Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
१७
I
त्विग्विवाह्यो राजा प्रियः स्नातक इति । श्रौताचारवतामागमनोचितमेतत् । न पुनः प्रणयोचितम् । शिरस्याज्ञा न्यस्ता, न तु हृदये । सापि पाषाणभारवदतिदुर्वहा । अतिदुर्वहं वस्तु मस्तके धार्यते । अत एवानतिमतीति शिरोविशेषणम् । मिलने दृष्टेर्नशैथिल्यम् । मनसो मिलने तु शैथिल्यमेव । अथ च दृष्टेः शैथिल्यं न । अमुना प्रकारेण त्वया दूरादेव स्मितमधुरं यथा भवत्येवमभ्युत्थानं कृतम् । इदं क्रियतामित्यादिकार्य नियोग आज्ञा । सापि प्रियवचनवती मे आनम्रशिरसि प्रतीष्टा । अन्यच्च तव दृष्टेर्मम दृष्टया सह मिलने शैथिल्यं नास्तीत्येतावत्संवृतिस्वरूपम् दूरादेवाभ्युद्गमः कृतो न तु प्रत्यासत्तौ । शरीरसंपर्कसंभावनायामप्यसहनत्वात् । यः पूर्वे मम तथा वशीभूत आसीत्तस्यैव प्रियतमस्यान्याङ्गनासङ्गिनोऽप्यनुवृत्तिं करोमि प्राणांश्च धारयामीत्यात्मन्यसंभावना | अभ्युपगमोऽपि तस्या नास्ति, अपि तु साटोपत्वम् । तवैौदासीन्यमात्रेऽपि मम चेतो दह्यते तत्का नामान्याङ्गनासङ्गसंभावना । तस्मात्पिशुनविजृम्भितमेतत् । यच्च मम हृदये दह्यमानेऽपि तव हृदयस्य काठिन्यं तत्र निगूढान्तः कोपता हेतुः । अन्तर्निखातकर्कशपदार्थ हि कोमलमपि कठिनं भवति । मिलन इत्यत्र यद्यपि गुणप्रतिषेधो न प्राप्नोति तथापि रूढिरस्ति । अनुमानालंकारः । यथा - 'वचनमुपचारगर्भ -' इत्यादि प्राग्दर्शितम् । औदार्य प्रदर्श्य सदे (?) त्यनेनौदार्ये नाव्यालंकारः । यथा - 'अंइदुकिआऍ दिअहं सकलं काऊण गेहवावारम् । गरुए वि मण्णुदुः क्खे भरिमो पाअन्तसुत्तस्स ॥' काचित्प्रणयकलहान्तरिता सहचरीं प्रत्याह
कथमपि सखि क्रीडाकोपाद्रजेति मयोदिते
कठिनहृदयः शैय्यां त्यक्त्वा बलागत एव सः ।
इति सैरभसं ध्वस्तप्रेम्णि व्यपेतघृणे स्टहां
पुनरपि हतव्रीडं चेतः करोति करोमि किम् ॥ १५॥
हे सखि, किं करोमि । अपि तु न किमपि । यतः पुनरपि मे निस्त्रपमन्तःकरणं तस्मिन्प्रियतमे स्पृहां करोति । किंविशिष्टे । यतो व्यपेतघृणे निःशङ्के । पुनरपि कीदृशे । सरभसमपर्यालोचितमपास्तप्रेम्णि । तस्मादिति कस्मात् । यतः स कर्कश हृदयो बलात्कारेण गत एव । क्व सति । कथमपि प्रणयरोषाद्गच्छेति मयोक्ते सति । कथमपिशब्दस्यायमभिप्रायः - क्रीडयापि कोपं न करोमि । क्रीडाकोपेऽपि मा कदाचिदसौ वैमनस्यं गच्छेत । शय्यां त्यक्त्वा गतः, न तु माम् । उपनतेऽप्यमङ्गले न कश्चिदात्मनः स्वयममङ्गलं शंसतीत्याशयः । बलाद्गतः सोऽपि किं स्वभावेन गन्तुं शक्नोति । अत एव सरभसं ध्वस्त प्रेम्णि । व्यपेतघृणे इयं मया विना न जीविष्यतीति जानत्यप्युपेक्षितवति । किं करोमि । इतिकर्तव्यतामो
१. 'अतिदुःखिताया दिवसं सकलं कृत्वा गेहव्यापारम् । गुरुकेऽपि मन्युदुःखे स्मरामः पादान्तसुप्तस्य ॥' इति च्छाया. २. ' त्यक्त्वा शय्यां' इति शृङ्गारदीपिका. ३. 'सरभसध्वस्त-' इति शृङ्गारदीपिका.
३
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95