________________
काव्यमाला।
सखी कंचन नायकं खनायिकाचातुरी वकि
मम सल्या नयनपथे मिलितः शको न कश्चिदपि चलितुम् ।
पतितोऽसि पथिक विषमे घट्टकुटीयं कुसुमकेतोः ॥ १५७ ।। ममेति । हे पथिक । एवं चान्यमार्गानभिज्ञत्वेन चिरविरहशालितया च तूष्णीमत्रावस्थितिरुचितेति ध्वन्यते । मम सख्याः कटाक्षविषयीभूतः कश्चिदपि । एवं च तव का वातेति भावः । गन्तुं न शक्तः । एवं चैतत्सौन्दर्याद्यालोकनेन के नासका जाता इति भावः । अतस्त्वं विषमे पतितोऽसि । यतः 'कस्य ब्रह्मणोऽपि दुर्गमे पथि' इति पदच्छेदेन योज्यम् । इयं विषमशरस्य मदनराजस्य घट्टकुटी। एवं च त्वयात्रावस्थेयमित्यावेद्यते ॥ सखी नायकं वक्ति
महता प्रियेण निर्मितमप्रियमपि सद्यतां याति ।
सुतसंभवेन यौवनविनाशनं न खलु खेदाय ॥ १५८ ।। महतेति । अत्यन्तप्रेमवता कृतमप्रियमपि सुभग सह्यतां याति न दुःखदमित्यर्थः । अपिना सह्यत्वमावेद्यते । अर्थान्तरन्यासमाह-पुत्रोत्पत्त्या तारुण्यनाशनं दुःखाय नेति निश्चितम् । एवं च नान्यथा शङ्कनीयमिति भावः । एवं चं प्रियानिर्मिताप्रियेण खेदकरणमनुचितमिति ध्वन्यते । यद्वा खापराधजन्यातिमीत्या नायिकादर्शनोदासीनं नायक नायिकासखी वक्ति-सुभग । एवं च तवापराधेऽपि सा वामपेक्षते, अतस्त्वमत्यन्तं धन्योऽसीति द्योत्सते । एवं चात्यन्तप्रेमवती सा त्वयि, अतस्त्वत्कृतापराधान गणयति, अतस्त्वं भीतिमुत्सृज्य तस्याः सविधे प्रयाहीति ध्वन्यते ॥ नायको नायिकासखी वक्ति
मानग्रहगुरुकोपादनु दयितात्येव रोचते मखम् ।
काञ्चनमयी विभूषा दाहाञ्चितशुद्धभावेव ॥ १५९ ॥ मानेति । मानाङ्गीकारेण महान्यः क्रोधस्तदनन्तरं दयिता मह्यमत्येव रोचते। दाहेन प्रकटितशुद्धरूपा सुवर्णविकारविशिष्टभूषेव । एवं च यथा दाहादिना सुवर्णभूषणस्य नेमल्यं तथा मानापगमोत्तरं नायिकाया नैर्मल्यम् । अतोन त्वत्कृतमानाविशयेन मम दुःखम् । अपि तु सुखमेवेति धन्यते। तेन च मानस्सास्थिरत्वम् । , इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यायार्थदीपनया समेता भकारव्रज्या । .