________________
आर्यासप्तशती.।
नुभूतविलासस्मरणजन्यदर्शनसमसमयस्मितस्य परकीयाविषयकत्वेन गोपवमावश्यकमिति भावः । आवयोर्मध्ये मम भयम् । किमिति मया जवस्य प्रेमावेदकमिदं सितं कृतमिति धियेति भावः । अस्या इति परोक्षायाममि नायिकायामपरोक्षवनिर्देशोऽत्यन्ततदेकतापनत्वमावेदयति । नायके कोपः। किमित्यहितं विहितं मितभादावनेनेति धियेति भावः । अस्या निर्वेदः खावमानना । किमेतादृशेऽतिस्निग्धे विदग्धे कोपमकरवमिति धियेति भावः । अपिश्चार्थः । मम च मन्दाक्षं लबा। कथमविदग्धः कोपमीदृश्या अप्यकरवमिति धियेति भावः । जातमिति सर्वान्वयि । एवं चैतादृशगुणविशेषशालि पराङ्गनासंगतं भवतीति व्यज्यते ॥ .नायकः 'अत्यन्तासकायां तस्यां न तवासक्तिः, एतस्यां सात्यन्तं किमिदम्' इति वादिनं सखायं वति
मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु ।
इयमेव नर्मदा मम वंशप्रभवानुरूपरसा ॥ १५५ ॥ मुक्तेति । हे सखे, सा मुत्तमम्बरं वासो यया । पक्षेऽम्बरमाकाशम् । धावतु। पततु । चरण इति भावः । पक्षे भूमाविति भावः । त्रिमार्गगा वास्तु । यत्किंचितस्या भवत्विति भावः । पक्षे खर्गमृत्युपातालगा। मम समीचीनवंशजन्या चासावनुकूलरतिमती । पक्षे वंशो वेणुः । नर्मदायास्तत उत्पत्तेः । रसो जलम् । इयमेव नर्मदा सुखदात्री । पक्षे नदीनाम । एवं चेयमेव मयं रोचते, न सेति ध्वन्यते । यद्वा यद्यप्यासक्किं प्रदर्शयति तथाप्यनेकमार्गगामिन्यतोऽस्तु । तिष्ठत्वित्यर्थः । सवंशप्रभवत्वेनेयमनेकमार्गगामित्वाभावान्मम सुखदा । एवं च तस्या अनेकगामितया प्रेमप्रदर्शनं कृत्रिममिति भावः ॥ दूती नायिकां वक्ति
मृगमदलेपनमेनं नीलनिचोलैव निशि निषेव त्वम्। ;
कालिन्यामिन्दीवरमिन्दिन्दिरसुन्दरीव सखी ॥ १५६ ॥ मृगेति । हे सखि, कस्तूरीलेपवन्तमेनं नायकं नीलवमेव रात्रौ सेक्य एवं च कृष्णामिसारिकात्वमेव तवोचितमिति भावः । कालिन्यां नीलकमलं अमरसुन्दरीव । एवं च त्रयाणामप्येकरूपत्वान केनापि किमपि ज्ञातुं शक्यमिति मन्यते ॥