________________
काव्यमाला।
- यावत्पर्यन्तं नायकाङ्गसुखं नानुभूतं तावदेव गमने नकारः क्रियते, तदुत्तरं | खयमत्यन्तासका नायके भविष्यसीत्सत इदानीं मद्वाक्यं न तिरस्कुर्विवि काचि. एकांचिद्वकि
प्रथमं प्रवेशिता या वासागारं कथंचन सखीभिः ।
न भृणोतीव प्रातः सा निर्गमनस्य संकेतम् ॥ ३८५॥ प्रथममिति । प्रथमतः सखीभिः । न तु सख्या । महता क्लेशेन शयनसदनं या प्रवेशिता सा प्रातः । एवं च चिरपरिचयाभावो व्यज्यते । निर्गमसंकेतं नं शृणोतीव । एवं च न निर्गच्छतीति किमु वाच्यमिति भावः । एवं च तथैव त्वमपि करिष्यसीति व्यज्यते । 'प्रसभम्' इत्यपि कचित्पाठः ॥ मत्रवत्त्वमावश्यकमिति कश्चिद्वक्ति
पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च । __ तदुभयविप्रतिपन्नः पश्यतु गीर्वाणपाषाणम् ॥ ३८६ ॥ .
पूजेति । प्रतिष्ठां विना पूजा नास्ति । मन्त्रं विना प्रतिष्ठा नास्ति । तदुभयविप्रतिपन्नः । मन्त्रं विनापि प्रतिष्ठा, प्रतिष्ठां विना पूजेतिवादीत्यर्थः । देवतायाः पाषाणं प्रतिमां पश्यतु । एवं च देवताप्रतिमायामेवैतनिर्णय इति भावः । यद्वा केनचित्कस्यचित्पूजायां क्रियमाणायामीावशात् 'किमस्य ज्ञानं का वास्य प्रतिष्ठा येनेहशी पूजेयमस्य विधीयते' इति वादिनं कश्चिद्भजयन्तरेण वकि-प्रतिष्ठां देवतासंनिधिरूपां विना पूजा नास्ति । 'प्रतिष्ठितं पूजयेत्' इति वचनात् । पक्षे प्रतिष्ठा विख्यातिः । मन्त्र उत्तमपुरुषामन्त्रणास्यजत्वं तत्त्वम्()। मत्रप्रसिधन्यतमवन्तम् । पक्षे विचारं विना प्रतिष्ठा च नास्ति । मत्रसाध्यत्वात्प्रतिष्ठायाः। प्रतिष्ठामत्रोभयाप्रामाण्यवादी । पक्षे प्रतिष्ठामत्रोभयाभाववादी । देवतापाषाणं पश्यतु । एवं च वेदाप्रामाण्यवादिना नास्तिककक्षाधिरूढेन केनचिद्विष्ण्वादिप्रतिमादौ [विष्ण्वादि]प्रस्तरबुद्धौ कृतायां न किंचित्समीचीनस दुःखमिति भावः । एवं च नास्तिककल्पेन भवता मात्सर्यात्पाण्डित्यप्रतिष्टाविकमेतेषां नास्तीत्युकं. चेत्तावता न काचित्क्षतिरिति ध्वन्यते ॥ नायिकासखी नायिकायां मानाद्युपचारप्रदर्शक नायकं वक्ति
पूर्वाधिको गृहिण्यां बहुमानः प्रेमनर्मविश्वासः ।
भीरधिकेयं कथयति रागं बालाविभक्तमिव ॥ ३८ ॥ पूर्वाधिक इति । गृहिण्यां पूर्वापेक्षयाधिकः । बहनेकप्रकारः । इदं च लिङ्ग