________________
आगासप्तशती ।
1
1
१६३ चिपरिणामादप्रेऽप्यन्वेति । मानः । प्रेम । नर्म क्रीडा । विश्वासः । इयमधिका भीः । एवं च भीतेः पूर्वमभावो ध्वन्यते । रागं बालाविभत्तमिव कथयति । एवं च यावत्पर्यन्तं तस्यामेवानुरागः स्थितस्तावत्पर्यन्तं नैतादृशमानादिकं न भीतिः तद्धेत्वभावात् । इदानीं तु मानादिनैतत्समाधानेनेयं मां न पीडयिष्यतीति थिये तादृशाचरणं तवेति भावः । एवं च यत्रासाधारणं प्रेम न तत्र किमपि मानादि बाह्योपचारकरणमपेक्षितमिति ध्वन्यते ॥
स्वपीडाभयेन खप्रभोरप्यनिष्टं चिन्त्यत एवेति कश्चित् कथं खप्रभोरतुचि - ताशंसनं करोषि इति वादिनं वक्ति
पुलकितकठोरपीवरकुचकलशाश्लेषवेदनाभिज्ञः ।
शंभोरुपवीतफणी वाञ्छति मानग्रहं देव्याः ॥ ३८८ ॥
पुलकितेति । संजातपुलकौ । नायकस्पर्शजसुखाविर्भावादिति भावः । यौ कठोरपीवरकुचकलशौ तदा श्लेषपीडाभिज्ञः शंभोरुपवीतरूपफणी पार्वत्या मानग्रहं बाञ्छति । एवं चालिङ्गनाद्यभावेन खपीडानुत्पत्तिर्भविष्यतीति धियेति भावः । कठोरेत्यनेन वेदनायामाधिक्यं ध्वन्यते । एवं च शंभोरित्यनेन सुखजनकत्वप्रतिपादनादुपवीतपदेनातिनिकटतयातिप्रेमवत्त्वव्यञ्जनात्फणीत्यनेन भारसहनसामर्थ्यद्योतनावीदृशस्यापि क्लेशविशेषासहिष्णुत्वं किमुतान्यस्येति द्योत्यते । यद्वा यो हि स्वयं दुःखाभिज्ञः स एव परस्य दुःखनिवृत्तिं वाञ्छतीति कश्चित्कंचिद्वति । एवं च फणैर्वेदनामिज्ञत्वेन शंभो: कठोरकुचवेदना मा भवत्विति बुद्धिरुदेतीति ध्वन्यते । अथवात्यन्तमानवती सा नायातीति दुष्टदूतीवचनाच्छिथिलयनं नायकं नायिकासखी वति । फणीत्यनेन दुष्टत्वं द्योत्यते । यद्वा नायकं प्रति स्वयातायातभयान्नायिकादुःखभावेति कथयन्तीं नायकसखीं ज्ञात्वा नायिकासखी नायकं प्रति वक्ति । एवं चेयं त्वदीयदुष्टसखी खयातायातादिपीडाभयेन तस्या एतादृशस्वभावशालित्वं त्वय्यावेदयति, न वास्तवं सा तथेति ध्वन्यते । तेन च त्वरख तद्दर्शनयन इति ॥
1
काचित्कांचित्कस्याश्चिद्वार्तां वि
प्रिय आयातो दूरादिति या प्रीतिर्बभूव गेहिन्याः । पथिकेभ्यः पूर्वागत इति गर्वात्सापि शतशिखरा ॥ ३८९ ॥
प्रिय इति । दूरादायात इति हेतोर्गेहिन्या या प्रीतिर्बभूव सा पथिकेभ्योऽपि