________________
आर्यसमशती। १६१ खाजेयत्वमावेदयति । या युवत्यतत्समुदायव्याप्तम् । एवं च खस्थित्यर्थमवकाशाभावो व्यज्यते । प्रियहृदयम् । एवं चावश्यप्रवेशसंपादनौचित्यं धन्यते । प्रविशन्या बालायाः । नूतनस्तीक्ष्णः । दरमीषत् । किंचिल्लज्जावत्त्वादिति भावः । तरजितमुत्तरोत्तराधिक्यं तच्छालि यः कटाक्षस्तद्रूपेणासिना खरेन पन्था मार्गः। एवं च त्वयैतादृशकटाक्षेण विलोकितेऽवश्यं नायकखा अपहृत्य त्वय्यासको भविध्यतीति वन्यते । अन्योऽपि प्रबलव्याप्तस्थलादौ केवलं खासहायेन प्रवेवं करोतीति लौकिकम् ॥ नायिकासखी नायकं वक्ति
प्रणयापराधरोषप्रसादविश्वासकेलिपाण्डित्यैः।
रूढप्रेमा हियते किं बालाकुतुकमात्रेण ॥ ३८३ ॥ प्रणयेति । प्रणयापराधेन रोषः, प्रसादः, विश्वासः, क्रीडाविषयकपाण्डिलमेत रूढं प्रेम यस्या एतादृशी नायिका । यद्वा प्रवृद्धप्रेमा । अर्थानायिकायाः। एवं च भाविसुखसंभावनया खतःसिद्धसुखपरिहारकर्तव्यता नोचितेति ध्वन्यते । तेन च भवतामीदृशकर्तव्यतया नायिका खिन्ना भवतीत्यावेद्यते । यद्वा नायको नायिकासखी वक्ति । रूढप्रेमा अर्थानायिकया सह बालायाः कुतुकमात्रेण किं हियते। काका न हियत इत्यर्थः । एवं च बालायाः कौतूहलमात्रमेतत् । वाखवानुरागो मम तस्यामेवेति ध्वन्यते ॥
काचिदन्योक्त्या पूर्व खस्मिन्सकं वार्धक्यात्सुरतादावुपेक्षितमन्यविटद्वेषिर्ण कंचन वकि
पूर्वरेव चरित्रैश्चरितैर्जरतोऽपि पूज्यता भवतः ।
मुञ्च मदमस्स गन्धाधुवमिर्गज गञ्जनीयोऽसि ॥ ३८ ॥ पूर्वरिति । हे गज, मदं मुञ्च । नन्वेतत्त्यागे किमित्यत आह-प्राकनैरेवा तै'राचरितैर्चरतोऽपि वृद्धस्यापि । 'जीनो जीर्णो जरन्' इत्यमरः । भवतः। पूज्यता। एवं च मदाभावेऽपि पूज्यतायाः सत्त्वान्मदकरणमनर्थकमिति भावः । न केवलं मदकरणमनर्थकम् , अपि तु दुरर्थकमित्याह-अस्य मदरस गन्धाधुभिर्गजनीयोऽसि । एवं च पूर्ववत्सामर्थ्याभावादसत्कृतमानवत्त्वेऽपि विधीयमाने मदो युक्भिर्व सोढल्य इति ध्वन्यते । तेन च भीतिः ।
११ आ० स०