________________
आयोसतशती।
यकारवज्या। . . दूती नायके नायिकासक्त्यतिशयं वक्ति
यूनः कण्टकविटपानिवाञ्चलपाहिणस्त्यजन्ती सा ।
वन इव पुरेऽपि विचरति पुरुषं त्वामेव जानन्ती ॥ १६॥ यून इति । सा नायिका कण्टकवृक्षानिव चेलाबलग्राहकांस्तरुणांस्त्यजन्ती त्वामेव पुरुषं जानाना वन इव नगरेऽपि विचरति । यून इत्यनेन स्पृहणीयत्वम्, कण्टकविटपानिवेसनेन खाभाविकबलात्कारित्वेऽपि तदगणनेनातिसतीत्वमावेद्यते। वन इवेत्यनेन यूनां बाहुल्यम् , समीतिसंचरणशालित्वं च नायिकायामावेद्यते । पुर इत्यनेनावश्यसंचरणानहत्वं द्योत्यते । अपिनान्यसंग्रहः । पुरुषमित्यनेन मन्मथकलाकलापकुशलत्वम् , अथवान्ये स्त्रीतुल्या इत्यत्यन्तानादरोऽन्ययुवखिति व्यज्यते। एवं च सर्वत्र सर्वेऽपि तस्यामत्यन्तासक्ताः सा तु त्वय्येवेति ध्वन्यते ॥
कश्चिद्गुणी दरिद्रः कस्मिंश्चित्समुदाये गतस्तत्र वसतिमलभमानस्तान्वति. युष्मासूपगताः स्मो विबुधा वायात्रपाटवेन वयम् । ।
अन्तर्भवति भवत्खपि नाभक्तस्तन्न विज्ञातम् ॥ ४६१ ॥ युष्माखिति । भोः पण्डिताः, वाड्यात्रपाटवेन पाण्डित्यमात्रबलेन वयं भवत्सविधे समागताः स्मः । 'विद्वानेव विजानाति विद्वज्जनपरिश्रमम्' इति धियेति भावः । भवन्मध्येऽभक्तोऽनरहितः । दरिद्र इति यावत् । नान्तर्भवतीति विज्ञातमपि न । अपिनानुभूतमिति किं वक्तव्यमिति व्यज्यते । अत्रोपसर्गस न तथा प्रयोजनम् । यद्वा यथास्थित एवापिः । एवं चान्तर्भवनयोग्यत्वमावेद्यते । एवं च न पाण्डित्यप्राहिणो भवन्तः, किं तु द्रव्यलुब्धा इति द्योत्यते । एवं च द्रव्येणेव सर्वत्र प्रतिष्ठा, न पाण्डित्यमात्रेणेति। यद्वा भक्तिरहित इत्यर्थः । एवं च यो भवदीयसेवां करोति स एव भवत्सु समावेशमाप्नोति, न तु पाण्डित्यमात्रशालीति भावः ॥ नायको वक्ति
यत्र न दूती यत्र स्निग्धा न दृशोऽपि निपुणया निहिताः।
न गिरोऽद्यापि व्यक्तीकृतः स भावोऽनुरागेण ॥ ४६२ ॥ यति । यत्र न दूती प्रेषितेति भावः । प्रेमााः कटाक्षा अपि न कृताः । गिरोऽपि न । स भावोऽभिप्रायो निपुणया । सकलजनवयकत्वादिति भावः।