस्तृणरचितैः । पक्षे चातुर्यादिमिः । आकर्षणं तेन चञ्चलेयं तरणिस्त्वामनुधावति। एवं च यद्यपि त्वमुदासीनस्तथापि त्वदीयचातुर्यादिगुणलुब्धः त्वामेवानुसरतीति ध्वन्यते । तेन च नेताहगाचरणमुचितं तवेति । नौरपि पृष्टप्रदानादिकारिणमनुलक्षीकृत्य निषादकर्तृकगुणकरणकाकर्षणेनागच्छतीति भावः॥ नायकः सखायं वक्ति
प्रियया कुङ्कमपिञ्जरपाणिद्वययोजनाहितं वासः ।
प्रहितं मां याच्याञ्जलिसहस्रकरणाय शिक्षयति ॥ ३९१ ॥ प्रिययेति । प्रियया, न तु नायिकया । कुटुमेन पिजरं यत्करयुगलं तद्विधानचिहितं प्रेषितं वासोऽनेकप्रार्थनाजलिसंपादनाय मां शिक्षयति । कुहुमपिजरत्वे. नारकत्वम्, वेन च कोपवत्वं बोत्सते । पाणिद्वययोजनाहितमित्यनेन मत्प्रणतिरावेद्यते। एवं च प्रणामोऽयं भवतामाखामत्रागमनं भवतामिति द्योत्यते । तेन कुपितत्वे ज्ञातेऽनेकप्रार्थनाबलिकरणं मम प्राप्तमिति ध्वन्यते। यद्वा प्रियकप्रणामअहणजन्यौद्धयनिवारणकारणानेकप्रणामकरणं मम प्राप्तमिति ध्वन्यते। तेन, च