Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । पल्लवकर्णपूरभ्रमराभ्यां सहोपमानोपमेयभावः । तेन कोमलारुणपाणिनिर्मलनखान्तरतरङ्गितचपलापाङ्गचमत्कारेण चन्द्रचूडचित्तानुमोदननिबन्धिनी देव्याः सौन्दर्यविभ्रमसंपत्तिः प्रतिपादिता । देवीनां हि लावण्यवर्णनाभिनिवेशस्तत्प्राणेश्वरप्रीतिप्रतिपादनाकावयैव कवीनाम् । इतराकाङ्क्षया तु कलङ्किन एव ते स्युः। उपनिबद्धं च भेट्टबाणेनैवंविध एव सङ्ग्रामप्रस्तावे देव्यास्तत्तद्भङ्गिभिर्भगवता भर्गेण सह प्रो. तिप्रतिपादनाय बहुधा नर्म । यथा-'दृष्टावासक्तदृष्टिः प्रथममथ तथा संमुखीनाभिमुख्ये स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः । उद्युक्ता नर्मकर्मण्यवतु पशुपते: पूर्ववत्पार्वती वः कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः॥' अत एवाम्बिकाया इति पदं न्यस्तम् । कोऽभिप्रायः । अन्येषां सर्वेषामपि मातुर्भगवतश्च नीलकण्ठस्य प्रियायाः । अन्यथा कटाक्षादिवर्णनप्रस्तावे कोऽवकाशोऽम्बिकादीनां पदानामिति । संवलितोऽम्बिकाया इत्यत्र, लोभभ्रमभमरेत्यादौ चानुप्रासो नाम शब्दालंकारः । यदाह भहरुद्रटः–'एकद्वित्र्यन्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः । आवर्त्यते निरन्तरमथवा यदसावनुप्रासः ॥' अत्र वीररसस्यानुगुणो विकटपदानां प्रकृष्टो न्यासोऽनुप्रासः । अलंकाराणां सामान्यलक्षणं चैतत्-काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते ।' ज्याकृष्टी. त्यादौ मञ्जरीत्यादौ च यथाशक्तिसमासाद्गौडीया रीतिः । यदुक्तम्-'द्वित्रिपदा पाचाली लाटीया पञ्च सप्त वा यावत् । शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥' ये च दण्डिनाचार्येण-'श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ इति वैदर्भमार्गस्य प्राणा दश गुणा: स्मृताः ॥ इति गुणाः प्रतिपादितास्ते चात्र शृङ्गाररसोचिता बाहुल्येन भविष्यन्ति । तस्माद्वैदर्भमार्गे सर्वथा समास एव न स्यादिति न वाच्यम् । ओजसः समासभूयस्त्वात् । तोजोगुण एव गौडीयो मार्ग इति चेत्, गौडीये केवलं यथाशक्ति समास एव वैदर्भ पुनः श्लेषप्रसादादयोऽपीति । ननु गुणा अपि काव्यशोभाहेतवस्तत्कथं 'काव्यशोभाकरान्' इत्याद्यलंकारलक्षणं समानजातीयव्यवच्छेदकं स्यात् । उच्यते-नहि गुणा: कटककेयूरादिवदाभरणत्वेनालंकुर्वन्ति । किं तु शौर्यौदार्यवत्प्रकर्षमादधते । उक्तं चानन्दवर्धनाचार्येण–'उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥ तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्त्वलंकारा मन्तव्याः कटकादिवत् ॥' अर्थालंकारश्चात्र कल्पितोपमा। यदुक्तम्-'सा कल्पितोपमाख्या यैरुपमेय विशेषणैर्युक्तम् । ताग्भिस्तावद्भिः स्यादुपमानं तथा यत्र ॥ यथा-'मुखमापूर्णकपोलं मृगमदलिखितापत्रमेतत्ते । भाति लसत्सकलकलं सलाञ्छनं चन्द्रबिम्बमिव ॥' सामान्यलक्षणं चैतत्-'उभयोः समानमेकं गुणादिसिद्धं यथा यदेकत्र । अर्थेऽन्यत्र तथा तसाध्यत इति सोपमा ज्ञेया ॥' श्रुतालंकारैरत्रोत्प्रेक्षा कैश्चिदुक्ता । सा च न भवति । सिद्धोपमानसद्भावाभावात् । यदुक्तम्-'अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भा १. चण्डीशतके. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 95