Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
Catalog link: https://jainqq.org/explore/020033/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KÂVYAMÂLÂ. 18 THE AMARUS'ATAKA OF AMARUKA. With the Commentary of Arjunavarmadeva. EDITED BY PANDIT DURGÂPRASAD AND KÂS'INÂTH PÂNDURANG PARAB. -00 000 PRINTED AND PUBLISHED BY THE PROPRIETOR OF THE “NIRNAYA-SÂGARA” PRESS. BOMBAY 1889. Price 10 Annas. For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (Registered according to Act XXV. of 1867.) (All rights reserved by the Publisher.) For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला. १८. श्रीअमरुककविविरचितम् अमरुशतकम्। अर्जुनवर्मदेवप्रणीतया रसिकसंजीवनीसमाख्यया व्याख्यया समेतम् । -- जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाहपाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितम् । तच्च मुम्बय्यां निर्णयसागराख्ययत्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १८८९ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः।) मूल्यं १० आणकाः । For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुकविः । - - अमरुशतकं मण्डनमिश्रपल्याः शारदायाः प्रश्नानामुत्तरदानार्थ गतासोरमरुकाख्यमहीपतेदेहं प्रविष्टेन श्रीशंकराचार्येण प्रणीतमिति बहूनां प्रवादः. “भगवाञ्छंकराचार्यों दिग्विजयच्छलेन काश्मीरमगमत् । तत्र शृङ्गाररसवर्णनार्थ सभ्यैरभ्यर्थितः 'शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत्' इति वचनादमरुनाम्नो राज्ञो मृतस्य परवपुःप्रवेशविद्यया शरीरे प्रवेशं कृत्वा स्त्रीशतेन सह केलिं विधाय प्रातस्तथा कारयामास | पिशुनैः कापटिकोऽयमाजन्मब्रह्मचारीत्युपहसितः शान्तरसमत्र व्याचष्टे इति किंवदन्ती” इति रविचन्द्रः स्वकृताया अमरुशतकटीकायाः प्रारम्भे लिलेख. किं त्वेतत्सर्व शंकरदिग्विजयानवलोकनमूलं प्रमादविलसितम्. तथा हि माधवकविप्रणीते शंकरदिग्विजये नवमदशमसर्गयोः “कलाः कियत्यो वद पुष्पधन्वनः किमात्मिकाः किं च पदं समाश्रिताः । पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युवत्यां कथमेव पूरुषे ॥ इति श्रीशंकराचार्य प्रति शारदाप्रश्नाः । ततः शारदाप्रश्नश्रवणानन्तरं यद्यस्याः प्रश्नानामुत्तरं न दास्यामि तदा ममाल्पज्ञता प्रतीयेत, उत्तरदाने तु संन्यासिनो मम कामशास्त्रचर्चया धर्मक्षयो भवेदिति विचार्य प्रश्नोत्तरदाने मासमात्रमवधि विधाय शिष्यैः सह गगनमुत्पपाताचार्यः । गगने बम्भ्रम्यमाण एव मृगयार्थमायातमटव्यामेव दैवयोगाद्गतप्राणं विलपन्तीभिः प्रमदाभिः परितममरकाव्यमहीपतिं तरुमूले विलोक्य सनन्दनाख्यशिष्येण सह संमन्त्र्य शिष्यैः कृतरक्षमात्मकलेवरं कुत्रचन गिरिगह्वरे निधाय योगयुक्त्यामरकनृपशरीरे प्रविवेश | प्रमुदितैर्मन्त्रिभिर्महिषीभिश्च समेतो नृपशरीरधारी राजधानी च जगाम । तत्र च मनोहरतराभिर्महीपतिपङ्कजाक्षीभिस्तांस्तान्भोगानुपभुज्य कामतत्त्वं सम्यगभिज्ञाय 'वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च विलोक्य सम्यक् । स्वयं व्यधत्ताभिनवार्थगर्भ निबन्धमेकं नृपवेषधारी ॥” इत्याख्यायिका वर्तते. एतेन श्रीशंकरशार यो वात्स्यायनीयकामसूत्रानुकूलं कमपि निबन्धं रचयामास, तत्रैव च शादानानामुत्तराण्यप्यन्तर्भावयांचकारेति प्रतीयते. न त्वभरुशतकनिर्माणसूचनमात्रमपि शंकरदग्विजये समुपलभ्यते. नाप्यमरुशतके शारदाप्रश्नोत्तरानुरूपं किमप्यस्ति. एवं रविचन्द्रोक्तमप्यसंबद्धमेव यतस्तत्रैव षोडशे सर्गे आचार्यस्य काश्मीरयात्रा तत्र च शारदासदने तत्तद्देशवासिभिर्वादिभिर्विवादश्च सम्यग्वणितः. किं तु शृङ्गाररसवर्णनार्थ सभ्यैरभ्यथित इत्यादिरविचन्द्रोक्तं तत्र नोपलभ्यते तस्मादेवंविधा निर्मूला जनश्रुतयः कथं प्रमाणत्वेन स्वीकर्तुमर्हाः ? अथ यदि शारदाप्रश्नोत्तरदानार्थ निबन्धं प्रणीयामरुशतकमप्याचार्येणेव निरमायीति को विकल्पावकाश इत्युच्यते, तर्हि तन्निबन्धनिर्माणं शारदाप्रश्नोत्तरदानार्थमात्मनः सर्वज्ञताकीतिरक्षार्थ च, किं त्वमरुशतकप्रणयनं शृङ्गारव्यसनितयैवेत्यप्यङ्गीकार्यमिति महती विडम्बना यतिवरस्य. तस्मादस्य शतकस्य प्रतामरुकविः कश्चिदन्य एव. स च कदा कुत्र समुत्पन्न इति न ज्ञायते. किं तु ध्वन्यालोकस्य तृतीयोद्दयोते 'मुक्तकेषु हि प्रबन्धेष्विव रसबन्धाभिनिवेशिनः कवयो दृश्यन्ते । तथाह्यमरुकस्य कवेमुक्तकाः शृङ्गाररसस्यन्दिनः प्रबन्धायमानाः प्रसिद्धा एव ।' इत्यानन्दवर्धनाचार्य उक्तवानुदाहतवांश्च बहूनमरुशतकश्लोकांस्तत्तत्स्थलेषु. तस्मात्खिस्ताब्दीयनवमशतकात्याक्तनोऽमरुकविरिति ज्ञायते. For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शतकस्यास्य भूयस्यष्टीका वर्तन्ते । तत्रास्माभिः (१) अर्जुनवर्मदेवकृता रसिकसंजीविनी, (२) वेमभूपालकृता शृङ्गारदीपिका, (३) रुद्रमदेवकृता, (४) रविचन्द्रकृता, (५) सूर्यदासकृता शृङ्गारतरङ्गिणी, (६) शेषरामकृष्णकृता रसिकसंजीविनी, (७) कर्तृनामरहिता, इति टीकासप्तकमासादितम्. तत्रार्जुनवर्मदेवः सुप्रसिद्धस्य मालवाधिपते जनरेन्द्रस्य वंश्यः सुभटवर्मसूनुरासीदिति तत्कृतटीकाप्रारम्भश्चोकेभ्यः काव्यमालायां ३ लेखे मुद्रितात्तदीयदानपत्राच ज्ञायते. तच्च दानपत्रं १२७२ मिते विक्रमाब्दे लिखितमिति ख्रिस्ताब्दीयत्रयोदशशतकपूर्वाधेऽर्जुनवर्म आसीदित्यपि सुव्यक्तम्. अर्जुनवर्मदेवश्च टीकायां 'यदुक्तमुपाध्यायेन बालसरस्वत्यपरनाम्ना मदनेन' इति वदंस्तत्तत्स्थलेषु मदनोपाध्यायप्रणीतान्बहूश्लोकान्प्रमाणत्वेनोपन्यस्तवान्. दानपत्रसमाप्तौ 'रचितमिदं-राजगुरुणा मदनेन' इत्यस्ति. तस्मात्कस्यचनालंकारनिबन्धस्य प्रणेता अर्जुनवर्मगुरुर्मदनोपाध्यायोऽपि तत्समय आसीत्. तत्प्रणीतग्रन्थस्तु नाद्यापि दृक्पथं गतः. 'हरिहर गर्व परिहर कविराजगजाङ्कशो मदनः । मदन विमुद्रय वदनं हरिहरचरितं स्मरातीतम् ॥' इति प्राचीनं पद्यमपि कदाचिदस्यैव मदनोपाध्यायस्य वर्णनपरं स्यात्. वेमभूपालस्तु शृङ्गारदीपिकापारम्भे इत्थमात्मानमवर्णयत्'अन्योन्यमेलनवशात्प्रथमं प्रवृद्धं मध्ये मनाग्व्यवहितं च कुतोऽपि हेतोः । प्राप्तं दशामथ मनोरथलाभयोग्यां पायाच्चिरं रतिमनोभवयोः सुखं वः ॥ आसीच्चतुर्थान्वयचक्रवर्ती वेमक्षितीशो जगदेकवीरः । एकादशेति प्रतिभान्ति शङ्कां(?) येनावताराः परमस्य पुंसः ॥ राज्यं वेमः सुचिरमकरोत्प्राज्यहेमाद्रिदानो भूमीदेवै वमुरुभुजो भुक्तशेषामभुत । श्रीशैलापात्प्रभवति पाथेतिपातालगङ्गे सोपानानि प्रथमपदवीमारुरुक्षुश्चकार ॥ माचक्षोणिपतिर्महेन्द्रमहिमा वेमक्षितीशाग्र(नु)जो । रामायैः सदृशो बभूव सुगुणैस्तस्य त्रयो नन्दनाः । कीर्त्या जाग्रति रेडिपोतनृपतिः श्रीकोमटीन्द्रस्ततो नागक्ष्मापतिरित्युपात्तवपुषो धर्मार्थकामा इव ॥ वेमाधिपो माचविभुश्च नन्दनौ श्रीकोमटीन्द्रस्य गुणैकसंश्रयौ । भूलोकमेकोदरजन्मवाञ्छ्या भूयोऽवतीर्णाविव रामलक्ष्मणौ ॥ स वेमभूपः सकलासु विद्यास्वतिप्रगल्भो जगनोष्वगण्ड:(१)। कदाचिदास्थानगतः कवीनां काव्यामृतास्वादपरः प्रसङ्गात् ॥ अमरुककविना रचितां शृङ्गाररसात्मिकां शतश्लोकीम् । श्रुत्वा विकसितचेता तदभिप्रायं प्रकाशतां नेतुम् ॥ मूलश्लोकान्समाहत्य प्रक्षिप्तान्परिहत्य च । विधत्ते विदुषामिष्टां टीका शृङ्गारदीपिकाम् ॥' For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेनायं वेमभूपाल: केरलदेशीयः कश्चन शूद्रमहीपतिरासीदिति भाति. अभिनवबाणकविप्रणीते वीरनारायणचरिताभिधे गद्यकाव्ये वणितस्त्रिलिङ्गदेशान्तर्गत अहङ्गी'नामनगर्यधीशः कदाचिदयमन्यो वेति संदेहः. रुद्रमदेवस्तु नात्मानं वर्णितवान्. केवलं टीकासमाप्तौ 'अमरुकशतमिदमित्थं स्वबुद्धिविभवाद्रसाब्धितत्त्वज्ञः । रुद्रमदेवकुमारो विदग्धचूडामणिय॑वृणोत् ॥' इयमार्या वर्तते. रविचन्द्रविषये किमपि न ज्ञायते. सूर्यदासः. कदाचन सिद्धान्तसुन्दरकर्तृज्ञानराजदैवज्ञात्मजो रामकृष्णविलोमकाव्य-भगवद्गीताटीकयोः प्रणेतैव स्यात्. शेषरामकृष्णस्तु कश्चन वाराणसेयः शास्त्री. एतासु सप्तस्वपि टीकास्वर्जुनवर्मप्रणीता श्रेष्ठतमेति सैवास्माभिर्मुद्रिता. वेमभूपतिकतापि समीचीनव. रुद्रमदेवकृतातिसंक्षिप्ता. रविचन्द्रकृतायां शान्तरसोऽपि व्याख्यातः. स च शुचिरसस्यन्दिष्वमरुकश्लोकेषु परिशील्यमानेषु 'रहसि प्रौढवधूनां रतिसमये वेदपाठ इव' सहृदयानां शिरःशूलमेव जनयति. सूर्यदासेनार्जुनवर्मप्रणीतटीकायाः सर्वस्वमपहृतम्. शेपरामकृष्णेन वेमभूपालटीका सम्यगेव लुण्ठितेत्युभावपि परार्थहरणप्रवणावतिसाहसिकौ पाटचराविति न संदेहः. सप्तमी कर्तृनामरहिता टीका तु टिप्पणमात्र केनचिज्जैनेन प्रणीतेति भाति. एवं शंकरकृता हरिहरभट्टकृता अमरुदर्पणं चेति टीकात्रयमन्यदप्यस्ति. तवास्माभिर्नासादितम्. अस्मदृष्टान्यमरुशतकमूलपुस्तकान्यपि कानिचिदर्जुनवर्मदेवटीकायाः, कानिचिच्च वेमभूपालटीकायाः प्रायोऽनुकूलानि सन्ति. टीकाद्वये च श्लोकविन्यासभेदः. कानिचिच्च पद्यान्येकेन व्याख्यातान्यपरेण परित्यक्तानि. अमरुशतकपुस्तकेष्वनुपलभ्यमानानि कानिचन पद्यानि सुभाषितावल्यादिष्वमरुकनाम्ना, कानिचिच्च शतकपुस्तकेषूपलभ्यमानान्यप्यन्यकविनाम्ना समुद्धृतानीत्यादि सर्व परिशिष्टेषु श्लोकानुक्रमणिकायां चास्माभिर्दशितमस्तीति शिवम्. अस्मन्मुद्रणाधारभूतानि पुस्तकानि त्वेतानि(१) अर्जुनवर्मटीकासमेतं कश्मीरलिखितं प्रायः शुद्धं नवीनमस्मदीयम्. तत्पत्राणि २६. (२) अर्जुनवर्मटीकासमेतं जयपुरराजगुरुभट्टलक्ष्मीदत्तसूनुभट्टश्रीदत्तशर्मणां प्रायः शुद्धं १६९५ विक्रमसंवत्सरे लिखितम्. तत्पत्राणि ६४. (३) अर्जुनवर्मटीकासमेतमेव डॉक्टर् पी. पीटर्सन्महाशयेन मथुरातः समानीय दत्तं १६६५ विक्रमाब्दे लिखितं नातिशुद्धमष्टपत्रविकलम्. (४) वेमभूपालकृतटीकासमेतं जयपुरराजगुरुपर्वणीकरोपाह्वनारायणभद्यानां नातिशुद्धम् . तत्पत्राणि ३१. (५) तादृशमेव मुम्बईनगरवास्तव्यपण्डितज्येष्ठाराममुकुन्दजीशर्मणाम्. तत्पत्राणि ३४. (६) रुद्रमदेवकृतटीकासमेतं शुद्धं १५७९ विक्रमाब्दे लिखितं मुरतनगरवासिना केवल दासात्मजेन भगवानदासश्रेष्ठिना समानीय दत्तम्. (७) इतस्ततः संपादितानि त्रिचतुराणि मूलपुस्तकानि. For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। अमरुककविविरचितम् अमरुशतकम् । महाराजश्रीमदर्जुनवर्मदेवप्रणीतया रसिकसंजीवनीसमाख्यया व्याख्ययोपेतम् । - - देवी रतिर्विजयते मृगनाभिचित्रपत्रावली पृथुपयोधरसीम्नि यस्याः । भाति त्रिलोकविजयोपनतस्वकान्तप्रक्रान्तसायकनिशाणनकालिकेव ।। भ्रूलास्योत्सविनी सविभ्रमगतिर्मूईनितम्बस्तना संकीर्णे वयसि स्मिताभणितिः सा पार्वती पातु वः । यस्याः कर्णतटं दृशावगमतां तूर्ण तदन्तःपथे गत्वा द्रष्टुमिवेश्वरं हृदि कृताधिष्ठानमाकुश्चिते ।। अमरुककवित्वडमरुकनादेन विनिद्भुता न संचरति । शृङ्गारभणितिरन्या धन्यानां श्रवणयुगलेषु ॥ आपद्यन्तां विकासं कथमिह कुमुदानीव कार्कश्यदीप्यत्सूर्यारब्धप्रबन्धव्यसननिपतितान्युत्तमानां मनांसि । आविर्भावं भजन्ते यदि न बुधगुरोर्मन्मथप्रौढिकाराः क्रीडाधाम्नः कलानाममरुकसुकवेः केऽप्यमी श्लोकपादाः॥ क्षिप्ताशुभः सुभटवर्मनरेन्द्रसूनुर्रिव्रती जगति भोजकुलप्रदीपः । प्रज्ञानवानमरुकस्य कवेः प्रसारश्लोकाञ्छतं विवृणुतेऽर्जुनवर्मदेवः ॥ अव्युप्तत्तिमतामन्तःप्रबोधाय सचेतसाम् । काव्याभिधेयालंकारलक्षणं लिख्यते मनाक् ॥ तत्रादिमोऽयमाशंसनश्लोकः ज्याकष्टिबद्धखटकामुखपाणिप्टष्ठ प्रेकन्नखांशुचयसंवलितोऽम्बिकायाः। त्वां पातु मञ्जरितपल्लवकर्णपूर लोभभ्रमद्रमरविभ्रमभृत्कटाक्षः ॥ १ ॥ १. 'तर्जनीमध्यमामध्ये पुङ्खोऽङ्गष्ठेन पीड्यते । यस्मिन्ननामिकायोगः स हस्तः कट. कामुखः ॥' इति शृङ्गारदीपिका. २. 'मृडान्याः' इति शृङ्गारदीपिकासंमतः पाठः, For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २ काव्यमाला । 'यद्गतागतिविश्रान्तिवैचित्र्येण विवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥' सर्वमङ्गलायाः कटाक्षस्त्वां पातु रक्षतु । किंविशिष्टः । ज्याकृष्टीत्यादि । बाणासनगुणाकर्षणेन रचितो यः खटकामुखो नाम हस्तस्तस्य पृष्ठं तत्र परिस्फुरन्यः करजकिरणकलापस्तेन संवलितः करम्बितः । खटकामुखलक्षणं चैतत् - 'अस्या एव यदा मुटैरूर्ध्वोऽङ्गुष्ठः प्रयुज्यते । हस्तकः शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ शिखरस्यैव हस्तस्य यदाङ्गुष्ठनिपीडिता । प्रदेशिनी भवेद्वका कपित्थो जायते तदा ॥ उत्क्षिप्ता च यदा वक्रानामिका सकनीयसी । एतस्यैव कपित्थस्य तदा स्यात्खटकामुखः ॥' अथ कटाक्षस्योपमानगर्भ विशेषणमाह - पुनः किंविशिष्टः । मञ्जरितेत्यादि । मञ्जरी उद्भिद्यमानमुकुलसंततिः । सा संजातास्येति तारकादिभ्य इतच् । मञ्जरितो यः पल्लवः स एव कर्णपूरस्तत्र लोभस्तेन भ्रमन्यो भ्रमरस्तस्य विभ्रमो विलासस्तं बिभर्तीति क्विप् । इति तावद्वाक्यार्थः । रहस्यं चैतत्परमार्थसहृदया मन्यन्तेयं रसमुपनिबद्धमेष कविः प्रवृत्तः स यद्यप्यकृत्रिमानुरागस्त्रीपुंसपरस्परानुरागकल्लोलितः परां कोटिमधिरोहति तथापि नायिकायाः प्राधान्यम् । तत्प्राधान्यप्रकाशनपरश्चायमौचित्यात्कटाक्षमुख्यत्वेनाभीष्टदेवताशंसनश्लोकोऽपि प्रथमं लिखितः, 'क्षिप्तो हस्तावलग्नः' इत्यादिश्लोकस्तु चरमम् । किं च धर्मार्थयोरुपरिवर्तमानस्य मोक्षात्किचिदर्वाचीनस्य पुरुषार्थविशेषस्य निधानमपत्येनैव पितॄणामानृण्यहेतुभूता नितम्बिनीविहाय किमन्यदुपादेयम् । यदुक्तमुपाध्यायेन बालसरस्वत्यपरनाम्ना मदनेन — 'संसारे यदुदेति किंचन फलं तत्कृच्छ्रसाध्यं नृणां किं त्वेतत्सुखसाध्यमस्ति युगलं सम्यग्यदि ज्ञायते । यलक्ष्मीसमुपार्जनं पुलकिनां रक्तस्वरं गायतां यत्कान्तारतिनिस्तरङ्गमनसामुत्पद्यते नन्दनः ॥' कामशास्त्रेऽप्युक्तम्- 'किं स्यात्परत्रेत्याशङ्का यस्मिन्कार्ये न जायते । न चार्थघ्नं सुखं चेति शिष्टास्तस्मिन्व्यवस्थिताः ॥' परस्त्रीगतोऽप्ययं रस उपनिबध्यमानो न पातकाय । एवंविधसंविधानकैः स्त्रीणां चारित्रखण्डनं भवति तस्मात्प्रयत्नेनैताः संरक्षणीया इत्युपदेशपर्यवसितत्वात् । अन्यथा वात्स्यायनो महर्षिस्तत्तदुपायैः परस्त्रीसाधनं कथं प्रणीतवान् । उक्तं च- ' - ' संदृश्य शास्त्रतो योगान्पारदारिकलक्षितान् । न याति च्छलनं कश्चित्स्वदारान्प्रति शास्त्रवित् ॥' यद्यपि धनुर्वेदे खटकामुखः प्रणीतोऽस्ति तथाप्यत्र नृत्यसंस्कार एवायं हस्तको देव्याः । एवं च महान्विशेषः । लप्स्यलीलयैव देव्या दुरतिक्रमदैत्यकुलक्षयः कृत इति प्रभावातिशयप्रतीतेः । ‘यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः' इत्युक्तत्वात्खटकामुखे कटाक्षनिवेशनं युक्तम् । सहृदयंमन्यैश्च पुनरत्र मुरटाप्रभृतिपञ्चमुष्टीनां मध्ये केयं मुष्टि: कैशिकप्रमुखपञ्चन्यायेषु कश्चायं न्याय इत्यादिशरासनशास्त्रचर्चा क्रियते । वयं त्वेवं ब्रूमः — यत्र शृङ्गरिकरसः कविः पुरुषायितप्रवृत्तकामिनीवदनमेव त्वां पातु किं हरिहरस्कन्दादिभिर्दैवतैरिति देवताशंसनमप्यपार्थकप्रायं प्रतिपादयति तत्र को नाम धनुर्वेदमनिर्वेदः पल्लवयितुमुत्सहत इति । प्रेङ्खन्नखांशुपाणिपृष्ठकटाक्षयोर्म अरित१. 'मुचटी' इति द्वितीयपुस्तके. Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । पल्लवकर्णपूरभ्रमराभ्यां सहोपमानोपमेयभावः । तेन कोमलारुणपाणिनिर्मलनखान्तरतरङ्गितचपलापाङ्गचमत्कारेण चन्द्रचूडचित्तानुमोदननिबन्धिनी देव्याः सौन्दर्यविभ्रमसंपत्तिः प्रतिपादिता । देवीनां हि लावण्यवर्णनाभिनिवेशस्तत्प्राणेश्वरप्रीतिप्रतिपादनाकावयैव कवीनाम् । इतराकाङ्क्षया तु कलङ्किन एव ते स्युः। उपनिबद्धं च भेट्टबाणेनैवंविध एव सङ्ग्रामप्रस्तावे देव्यास्तत्तद्भङ्गिभिर्भगवता भर्गेण सह प्रो. तिप्रतिपादनाय बहुधा नर्म । यथा-'दृष्टावासक्तदृष्टिः प्रथममथ तथा संमुखीनाभिमुख्ये स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः । उद्युक्ता नर्मकर्मण्यवतु पशुपते: पूर्ववत्पार्वती वः कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः॥' अत एवाम्बिकाया इति पदं न्यस्तम् । कोऽभिप्रायः । अन्येषां सर्वेषामपि मातुर्भगवतश्च नीलकण्ठस्य प्रियायाः । अन्यथा कटाक्षादिवर्णनप्रस्तावे कोऽवकाशोऽम्बिकादीनां पदानामिति । संवलितोऽम्बिकाया इत्यत्र, लोभभ्रमभमरेत्यादौ चानुप्रासो नाम शब्दालंकारः । यदाह भहरुद्रटः–'एकद्वित्र्यन्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः । आवर्त्यते निरन्तरमथवा यदसावनुप्रासः ॥' अत्र वीररसस्यानुगुणो विकटपदानां प्रकृष्टो न्यासोऽनुप्रासः । अलंकाराणां सामान्यलक्षणं चैतत्-काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते ।' ज्याकृष्टी. त्यादौ मञ्जरीत्यादौ च यथाशक्तिसमासाद्गौडीया रीतिः । यदुक्तम्-'द्वित्रिपदा पाचाली लाटीया पञ्च सप्त वा यावत् । शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥' ये च दण्डिनाचार्येण-'श्लेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥ इति वैदर्भमार्गस्य प्राणा दश गुणा: स्मृताः ॥ इति गुणाः प्रतिपादितास्ते चात्र शृङ्गाररसोचिता बाहुल्येन भविष्यन्ति । तस्माद्वैदर्भमार्गे सर्वथा समास एव न स्यादिति न वाच्यम् । ओजसः समासभूयस्त्वात् । तोजोगुण एव गौडीयो मार्ग इति चेत्, गौडीये केवलं यथाशक्ति समास एव वैदर्भ पुनः श्लेषप्रसादादयोऽपीति । ननु गुणा अपि काव्यशोभाहेतवस्तत्कथं 'काव्यशोभाकरान्' इत्याद्यलंकारलक्षणं समानजातीयव्यवच्छेदकं स्यात् । उच्यते-नहि गुणा: कटककेयूरादिवदाभरणत्वेनालंकुर्वन्ति । किं तु शौर्यौदार्यवत्प्रकर्षमादधते । उक्तं चानन्दवर्धनाचार्येण–'उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥ तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्त्वलंकारा मन्तव्याः कटकादिवत् ॥' अर्थालंकारश्चात्र कल्पितोपमा। यदुक्तम्-'सा कल्पितोपमाख्या यैरुपमेय विशेषणैर्युक्तम् । ताग्भिस्तावद्भिः स्यादुपमानं तथा यत्र ॥ यथा-'मुखमापूर्णकपोलं मृगमदलिखितापत्रमेतत्ते । भाति लसत्सकलकलं सलाञ्छनं चन्द्रबिम्बमिव ॥' सामान्यलक्षणं चैतत्-'उभयोः समानमेकं गुणादिसिद्धं यथा यदेकत्र । अर्थेऽन्यत्र तथा तसाध्यत इति सोपमा ज्ञेया ॥' श्रुतालंकारैरत्रोत्प्रेक्षा कैश्चिदुक्ता । सा च न भवति । सिद्धोपमानसद्भावाभावात् । यदुक्तम्-'अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भा १. चण्डीशतके. For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। वम् । आरोप्यते च तस्मिन्नतद्गुणादीति सोत्प्रेक्षा ॥' यथा-'चम्पकशिखरापमिदं कुसुमसमूहच्छलेन मदनशिखी । अयमुच्चैरारूढः पश्यति पथिकान्दिधक्षुरिव ॥' यत्र संभावनमात्रेण 'लिम्पतीव तमोऽङ्गानि' इत्यादिवदुपमानोपमेयभाव एव नास्ति तत्रातिशयोत्प्रेक्षाव्यवहारः । भट्टरुद्रटमते हि चतस्रोऽलंकाराणां जातयः–वास्तवमौपम्यमतिशयः श्लेष इति। अत्र यद्यपि दैत्यदलनोपक्रमे भ्रूभङ्गलोचनलौहित्यादिविकाराभावादुपमायाः सौन्दर्यविभ्रमसंपत्तिं धैर्यातिशयशालिनी प्रतिपादयन्त्या 'उत्साहात्मा वीरः स च त्रिधा धर्मयुद्धदानेषु' इति वचनायुद्धवीररसे गौडीरीतिव्यञ्जितौजसि तत्परता । तथापि न रसस्य प्राधान्यम्, किं तु त्रयस्त्रिंशत्कोटित्रिदशैरप्यशक्ये कर्मण्यध्यवसिताया देव्याः प्रभावातिशयमात्रात्मनो वाक्यार्थस्य । तेनोपमाया रसवदलंकारत्वम् । यदुक्तम्'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः। काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥' भ्रमरसाधारोपणेन कवेरसितः कटाक्षोऽभिप्रेतः । वर्णयन्ति सितमसितं सितासितं च कटाक्षम् । तत्र सितो यथा धनंजयस्य–'उज्जृम्भाननमुल्लसत्कुचतटं लोलभ्रमद्भूलतं स्वेदाम्भःस्नपिताङ्गयष्टि विगलद्रीडं सरोमाञ्चया । धन्यः कोऽपि युवा स यस्य वदने व्यापारिता: सांप्रतं मुग्धे दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ॥' असितो यथा कस्यापि-'गतः कालो यत्र प्रणयिनि मयि प्रेमकुटिल: कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति । इदानीमस्माकं जरठकमठीपृष्ठकठिना मनोवृत्तिस्तत्ति व्यसनिनि मुधैव क्षपयसि ॥' सितासितो यथा-'अदृश्यन्त पुरस्तेन खेलाः खञ्जनपतयः । अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥' इति || क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥ २॥ स शांभवः शराग्नियुष्माकं दुरितं दहतु हरतु । स कः। य आर्द्रापराधः कामीव त्रिपुरयुवतिभिर्बाष्पझलज्झलायितलोचनेन्दीवराभिः करव्यतिषक्तः प्रेरितः । बलात्कारेण वस्त्राञ्चलमवलम्बमानस्ताडितः । निरस्तश्च शिरोरुहेषु लगन् । पादप्रणतस्तु पर्याकुलतया नावलोकितोऽपि । निर्भसितश्च परिष्वजमान इति । अत्र भगवतः पिनाकपाणेर्बाणानलभस्मीकृतोद्भटदानवेन्द्रस्य प्रभावातिशयद्योतको वीररसोऽङ्गीकृतः । क्षिप्तो हस्तावलग्न इत्यादिना दनुजेन्द्रदयितानामीारूपो विप्रलम्भशृङ्गारः, साश्रुनेत्रोत्पलाभिरित्यनेन प्राणेश्वरशोकात्मा करुणरसश्चाङ्गम् । न चानयोरन्योन्यं विरोधः । अन्यपरत्वात् । यथाहि महर्षीणामाश्रमेष्वहिनकुलादीनाम् । यदक्तम्-'विवक्षिते रसे लब्धप्रतिष्ठे तु। विरोधिनाम् । वाच्यानामङ्गभावं च प्राप्तानामुक्तिरच्छला ॥' विशेषतस्तु प्रस्तुतपरिपोषकारिणावेतौ । ईर्ष्यारूपस्तावदत्र विप्रलम्भशृङ्गारः करुणमेव पुष्णाति । यदुक्तम् For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । 1 “प्रकृतिरमणीयाः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थाभाविभिः संस्मर्यमाणैर्विलासैरधिकतरं शोकावेशमुपजनयन्ति । यथा - 'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥” इति । इह हि यास्तत्तदुपायपरिचर्याचतुरेण कान्तेन कुपिताः प्रसादितास्ता एव दनुजराजराजीवलोचनाश्चिरमननुभूतान्यविषयतया विपद्वयसनेऽपि माननीमानदर्शनं दर्शयन्त्यो दारुणदहनेन परिभूयन्त इति प्रतीतेः करुणोऽपि प्रतिपक्षगतस्त्रिपुररिपोरभिनन्द्यवन्द्योदयस्य वीरं पुष्णाति । अत्रासूयाश्रुणी व्यभिचारिसात्त्विकौ भावौ प्रकर्षेण रसतां गतौ । यदुक्तम्- 'निर्वेदोऽथ तथा ग्लानिः शङ्कासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं विबोधो हर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च । त्रासश्चैव वितर्कश्व विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः प्रयान्ति रससंस्थितिम् ॥ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ अलंकारश्च क्षिप्तो हस्तावलग्न इत्याद्येकैकवाक्यप्रतिपादितशराग्निसापराधकामिवृत्तान्तेनार्थश्लेषेणानुग्राह्योपमा । अर्थश्लेषलक्षणम् - एकार्थवाचकानामेव शब्दानां यत्रानेकोऽर्थः सोऽर्थश्लेषः' इति । तेन 'यत्रैकमनेकार्थैर्वाक्यं रचितं पदैरनेकस्मिन् । अर्थे कुरुते निश्चयमर्थश्लेषः स विज्ञेयः ॥' इति भट्टरुद्रटेन यलक्षणं कृतं तच्छब्दश्लेषमेव प्राप्नोति । अनेकार्थानां हि शब्दानामन्वयव्यतिरेकाभ्यां तस्य प्रवृत्तिनिवृत्ती । यथा - 'तवैष विद्रुमच्छायो मरुमार्ग इवाधरः । करोति कस्य नो बाले पिपासाकुलितं मनः ॥' अत्र हि प्रवालशब्देन श्लेषो न भवति । अभग्नपदो यथा - 'तव तन्वि कुचावेतौ भूधराविव राजतः । अन्योन्यमण्डलाक्रान्तौ संधिहीनौ करार्थिनौ ॥' अत्रापि परिणाहान्तरहस्तशब्दैः श्लेषो न भवति । अर्थश्लेषे तु क्षिप्तो हस्तावलग्न इत्यादिषु प्रेरितः करव्यतिषक्त इत्यादिभिः पदैः श्लेषो न निवर्तते । संकरश्चायम् । यदुक्तम्- 'मिश्रालंकाराणां तिलतण्डुलवच्च दुग्धजलवद्वा । व्यक्ताव्यक्तांशत्वात्संकर उत्पद्यते द्वेधा ॥' अत्रापि वाक्यार्थस्यैव प्राधान्यम्, संकीर्णस्य रसादेश्चाङ्गत्वम् । तेन रसवदलंकारस्थितिः पूर्ववदेव । यच्च प्राग्वीररसस्याङ्गत्वं प्रतिपादितं तद्विप्रलम्भकरुणावेक एव । आर्द्रशब्दो नवोद्भिन्नकिसलयादौ प्रसिद्धः । अत्र तु स्वार्थे स्खलद्गतित्वादमूर्तस्यापराधस्य नूतनत्वं लक्षयति । तेन चातिदुःसहत्वं व्यङ्गथम् । अत एवार्द्रापराधः कामी वह्निसमानत्वेन प्रतिपादितः । संतापातिशयजनकत्वात् । लक्षणा चेयं वृत्तिः । यदुक्तं काव्यप्रकाशे - 'मुख्यार्थबाधे तयोगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणा रोपिता क्रिया ॥' इयमेव च विदग्धवक्रोक्तिरिति स्पृहणीया कवीनाम् । वाचकलाक्षणिकव्यञ्जकानां शदानामधा लक्षणा व्यक्तिरिति तिस्रो वृत्तयः । अर्था अपि तावन्त एव वाच्यलक्ष्यव्यङ्गथा इति । आददानोंऽशुकान्तमित्यत्र 'आङो दोऽनास्यविहरणे' इत्यात्मनेपदम् । तेन व्यादानं मुखप्रसारणे वर्तत इति दोषो नाशङ्कनीयः । गृह्णन्केशेष्वित्यत्र क्रियाया For Private and Personal Use Only ५ Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। स्त्रिपुरयुवतय एव कर्मत्वेनावधार्याः, न तु केशाः । यथा-'गृहीत इव केशेषुइति । आलिङ्गन्योऽवधूत इत्यत्र चरणनिपतितोऽपि दृष्टिमात्रेणापि न संभाव्यते स कथमालिङ्गितुमिच्छतीत्यर्थः । कस्यांचित्कृते कृत्वा(?) प्रतिपादितमुन्मादितः कामातुरस्तस्यालिङ्गनमुचितमिति समाधानम् । अस्य कवेस्तावदन्यः कोऽपि प्रबन्धो न दृश्यते । तन्नूनमनयोः श्लोकयोः संकीर्णरसोपनिबन्धोऽनेन दर्शितः । अग्रे सर्वत्र शृङ्गाररसस्यैवोपनिबन्धनीयत्वात् । संकीर्णरसोपनिबन्धस्तु निकषो रसकवीनाम् । किं चामीषां श्लोकानां तावती रसोपकरणसामग्री यावती प्रबन्धेषु भवति । अत एवोक्तं भरतटीकाकारैः-'अमरुककवरेकः श्लोकः प्रबन्धशतायते' इति ॥ आलोलामलकावली विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसः शीकरैः। तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्देवतैः ॥ ३॥ तत्कृशाङ्गयाः पुरुषायितसंभोगमध्ये खेदालसलोचनं मुखं त्वामनेककालं त्रायताम् । किं वैकुण्ठशितिकण्ठषण्मुखप्रमुखै किभिः । अपि तु न किमपि । नहि ते रसातिरेकोन्मत्तपुरुषायितसंरब्धविदग्धनितम्बिनीवदनचन्द्रविरहदहनदन्दह्यमानं रक्षितुं क्षमन्ते । एतेनानुरागविह्वला तरुणी तवाभिलाषोचितमानुगुण्येन संपादयत्वित्यर्थः । यदुक्तम्"पांतु वो दयितामुखम्' इति सांमुख्ये।" किं कुर्वाणम् । चञ्चलां चूर्णकुन्तलमालां विलुप्तरचनाविशेषां दधानम् । पुनश्च कीदृशम् । कम्पमानकर्णाभरणम् । भूयः कथंभतम् । स्तोकोत्पुंसिततिलकम् । कैः । सूक्ष्मसूक्ष्मैः श्रमसात्त्विकसंकीर्णैर्जलबिन्दुभिः । अनुशयाक्षेपोऽलंकारः । 'मुखेन्दौ तव सत्यस्मिनितरेण किमिन्दुना ।' परमत्र वाक्यार्थस्य न प्राधान्यम् । किं तु रसस्यैव । नापि रसवदलंकारव्यवहारः । अपि तु रसोऽलंकार्यः । अलंकारश्च यथार्थ एव । 'नायकस्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपशममनुमता च तेन तमवपात्य पुरुषायितेन साहायकं दद्यात् ।' इति वात्स्यायनः । अत्र प्रगल्भा नायिका । 'यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥' परित्यक्तव्रीडा चेयम् । यदुक्तम् –'एवमन्येऽपि परित्यक्तत्रीडायन्त्रणा वैदग्ध्यप्रागल्भ्यप्रायाः प्रगल्भा व्यवहारा वेदितव्याः ।' संभोगशृङ्गारो रसः । यदुक्तम्-'अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मदान्वितः ॥' शृङ्गारस्य सामान्यलक्षणमेतत्-'रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ॥ प्रकृष्यमाणः शृङ्गारो मधुराङ्गविचेष्टितैः । अयोगो विप्रयोगश्च संयोगश्चेति स त्रिधा ॥' रसस्यैवाथ सामान्यलक्षणमेतत्-विभा १. 'स्वेदाम्भसा जालकैः' इति शृङ्गारदीपिका. २. 'हरिहरब्रह्मादिभिर्दैवतैः' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । वैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वाद्यत्वं स्थायिभावो रसः स्मृतः ॥' सच व्यङ्गयव्यञ्जकभावेन भाव्यभावकभेदेन वा चय॑माणात्मकोऽसंलक्ष्यक्रमध्वनिसंज्ञितः। यदक्तं ध्वनिकृता-'यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थो । व्यतः काव्यविशेष: स ध्वनिरिति सूरिभिः कथितः ।।' अस्ति ध्वनिः । स चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्विविधः । 'अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् । अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥ असंलक्ष्यक्रमद्योत्यः क्रमेण द्योतितोऽपरः । विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ रसभावतदाभासभावशान्त्यादिरक्रमः । ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥ [क्रमेण परिपाट्या यः स्वानुस्वानाभसंनिभः । शब्दार्थशक्तिमूलत्वादिधा सोऽपि व्यवस्थितः॥' यदाह भरतः-'बहवोऽर्था विभाव्यन्ते वागर्थाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संस्मृतः ॥ वागङ्गसत्त्वाभिनयैरस्मादी विभाव्यते । वागङ्गोपाङ्गसंयुक्तः सोऽनुभाव इति स्मृतः ॥' विविधमाभिमुख्यन रसं चरन्तीति व्यभिचारिणः । विभावैर्ललनोद्यानादिभिरालम्बनोद्दोपनकारणैः स्थायी रत्यादिको भावो जनितोऽनुभावैः कटाक्षभ्रूभुजाक्षेपादिभिः सहकारिभिरुपचितो रसः । यदाह भरतः–'सर्वथा नास्त्येव हृदयहारिणः काव्यस्य स प्रकारो यत्र प्रतीयमानमर्थसंस्पर्शनसौभाग्यं तदिदं काव्यरहस्यं परम्' इति ॥] परपुरुषप्रथमानुरागिणी कामपि नायिकां रहः सहचरी प्राह अलसवलितैः प्रेमाार्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलेनिमेषपराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥ ४ ॥ हे मुग्धे, कथय क एष पुण्यराशिर्भवत्या वीक्ष्यते । कदा । अद्य । कोऽभिप्रायः । अद्यप्राकोऽप्येवं त्वया नावलोकित इति । कैः । ईक्षणैः । भावभेदाबहुवचनम् । किं कुर्वद्भिरिव । उद्गिरद्भिरिव । किं तत् । हृदयनिहितं भावाकूतमभिलाषोचितं संकल्पविशेषम् । वयःसंधौ हि नायिकाश्चिरसंचितं लजासंवृतं बहुतरमभिलाषं हृदये धारयन्ति । यश्च येनाध्मातो भवति स तमुद्रितीति युक्तमेव । पुनः किंविशिष्टैः । अलसवलितैरसौष्ठवतिरश्चीनैः । मन्थरतिर्यग्भतैरिति भावः । यथा कश्चित्केनापि लोभेन स्थानमत्यक्तुकाम इतरेण कार्यवशाबलात्कारेण प्रेर्य उत्थाप्यते न च प्राञ्जलो गच्छति तथेक्षणान्यपि हि स्फारोत्फुल्लानि भूत्वा प्रियदर्शनरसपानोयुक्तानि साध्वसेन प्रसह्य साचीक्रियन्ते । पुनः किंभूतैः। प्रेमाद्रौद्रैः प्रीतिस्निग्धस्निग्धैः।यदाह भगवान्भरतः स्थायिभावदृष्टीनामपक्रमे'व्याकोशा स्नेहमधुरा स्मितपर्वाभिभाषिणी। अपाङ्गभ्रकृता दृष्टिः स्निग्येयं रतिभावजा॥' पुनः कीदृशैः । मुहर्मकलीकृतैर्दर्शनसुखविशेषानुभवेन वारंवारमर्धनिमीलितैः । यथा क १. कोष्ठकान्तःस्थितः पाठः पुस्तकान्तरे नास्ति. For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। श्चिदभिलषितं वस्तु चिरप्राप्यमास्वाद्य नितान्तसौहित्येन मान्धमाप्नोति । न तु निमीलि. तैरेव । निमेषपराङ्मुखैरित्यत्रानुपपद्यमानत्वात् । पुनस्तर्षातिरेकेण क्षणमभिमुखैः । न त चिरम् । यतस्त्रपातरलैः । कोऽभिप्रायः । आभिमुख्य प्रियस्यानुरागरूपचेष्टाविशेषातू(ब) किंचिदुपलभ्य लजालोलानि जातानीत्युभयानुरागः । नहि निरनुरागे पुंसि नायिकानां दृष्टयो लजामनुभवन्ति । पुनः किंभूतैः । दर्शनरसान्तरायकातर्येण निमेषपराङ्मुखैः । अनुभवैकवेद्याश्चैवंविधा दृष्टयः । यथास्मत्पूर्वजरूपवर्णने नाचिराजस्य-'सत्रासा इव सालसा इव लसद्गर्वा इवार्दा इव व्याजिह्मा इव लजिता इव परिभ्रान्ता इवार्ता इव । त्वद्रपे निपतन्ति कुत्र न जगद्देवप्रभो सुध्रुवां वातावर्तननर्तितोत्पलदलद्रोणि द्रुहो दृष्टयः ॥' त्वयेति पदं न युष्मदर्थमात्रम् । किं त्वर्थान्तरसंक्रमितवाच्यम् । क एवंविधः पुण्यराशिरस्ति यस्त्वया जगदेकस्पृहणीयसौन्दर्यसंपदानेकाभ्युपायेनाशक्यापहारचित्तत्वानिर्विकारया सस्पृहमवलोक्यते । अत एव सुकृतीति । मुग्धे इति पदस्य पुनरयमभिप्रायः–यदित्थं मुग्धा त्वं यदेवमभिमतं जनं स्वच्छन्दमवलोकयसि । एवं हि लोकैः सूक्ष्मेङ्गितहरुपलक्षिष्यसे । तस्मात्प्रच्छन्नमास्व अहमेव ते समीहितं संपादयिष्यामीति । अत्र कविनिबद्धवक्तप्रौढोक्तिनिष्पन्नोऽर्थशक्तिव्यङ्ग्यः । यदेनमेवमवलोकयसि तत्त्वमस्मिन्ननुरक्तेत्यनुनुमानालंकारः प्रथमानुरागदर्शनात्मकसंभोगशृङ्गारस्याङ्गम् । यदुक्तम् –'अर्थशक्तरलं. कारो यत्राप्यन्यः प्रकाशते । अनुमानोपमाव्यङ्गयः स प्रकारोऽपरो ध्वनेः ॥ ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः । रूपकादिरलंकारवर्गों याति यथार्थताम् ॥' यथा'लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जडराशिरयं पयोधिः ॥' अत्र मुखं चन्द्र एवेति रूपकम् । अनुमानस्योदाहरणं चैतत् –'वचनमुपचारगर्भ दूरादुद्गमनमासनं सकलम् । इदमद्य मयि यथा ते तथासि नूनं प्रिये कुपिता ॥' परमेष वाच्योऽलंकारः । अत एवोक्तम्-'शरीरकरणं येषां वाच्यत्वेन व्यवस्थितम् । तेऽलंकाराः परां छायां यान्ति ध्यन्यङ्गतां गताः ॥' नाट्यालंकारस्तु हावो नाम । 'हेवाकस्तु सशृङ्गारो भावोक्षिभूविलासकृत् ।' इयं स्वस्त्री न भवति । नाप्यनुरक्तः पुरुषो वक्ता । कोऽयं सुकृतीत्यनुपपद्यमानत्वात् । दूती चात्र निसृष्टार्थी । यदुक्तम् –'निसृष्टार्था परिमितार्था पत्रहारिणी स्वयंदूती भार्यादूती मूकदूती बालदूती चेति दूतीविशेषाः । नायकस्य नायिकायाश्च यथामनीषितमर्थमुपलभ्य स्वबुद्ध्या कार्यसंपादिनी निसृष्टार्था । सा प्रायेण संस्तुतभाषणयोर्नायकनायिकयोरप्रयुक्ता । संस्तुतसंभाषणयोरपि कौतुकादनुरूपाविमौ युक्तौ परस्परस्यति । प्रथमानुरागलक्षणं चैतत्-तत्संमुखी तं न वीक्षते । प्रेक्षिता व्रीडां दर्शयेत् । रुच्यमात्मनोऽङ्गमन्यापदेशेन प्रकाशयति । प्रमत्तं प्रच्छन्नं नायकमतिक्रान्तं च वीक्षते । पृष्टा च किंचित्सस्मितमव्यक्ताक्षरमनवसितार्थ मन्दमन्यतोमुखी कथयति । तत्समीपे चिरं स्थानमभिनन्दति । दूरे स्थिता पश्यतु । मामिति मन्यमाना परिजनं समुखविकारमाभाषते । तं च देशं न मुञ्चति । य For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम्। किचिदृष्ट्वा विहसितं करोति । तत्र कथामवस्थानार्थमनुबध्नाति । बालस्याङ्कगतस्य चुम्बनमालिङ्गनं च करोति । परिचारिकायास्तिलकं च रचयति । परिजनानवष्टभ्य तास्ताश्च लीला दर्शयति । तन्मित्रेषु विश्वसिति । वचनं तेषां बहुमन्यते करोति च । तत्परिचारकैः सह प्रीतिं संकथां द्यूतं चारभते । स्वकर्मसु चैतान्प्रभविष्णुरिव नियुङ्क्ते । तेषु च नायकसंकथामन्यस्य कथयत्स्ववहिता तां शृणोति । धात्रेयिकया प्रोत्साहिता नायकस्योदवसितं प्रविशति । तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितुमिच्छति । अनलंकृता दर्शनपथं परिहरति। कर्णपत्रमङ्गुलीयकं सजे वा तेन याचिता स धीरमिव गात्रादवतार्य सख्या हस्ते ददाति । तेन च दत्तं नित्यं धारयति । अन्यवरसंकथासु विषण्णा भवति । तद्विपक्षश्च सह न संसृज्यत इति । 'दृष्ट्वैतान्भावसंयुक्तानाकारानिङ्गितानि च । कन्यायाः संप्रयोगार्थ तांस्तान्योगान्विचिन्तयेत् ॥” सा च मुग्धा नायिका । 'मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि ।' यथा-'दृष्टेः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि । पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥' 'नर्मस्फोटस्तु भावानां सूचिताल्परसो लवैः' इत्यनेन नर्मस्फोटः । यथा मालतीमाधवे मकरन्देन माधवस्य मालत्यामनुरागो लक्षित:-'गमनमलसं शन्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किं त्वेतत्स्याकिमन्यदितोऽथवा । भ्रमति भुवने कंदर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥' प्रथमानुरागश्लोकोऽप्येष क्रमौचित्यात्प्रथमं लिखितः ।। अङ्गुल्यग्रनखेन बाष्पसलिलं विक्षिप्य विक्षिप्य किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि । यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमि गते निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥५॥ कुपितनायिकाप्रसादने साम दानं भेदः प्रणतिरुपेक्षा रसान्तरं चेति षडुपायाः । तन्मध्येऽत्र भेद एव । इह हि नायकेनानुप्रविश्य शिक्षिता सखी वक्री वक्ष्यमाणप्रकारेण मानत्याजनाय नायिकां भीषयति। हे कोपने ईर्ष्यावति, अङ्गुल्यग्रनखेन बाष्पसलिलमपनीयापनीय लाघवलजातिशयेन मानाध्मातहृदया किं कण्ठार्धनिरुद्धगद्दं रोदिषि । किंशब्दोऽल्पार्थः । न तु हेतुप्रेरणार्थः । मानरूपस्य हेतोः स्वयं ज्ञातत्वात् । आत्मीयचरितेन प्रचुरतरमुच्चैःशब्दं रोदिष्यसि । यस्यास्तव परगृहोपप्लावकानां पिशुनानां शिक्षाक जापर्माने मर्यादामतिक्रान्ते विफलप्रसादनोपायतया निर्वेदं यावत्प्राप्तो बहुमानं प्रति प्रियतम औदासीन्यं गमिष्यति । न त्वन्याङ्गनाम् । यस्मात्त्वं पिशुनोपदेशेषु लग्नासि । तस्यापराधगन्धोऽपि नास्तीति भावः । विक्षिप्य विक्षिप्येति वीप्सया बाष्पनैरन्तर्यमुक्तम् । अत्र प्रियतमोऽथ च निविण्ण इति नायिकायाः सविशेषं भयोत्पादनकारणमु For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। क्तम् । न तु निर्वेदो व्यभिचारिभावः । तस्य शृङ्गारे निषिद्धत्वात् । शृङ्गारश्चात्र विप्रलम्भ एव । यदुक्तम्-'विप्रलम्भस्तु विश्लेषो रूढविस्रम्भयोर्द्विधा । मानप्रवासभेदेन मानो हि प्रणयेप्रा॒योः॥ तत्र प्रणयमानः स्यात्कोपवश्यतया द्वयोः । स्त्रीणामीाकृतो मानः स्यादन्यासङ्गिनि प्रिये ।। श्रुते चानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् । उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः ॥ त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः । न च निर्विण्णशब्देनैव निर्वेदव्यभिचारभावप्रतीतिः । रसादीनां वाच्यत्वाभावात् । यदुक्तम्-'तथा हि । वाच्यत्वं तस्य शब्दनिवेदितत्वेन वा स्याद्विभावादिप्रतिपादनमखेन वा। पूर्वस्मिन्पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतत्वप्रसङ्गः । न च सर्वत्र तेषां स्वशब्दनिवेद्यत्वम् । यत्रापि तदस्ति तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैषां प्रतीतिः । स्वशब्देन सा केवलमनद्यते । न तु तत्कृतैव सा । विषयान्तरे तस्या अदर्शनात् । न हि केवलशृङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिः । केवलं स्वाभिधानमात्रादप्रतीतिः । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् । न त्वभिधेयत्वं कथंचिदिति । एवंविधस्य रसध्वनेरुपनिबन्धक्षमा अमरुकप्राया एव महाकवयः । यदुक्तमभिनवगुप्तपादैः-"प्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनस्यैव महाकविव्यपदेशः । अन्यथा व्युत्पत्त्यभ्यासयोर्मध्ये प्रधानभूतया प्रतिभयापि कविरेवोच्यते । यदुक्तम् –'प्रज्ञा नवनवोलेखशालिनी प्रतिभा मता। तदनुप्राणनाजीवद्वर्णनानिपुणः कविः॥" अलंकारश्चात्राप्यनुमानम् । यदुक्तम्-'यत्र बलीयः कारणमालोक्याभूतमेव भूतमिति । भावीति वा तथान्यत्कथ्येत तदन्यदनुमानम् ॥' यथा—'वहति यथा मलयमरुद्यथा च हरितीभवन्ति विपिनानि । प्रियसखि तथैष न चिरादेष्यति तव वल्लभो नूनम् ॥' परमसौ वाच्यः । वाच्यो व्यङ्गयोऽप्यलंकारो रसस्याङ्गं भवतीत्याचार्याः । गुणस्तु प्रसाद एव । अत एवात्र यमकादयो निषिद्धाः । 'ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥ दत्तोऽस्याः प्रणयस्त्वयैव भवतैवेयं चिरं लालिता दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम् । मन्युर्दुःसह एंव यात्युपशमं नो सान्त्ववादैः स्फुटं हे निस्त्रिंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥ ६ ॥ अत्र नायकं प्रति मानिन्याः सखी वक्री । त्वयैवास्याः प्रणयो बहुमानो दत्तः । न पुनरियं मुग्धा बहुमानोत्पादनाय प्रत्यभियोक्तं जानाति । अन्यच्च भवतैवेयं चिरं लालिता । न पुनरनया लालनकारणं किंचिदारब्धम् । अत एव दैवात्, न बुद्धिपर्वकमद्य पुनस्त्वमस्या नवं व्यलीकं कृतवान् । यः खलु यस्याः स्वयं प्रणयं ददाति, स्वयं च १. 'भवता सेयं' इति शृङ्गारदीपिका. २. 'एष' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । प्रेमातिरेकेण लालयति, न तस्याः प्रतिकूलं बुद्धिपूर्वकमारभते । तत्रापि किलशब्दप्रयोगः । कोऽर्थः । विप्रियं विप्रियमिति श्रूयते न हि भवान्वस्तुतो विप्रियं करोतोति ज्ञावापराधेऽपि नायके नायिकाया धृत्युत्पादनम् । एवं सति मन्युरेव मानजनितो दुःखविशेष एव दःसहो न सामवादैरुपशमं याति । स्फुटमेतत् । तस्मात् हे निस्त्रिंश निरनक्रोश, विमुक्त उच्चैःशब्दत्वात्कण्ठो यस्मिन्नसौ विमुक्तकण्ठः स चासौ करुणो यथा भवत्येवं तावत्सखी रोदितु । विमुक्तकण्ठविषये करुणा यत्रेति वा समासः। कोऽभिप्रायः । एवं रोदितुं यदि न प्राप्स्यति तदा मन्युनामातमस्या हृदयं परिपाकोच्छ्रसितबीजविदीर्णदाडिमफलन्यायेन स्फुटिष्यति । तस्मादुच्चैःशब्दं रोदितुं देहि । पश्चायथा जानासि तथा प्रसादय । अथ च यदि रुदित्वा जीवन्ती निर्वक्ष्यति तदा प्रसादनं घटत इत्यसूया । विषमोऽलंकारः । यदुक्तम्-'कार्यस्य कारणस्य च यत्र विरोधः परस्परं गणयोः । तद्वक्रिययोरथवा संजायतेति तद्विषमम् । यथा-'आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥' वारंवारमनुनीयमानामपि प्रौढेावशादशिथिलमानग्रन्थि मनस्विनी प्रति प्रधानसखी प्राहलिखन्नास्ते भूमि बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्व हसितपठितं पञ्जरशुकै स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ ७ ॥ हे कठिने, बहिः प्राणदयित आस्ते । किं कुर्वन् । शून्यतासूचकचिन्तासंतानसमुचितचेष्टानुभावेनावनतो भूमिं लिखन् । अकृते प्रसादे द्वारं न मुञ्चतीत्यर्थः । तथा च वर्तन्तेऽनशनाः सख्यः । पुनः कीदृश्यः । निरन्तरबाष्पेणोच्छूने लोकोक्त्या उच्छृसिते नयने यासां ताः सततरुदितोच्छूननयनाः । अत्र नायिकाया अमङ्गलचिन्तनमेव हेतुः । किं च, पारशुकैरपि हसितपठितं परित्यक्तम् । तथापि तवावस्था चेयम् । निरुद्धबाष्पारुणितनेत्रामायमाननिःश्वासकदीमानाधरस्फुरणादिमन्युचेष्टाभिरधृष्या तथैव तिष्ठसीत्यर्थः । तस्मान्मानं परित्यज । कदा। अधुनापि । अपिशब्दोऽध्याहार्यः । एतावतीमपि दशां दुर्जनोपहसनीयां प्राप्ता मानं न मुञ्चसीति प्रतीयमानत्वात् । यस्याः कृते सख्योपि पञ्जरशुका अथाहारं हसितपठितं च परित्यजन्ति सा त्वं कथमिव प्रियाय न प्रतिभाषसे । प्रियोऽपि यस्यास्तव प्राणदयितस्तदलमतिमानेनेति भावार्थः । अत एव कठिने इति संबोधनम् । अत्रार्थशक्त्युद्भवः सहोक्तिरलंकारः । नायिकायामाहारादिकं कुवैत्यां सर्वेऽपि कुर्वन्ति, निवर्तमानायां च निवर्तन्त इति प्रतीतेः । सुप्तिब्यङ्गयमात्रं चात्र कर्मलकाराभ्यामेवोद्भासितम् । अत्र न लिखतीति, अपि तु लिखनिति प्रसादनपयन्तम् । आस्ते इति, न त्वासित इति । भूमिमिति, न भूमाविति । नहि बुद्धिपूर्वकं For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir १२ किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्गथम् । हसितपठितमित्यत्र 'सर्वो हि द्वन्द्वो विभाषैकवद्भवति' इत्येकवचनम् । अत्र श्लोके त्वया तस्यापराधः सोढव्य इति कापि नोक्तम् । एतच्च वक्तुः कौशलम् । अपराधस्मारणे हि मानिनो प्रतिनायिकां स्मरति । ततश्चाधिकं कुप्यति । न चैवंविधः प्रसाधन निर्बन्धः पूर्वमस्यां केवलेन दाक्षिण्येन अपि तु लोकोत्तरेण प्रेम्णा च । उक्तम् -- ' अक्खडइ पिआ हिअए अण्णं महिलाअणं रमन्तस्स । दिट्ठे सरिसम्मि गुणेऽसरिसम्म गुणे अईसन्ते' | अनेकनायिकाकमनीयनायकव्यलीकविलीयमानविलासां वरवर्णिनीं विदग्धववयस्या वक्त नार्यो मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारिता स्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः । कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरे किं नो बर्बरकर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ८ ॥ 1 1 अङ्गनास्तावद्बहिर्मुग्धा अन्तः शठास्तव रमणमपहरन्ति । निषिद्धा अपि न निवर्तन्ते । तत्किमिति मुधा ताम्यसि कस्माच्च रोदिषि । उभयमपि व्यर्थमित्यर्थः । एवं हि तासामभीप्सितं भवति । अत एव तासां प्रियं मा कृथा इति । तर्हि किं समयोचित - मित्याह — कान्त इत्यादि । हे कातरे, किं न विक्रीयते । लक्षणया अनन्याधीनः किं न क्रियते । अनन्याधीनं हि वस्तु विक्रेतुं याति । कोऽसौ । पतिः । किंविशिष्टः । कान्तः सुन्दरः । क्रीडारसिकः । तरुणः सहृदयस्तादृगनिर्वचनीयचेतनः । किं कृत्वा । आक्रम्य । मुग्धशठाभ्य एव नायिकाभ्य आच्छिद्येत्यर्थः । कैः । प्रियशतैः । किंविशिष्टैः । बेर्बरकर्कशैः सोल्लुण्ठनर्मनिरनुक्रोशैः । यदुक्तं गोवर्धनाचार्येण - 'अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः । इतरेन्धनजन्मा यो धूमः सोऽगुरुसमुद्भवो धूपः अत एव केलिरुचिर्न चासंभावितो वश्यतां याति । यतस्तादृक्सहृदयः । 'दक्षिणोऽस्यां सहृदयः' । अपमानितश्च नार्या विरज्यते । स पुनरुत्कृष्ट इति मया स्वयं माममुत्सृज्य संगमयितुं कथं युज्यते पतिरिति लाघवलजाभीरुत्वेन कातरे इति संबोधनम्। प्रशंसामनोज्ञानुनयप्रवर्तिका चेयमुक्तिः । यः कान्त इत्यादि गुणस्पृहणीयो वारिताभिरप्यङ्गनाभिरपह्रियते स त्वयापराधोचितनिग्रहस्थानीयेन बर्बरकार्कश्येन विक्रेयकोटिमानीयते । त स्माद्युवतिषु धन्या त्वमिति प्रतीयमानत्वात्परिवृत्तिरलंकारः । बर्बरकर्कशं दत्त्वा पतिरपढियतामिति पर्यवसितत्वात् । यदुक्तम् —'युगपद्दानादाने अन्योन्यं वस्तुनोः क्रियेते 1 १. ‘आस्खलति प्रिया हृदये अन्यं महिलाजनं रममाणस्य । दृष्टे सदृशे गुणे असदृशे गुणे अदृश्यमाने ॥' इति गाथासप्तशतोटीकायां (१९४४) छाया. २. 'बर्बर कर्कशैः परुषकठिनैः' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । विपचर्यते वा प्रसिद्धितः सेति परिवृत्तिः ॥' यथा-'दत्त्वा दर्शनमेते म. प्राणा वरतनु त्वया क्रीताः । किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥ कोपात्कोमललोलबाहुलतिकापाशेन बहा दृढं नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निद्रुतिपरः प्रेयान्रुदत्या हसन् ॥९॥ हन्यते क्रीडाकमलादिना ताड्यते। कोऽसौ । प्रेयान् । कीदृशः । धन्य एव । कया। दयितया । किं कुर्वत्या । रुदत्या । किं कुर्वन् । निहुतिपरो हसन् । नाहं तत्र गत इत्यादिवचनेन मानोपशमं लक्षयित्वा स्मयमानः । किं कृत्वा हन्यते । वासनिकेतनं नीत्वा । वासनिकेतनमेव किं कृत्वा नीतः। कोपात्कोमललोलबाहुलतिकापाशेन बड़ा दृढम् । बाहलतिकाया लोलत्वं सात्त्विको भावः । लतिकेत्यनेन दुःसहविरहक्लेशकार्यम् । अत एव बन्धनव्याजादौत्सुक्येन स्वयंग्रहाश्लेषः । क्व । पुरः । कासाम् । सखीनाम् । कदा। सायम् । यदि मानमेव धृत्वाद्यतनीमपि रात्रि प्रतिपालयिष्यामि तदा मा कदाचिदल. (य)मन्यत्र वय॑तीत्यौत्सुक्यप्रतिपादकः सायंशब्दप्रयोगः । अत एव लज्जापरित्यागयोतकं सखीनां पुरः इत्युक्तम् । पुनः किं कृत्वा । व्यलोकं संसूच्य । कथमिति । भूयोऽप्येवमिति । अर्थादिदानींतनोऽपराधः सोढ इति लभ्यते । भूयोऽप्येवं करिष्यसीति वाच्ये यदोक्तं तत्र रोषसात्त्विकसंकीर्णसंभ्रमहेतुको वास्तम्भः कारणम् । अत एव स्खलन्मृदुगिरा । अहो अन्यदेव किमपि दयितायाः प्रभुत्वं यत्समकालमेव निग्रहप्रसादौ । नहि बाहुलतिकाबन्धनं विहाय कश्चिदन्यः प्रसादोऽस्ति । अत्र कविर्वक्ता । ईर्ष्यामानात्मकविप्रलम्भारम्भः संभोगशङ्गारपर्यवसितो रसः । अत्रालंकारो रसनिर्वाहणैकतानहृदयेन कविनात्यन्तं न निर्वाहं नीतः । यदाह ध्वनिकारः-'अत्र हि बाहुलतापाशेनेति रूपकमाक्षिप्तमनिषूटं च परं रसपुष्टये ।' अधीरा प्रगल्भा नायिका ।। कश्चिद्देशान्तरगमनोपक्रमं विहाय यथापूर्वमवस्थितः केनचिदगमनकारणं पृष्टः प्राहयाताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सबाप्पे मयि । लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥ १० ॥ भाविन्यावश्यके । निःसंदेह इति यावत् । मरणे उत्साहस्तया सूचितः । केन हसि7 अद्विलक्ष्यजन्मना । किं कृत्वा। मां दृष्ट्वा । केन । चक्षुषा । न तु चक्षुभ्याम् । १. 'मोहनमन्दिरं' इति शृङ्गारदीपिका. २. 'स्वैरं' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। एष निर्दयहृदयो मामेवंविधां विहाय जिगमिषतीत्यसूयाजन्यावधीरणव्यञ्जकमका नमिति वचनध्वनिः । किं विशिष्टेन लजामन्थरतारकेण । अत्र मां त्यक्त्वा देशान्तरम. सौ याति तदलमनुपादेयया मयेति लघुत्वसंभावनजन्या लज्जा । पुनः किं विशिन। निपतत्पीताश्रुणा निपतत्सत् पीतमपहृतमश्रु येन । प्राणैर्हि दुःखनिस्तारकामो न बा. ष्पमुत्सृजति । क्व सति । मयि सबाष्पे एवं कथयति सति। एवं किम् । हे सुन्दरि, याताः सन्तो भूयः किं न मिलन्ति । अपि तु मिलन्ति । तस्मात्त्वया मत्कृते चिन्ता न कार्या । यतो नितरां कृशासि । नह्येवंविधे कार्ये सचिन्तया वर्तितुं शक्यते । कार्य तत्कालमापृच्छमानप्राणेश्वरविरहसंभावनासंभवमेव । प्रिये सवाष्पे स्वयं निपतत्पीताश्रुणा चक्षुषेत्यबाष्पा यदनुवृत्तिं परिजहार तत्र 'त्यक्तश्चात्मा का च लोकानुवृत्तिः' इति न्यायेन प्राणनिरपेक्षतैव कारणम् । अथवा अमङ्गलसूचनमश्रु प्रस्थानकाले न प्रकाश्यत इति प्रीत्यतिशयः । यथा-'अद्यापि तन्मनसि संप्रतिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहृत्य कोपात्कणे कृतं कनकपत्रमनालपन्त्या ।' भविष्यत्प्रवासात्मको विप्रलम्भः । उत्तरालंकारः । यदुक्तम्-'उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम् । क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ॥' उपायाक्षेपश्च । यदुक्तम्-'दुष्करं जीवितोपायमुपन्यस्योपरुध्यते । पत्युः प्रस्थानमित्याहुरुपायाक्षेपमोदृशम् ॥ सखीभिर्मानं शिक्षितापि कृतप्रियसंगमा काचिन्नायिका ताः प्रति प्राहतहकाभिमुखं मुखं विनमितं दृष्टिः कृता पादयो स्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्ध मया । पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कञ्चुके संधयः ॥११॥ हे सख्यः, किं करवाणि । अपि तु न किमपि । क्वविषये, यत्कञ्चुके संधयः शतधा यान्ति। दलन्तीत्यर्थः। यतो मानाभिव्यक्तये किं किं न मया कृतमित्याह-तस्य प्रियस्य वक्राभिमुखं सत्स्वमुखं विनमितं नम्रीकृतम् । दृष्टिः स्वपादयोय॑स्ता । अत्र तद्वक्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयोरिति वाक्यद्वयेनापि दिदृक्षारसस्यैव निषेधो बोद्धव्यः । अभिमुखमुखतया तद्दर्शनाभिलाषिणी दृष्टिर्निवारितेत्यर्थः । न तु प्रथमवाक्ये विवक्षारसनिषेधः शङ्कनीयः । द्वितीयवाक्ये तद्दर्शनोत्सुका दृष्टिः कृता पादयोरिति तच्छब्दसहितपदस्यान्वेषणीयत्वात् तृतीयवाक्ये विवक्षारससूचकचिह्नतिरस्काराच्च । यद्वा मुखविनमनेनैव दृष्टेः पादगमने सिद्धे दृष्टिः कृता पादयोरिति यदुक्तं तेन प्रयानपाङ्गेनापि नावलोकित इत्यर्थः । पादयोरित्यत्र संबन्धपदाभावेन सखीषु वचनच्छल व्यज्यते । तत्पादयोदृष्टिः कृतेत्यत्रापि प्रतीतिसंभवात् । न केवलमेतदेव कृतम्, तद्वचः १. 'तत्सल्लाप' इति शृङ्गारदीपिका. २. 'मत्कञ्चुलीसंधयः' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । १५ नश्रवणकौतुकचपले श्रोत्रे च कर्णकण्डूयनव्यपदेशेनाकुश्चिते । अपरं च स्वविवक्षारससूचकः कपोलयोः सरोमाञ्चः स्वेदोद्गमो हस्ताभ्यामाच्छादितः । अत्रेदं प्रकर्षेण (?) प्रियविषये प्रीतिप्रकर्ष एव । मानाय नायिकया प्रयत्ने क्रियमाणेऽप्यवयवानां प्रियसंगमोत्सुकत्वात् । अत्राप्युत्तर एवालंकारः । यथा- 'भण मानमन्यथा मे मौनं भ्रुकुटिं विधातुमहमसहा । शक्नोमि तस्य पुरतः सखि न खलु पराङ्मुखी भवितुम् ॥' यत्नाक्षेपश्च । यदुक्तम्- 'यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि । विपरीतफलोत्पत्तेरानर्थक्योपदर्शनात् ॥' यथा - 'गच्छेति वक्तुमिच्छामि त्वत्प्रियं मत्प्रियैषिणी । निर्गच्छति मुखाद्वाणी मागा इति करोमि किम् ॥' प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा किमुत सकले याते वाह्नि प्रिय त्वमिष्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालेापैः सवाष्पगलज्जलैः ॥ १२ ॥ वासरशतप्राप्यं देशं प्रियस्य जिगमिषो: प्रस्थानं मुग्धा निषेधति । कैः । अश्रुगलजलैरालापैः । कथम् । इत्यमुना प्रकारेण । हे प्रिय, प्रथमप्रहरावसाने त्वमिहागमिष्यसि । अथवा मध्याह्ने । उत स्वित्तस्मादपि परेण । तृतीयप्रहरेणेत्यर्थः । अत्र 'विवक्षातः कारकाणि भवन्ति' इति करणे तृतीया । यथा - 'समेन धावति', 'विषमेण धावति' इत्यादौ । अपिशब्दस्यायमभिप्रायः- हे निष्करुण, मध्याह्नादप्यनन्तरं बहिः स्थातुं न युज्यत इति । अत्र सप्तम्यन्तानां पदानामन्तरेऽस्य पदस्य तृतीयान्तत्वेनोपक्रमभङ्गो न दोष एव । अर्थस्यान्यथा प्रतीतेः। पददोष एवास्य रसकवेः क्वाप्यस्तु । यदुक्तमुपाध्यायेन'पदविह्वलता वापि स्पृहणीया भवति रसकवीन्द्राणाम् । घनजघनस्तनमण्डलभारालसकामिनीनां च ॥' अनेनापि प्रश्नेन यदा नायकोऽनभ्युपगमनसूचकं मौनमेव जग्राह, तदा नायिका पुनराह - अनन्तरमाहोत्स्वित्सर्वस्मिन्नेव दिनेऽतिक्रान्ते । अत्र मौग्ध्येन नर्मस्पर्शिन्यां विरहासहिष्णुतायां तात्पर्यम् । अत एव रात्रौ व्यतीयायामुदिते स्विदागमिष्यतीति प्रयोगो न कृतः । विरहासहिष्णुतात्मकविप्रलम्भरसोत्कर्षहेतुर्जातिरलंकारः ॥ धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता । १. 'परेऽथवा' इति शृङ्गारदीपिका. २. 'वाक्यैः सबाष्पझलज्झलै:' इति शृङ्गारदीपिकासंमतः पाठः. 'सबाष्पाणि च तानि झलज्झलानि च तैः । सबाष्पगद्गदैरित्यर्थः ।’ इति तद्वयाख्यानम्. For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org काव्यमाला । अध्वन्येन विमुक्तकण्ठमखिलां रात्रि तथा क्रन्दितं ग्रामीणैः पुनरध्वगस्य वसतिर्ग्रामे निषिद्धा यथा ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir अर्धरात्रे निर्भरमम्भोधरस्य वर्षतः स्तनितमाकर्ण्य दीर्घोत्कटश्वासमुत्कटबाष्पाम्बुना विरहिणीं मुग्धां विरहातिवाहनोपायेष्वनभिज्ञतया शङ्कनीयां गद्गदलोलमनिशं तदेकतानेन स्मरता पथिकेन समस्तामपि रात्रिमसंकोचितकण्ठस्वरं तथा रुदितं यथा ग्रामनिवासिभिर्भूयः पान्थस्य वासो ग्रामे निवारित इति । यदि मार्गो वहति तदा प्रचलति । यदि च लोको जाग्रद्भवति तदा वाङ्मिश्रणेनापि कियतीमपि विरहव्यथामतिवाहयति । निशीथे उभयस्याप्यभावादप्रतिविधानस्तपस्वी पान्थः शब्दान्तराभावात्केवलं नीरदनिनादमेव दुःश्रवं श्रुत्वा मुक्तश्वासोऽनुद्यमद्योतकमश्रुपातं विधाय क्रन्दितुमेवारब्धवान्। मेघवृष्टिर्दृष्टिप्रतिबन्धको बाष्पयोगश्चेत्यपरं गमननिरोधे कारणद्वयम् । वारिधरस्य, न तु वारिमुचः । वारिमुच इत्यनेन हि पदेन क्रमात्सलिलक्षयोऽपि संभाव्यते । न तु वारिधरस्येत्यनेन । अत एव सान्द्रसलिलसंपदाध्माततया धीरं वारि किरत इति । बालां पूर्वाननुभूतविरहव्यथाम् । अखिलत्वं क्रन्दनविषयायाः पश्चिमाया एव रात्रेः । न तु सकलरात्र्यभिप्रायेण । अर्धरात्र एव मेघध्वनेः श्रुतत्वात् । ग्रामीणाः प्रायो नायिका: नुरागविदग्धवक्रोक्तिविरहवेदनानर्मभङ्गिष्वनभिज्ञा भवन्ति । परं तैरप्यध्वगस्य वसतिग्रमे निषिद्धा । ‘ग्रामाद्यखत्रौ' । 'आयनेयीनीयियः फखछघां प्रत्ययादीनाम्' इति खस्थाने ईनादेशः । प्रवासात्मको विप्रलम्भः । कविर्वक्ता । अत्र न तथालंकारः क श्चिदुद्भावनायामवतरति । अस्मिन्काव्ये तथाविधा अलंकाराः प्रायशो न दृश्यन्ते । प्राणात्मकेन रसेनैव चमत्कारः परां कोटिमधिरोहति । यदुक्तमुपाध्यायेन - 'स्वभावर• मणीयानां पदार्थानामलंक्रिया । प्रत्युताच्छादकत्वेन न प्रकर्षाय जायते ' ॥ कश्चित्तत्कालमागतो मानिनीं प्रत्याह कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनवत्यानतिमति । - न दृष्टेः शैथिल्यं मिलन इति चेतो दहति मे निगूढान्तःकोपा कठिनहृदये संवृतिरियम् ॥ १४ ॥ हे कठिनहृदये, इयं निगूढान्तः कोपा तवाकारगुप्तिर्मम चेतो दहति । कथं संवृतिः । इत्यमुना प्रकारेण । प्राय ईर्ष्यास्मितेनापि यन्माधुर्ये तत्किमपि नायिकाया रामणीयकं द्यो तयति । अभ्युद्गमविधिरित्यत्र विधिशब्दस्यायमभिप्रायः - षडर्ध्या भवन्ति । आचार्यो ऋ १. ‘प्रतिवचनमप्यालपसि च' इति शृङ्गारदीपिका. २. 'दृष्टिः शैथिल्यं भजत इति' इति शृङ्गारदीपिका. ३. 'कोपे' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । १७ I त्विग्विवाह्यो राजा प्रियः स्नातक इति । श्रौताचारवतामागमनोचितमेतत् । न पुनः प्रणयोचितम् । शिरस्याज्ञा न्यस्ता, न तु हृदये । सापि पाषाणभारवदतिदुर्वहा । अतिदुर्वहं वस्तु मस्तके धार्यते । अत एवानतिमतीति शिरोविशेषणम् । मिलने दृष्टेर्नशैथिल्यम् । मनसो मिलने तु शैथिल्यमेव । अथ च दृष्टेः शैथिल्यं न । अमुना प्रकारेण त्वया दूरादेव स्मितमधुरं यथा भवत्येवमभ्युत्थानं कृतम् । इदं क्रियतामित्यादिकार्य नियोग आज्ञा । सापि प्रियवचनवती मे आनम्रशिरसि प्रतीष्टा । अन्यच्च तव दृष्टेर्मम दृष्टया सह मिलने शैथिल्यं नास्तीत्येतावत्संवृतिस्वरूपम् दूरादेवाभ्युद्गमः कृतो न तु प्रत्यासत्तौ । शरीरसंपर्कसंभावनायामप्यसहनत्वात् । यः पूर्वे मम तथा वशीभूत आसीत्तस्यैव प्रियतमस्यान्याङ्गनासङ्गिनोऽप्यनुवृत्तिं करोमि प्राणांश्च धारयामीत्यात्मन्यसंभावना | अभ्युपगमोऽपि तस्या नास्ति, अपि तु साटोपत्वम् । तवैौदासीन्यमात्रेऽपि मम चेतो दह्यते तत्का नामान्याङ्गनासङ्गसंभावना । तस्मात्पिशुनविजृम्भितमेतत् । यच्च मम हृदये दह्यमानेऽपि तव हृदयस्य काठिन्यं तत्र निगूढान्तः कोपता हेतुः । अन्तर्निखातकर्कशपदार्थ हि कोमलमपि कठिनं भवति । मिलन इत्यत्र यद्यपि गुणप्रतिषेधो न प्राप्नोति तथापि रूढिरस्ति । अनुमानालंकारः । यथा - 'वचनमुपचारगर्भ -' इत्यादि प्राग्दर्शितम् । औदार्य प्रदर्श्य सदे (?) त्यनेनौदार्ये नाव्यालंकारः । यथा - 'अंइदुकिआऍ दिअहं सकलं काऊण गेहवावारम् । गरुए वि मण्णुदुः क्खे भरिमो पाअन्तसुत्तस्स ॥' काचित्प्रणयकलहान्तरिता सहचरीं प्रत्याह कथमपि सखि क्रीडाकोपाद्रजेति मयोदिते कठिनहृदयः शैय्यां त्यक्त्वा बलागत एव सः । इति सैरभसं ध्वस्तप्रेम्णि व्यपेतघृणे स्टहां पुनरपि हतव्रीडं चेतः करोति करोमि किम् ॥ १५॥ हे सखि, किं करोमि । अपि तु न किमपि । यतः पुनरपि मे निस्त्रपमन्तःकरणं तस्मिन्प्रियतमे स्पृहां करोति । किंविशिष्टे । यतो व्यपेतघृणे निःशङ्के । पुनरपि कीदृशे । सरभसमपर्यालोचितमपास्तप्रेम्णि । तस्मादिति कस्मात् । यतः स कर्कश हृदयो बलात्कारेण गत एव । क्व सति । कथमपि प्रणयरोषाद्गच्छेति मयोक्ते सति । कथमपिशब्दस्यायमभिप्रायः - क्रीडयापि कोपं न करोमि । क्रीडाकोपेऽपि मा कदाचिदसौ वैमनस्यं गच्छेत । शय्यां त्यक्त्वा गतः, न तु माम् । उपनतेऽप्यमङ्गले न कश्चिदात्मनः स्वयममङ्गलं शंसतीत्याशयः । बलाद्गतः सोऽपि किं स्वभावेन गन्तुं शक्नोति । अत एव सरभसं ध्वस्त प्रेम्णि । व्यपेतघृणे इयं मया विना न जीविष्यतीति जानत्यप्युपेक्षितवति । किं करोमि । इतिकर्तव्यतामो १. 'अतिदुःखिताया दिवसं सकलं कृत्वा गेहव्यापारम् । गुरुकेऽपि मन्युदुःखे स्मरामः पादान्तसुप्तस्य ॥' इति च्छाया. २. ' त्यक्त्वा शय्यां' इति शृङ्गारदीपिका. ३. 'सरभसध्वस्त-' इति शृङ्गारदीपिका. ३ For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ काव्यमाला। हेनोपायमपि न जानामीत्यर्थः । अत्रेदं विमृश्यते-ननु य एष क्रीडाकोपमात्रेण शय्यो. त्थायं गत एव स किं ग्राम्यः, उतान्यासक्तः । न तावदाद्यः । शृङ्गारोपनिबद्धस्याग्रा. म्यत्वात् । नापि द्वितीयः । सापराधस्य विटस्यापि वा नायिकायाः सुमहत्यपि कोपे प्रसादनैकपरत्वात् । न च सापराधे प्रेयसि क्रीडाकोपो भवति भामिनीनाम्, अपितु वास्तव एव । तस्मादयं क्रीडाकोपावमानितः सन्नुत्थाय कुड्यान्तरितो भूत्वा प्रियतमायास्तत्कालमदर्शनमात्रेण प्राणपरिहारं यावदध्यवसितायाः प्रेमसर्वस्वनिधानमुद्राभङ्गकारिभिरभिमानवाक्यैः श्रवणेन्द्रियं चरितार्थयति । प्रणयमानात्मको विप्रलम्भः। 'कलहा. न्तरितामर्षाद्विधूतेऽनुशयातियुक्' इति कलहान्तरिता नायिका ॥ दंपत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच स्तत्प्रातर्गुरुसंनिधौ निगदतः श्रुत्वैव तारं वधूः । कर्णालम्बितपद्मरागशकलं विन्यस्य चक्ष्वाः पुरो व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥ १६॥ त्रपापर्याकुला वधूः श्रवणालम्बितशोणमणिशकलं विन्यस्य चञ्च्चाः पुरः प्रणिधाय दाडिमफलरूपेण च्छद्मना वाग्बन्धनं प्रयत्नेन करोति । किं कृत्वा । श्रुत्वैव । किं तत् । वचः । कस्य । अर्थवशाद्विभक्तिविपरिणामेन शुकस्यैव । किं कुर्वतः । प्रभाते श्वशुरश्वश्रूप्रभृतीनां प्रत्यासत्तावुच्चैःस्वरं निगदतः । तत्किम् । यद्रात्रौ स्त्रीपुंसयोः किंचिदेकान्तोचितं वाच्यावाच्यं जल्पतोः संबन्धि तेनैव मन्दिरशुकेन श्रुतम् । दंपत्योर्मध्ये वधूरिति संबन्धः । तयोरेतावती लजा यनिशि दंपत्योर्जल्पतोः दिवा पुनरोदासीन्येन दंपती इति न ज्ञायते । न च परस्परं जल्पतोः । प्रात: श्रुत्वेत्यनेन सुरतालापैर्जागरितसकलरात्रिरपि प्रथमप्रबुद्धेयं नायिका । कुलाङ्गना हि चरमं शायिन्यः प्रथम प्रबोधिन्यश्च भवन्तीति। एवंविधैरालापैस्तु रजनिरज्ञातैव प्रयाति । यथोत्तरचरिते-'किमपि किमपि मन्दं मन्दमासक्तियोगादविचलितकपोलं जल्पतोरक्रमेण । अशिथिलपरिरम्भव्यापृतैकैकदोष्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥' श्रुत्ववेत्येवशब्दस्याव्ययानामनेकार्थत्वेनाविलम्बोऽर्थः । केचित् 'तस्यैव तारं वधूः' इति पठन्ति । तेन चान्वयः सुखावहो न भवति । यदुक्तम्-'वाक्यं यत्राभिमतं परस्परं सव्यपेक्षवृत्तीनाम् । समुदायः शब्दानामेकपराणामनाकाङ्कः ॥ अन्यूनाधिकवाचकसक्रमपुष्टार्थशब्दचारुपदम् । क्षोदक्षममक्षुण्णं सुमतिर्वाक्यं प्रयुञ्जीत ।' उक्तं हि-अभिहितान्वयवादिनां मते सामान्यरूपाणा पदार्थानामाकाढायोग्यतासंनिधिवशात्परस्परसंसर्गे पदार्थव्यतिरिक्तो वाक्यार्थः प्रकाशते' इति । अखण्डवाक्यवादिनां मते तु वाक्योपदेशः कर्तुं न युज्यते । व्यङ्गयव्यञ्जकभावाभावात् । यदुक्तम्-'सोऽयमिघोरिव दीर्घदीर्घो व्यापारः शब्दस्य' इति । शब्दश्रुतेरन १. 'तस्यातिमात्रं वधूः' इति शृङ्गारदीपिका. २. 'चञ्चपुटे' इति शृङ्गारदीपिका. ३. 'विदधाति' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । १९ गावानर्थो गम्यते तावता शब्दस्याभिधैव व्यापार इति चेत्, प्रष्टव्या ययम् 'ब्राझण, पत्रस्ते जातः कन्या ते गर्भिणी' इत्यादौ हर्षशोकादीनामपि [न] वाच्यत्वम् । मान लक्षणा । लक्षणीयेऽप्यर्थे दोघेदीघोभिधाव्यापारेणैव प्रतीतिसिद्धेः । जाया च पतिश्च दंपती । उत्तरपदाधिकारे जायाशब्दस्य जंभावो दंभावश्च निपात्यते । दर्गसिंहाचार्यस्तु जंदंशब्दौ जायासमानार्थाविति मन्यते। शुकादयस्तु शृङ्गारिणां भवनेषु भव. न्त्येव । यदुक्तम् –'वृक्षायुर्वेदयोगमेषकुक्कुटलावकयुद्धविधिशुकशारिकाप्रलापनम्' इयादि । दाडिमबीजमेव पद्मरागसदृशं भवति न तु फलमित्याशङ्का यदि भवति तदा 'दाडिममृषाबीजेन' इति युक्तः पाठः । वाग्बन्धनमित्यत्र कारणे कार्योपचारः । तेन मखबन्धनमित्यर्थः । अन्योऽपि यः परमर्मोद्धाटनं करोति तस्य बन्धनं विधीयत इत्युक्तिलेशः । कविर्वक्ता । लजया व्यभिचारिभावेन पुष्टः संभोगशृङ्गारः । पद्मरागशकले दाडिमबीजभ्रान्तिरिति भ्रान्तिमानलंकारः । यदुक्तम्-'वस्तुविशेषं पश्यन्नवगच्छेदन्यमेव तत्सदृशम् । निःसंदेहं यस्मिन्प्रतिपत्ता भ्रान्तिमान्स इति । यथा-'पालयति त्वयि वसुधां विविधाध्वरधूमशालिनोः ककुभः । पश्यन्तो दूयन्ते घनसमयाशतिनो हंसाः ॥' काचिन्मानिनी मन्यूपतापेन नायकं प्रति सोल्लुण्ठमभिधत्तेअज्ञानेन पराङ्मुखी परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् । पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मैलतैलपङ्कशबलैवेणीपदैरङ्कितम् ॥ १७ ॥ हे कितव, त्वया किमुपार्जितम् , अपि तु न किमपि । किं कुर्वता । मदालिङ्गनरूपेण दुनयेनात्मनः सौभाग्यमेतामयोग्यामवस्थां प्रापयता। किं कृत्वा । अन्याङ्गनासंगमलक्षणात्परिभवाहुःखितामनभिमुखीमाश्लिष्य। केन । अज्ञानेन । कोऽर्थः। यस्यां त्वमनुरक्तस्तद्रमेण । कोदशी सौभाग्यदरवस्थेत्याह–पश्यैतदित्यादि । वर्तते। कि तत् । तव वक्षः। कीदृशम् । मलतैलपङ्कशबलैर्वेणीपदैरङ्कितं लाञ्छितम् । किविशिष्टं पूर्वमासीत् । दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणम् । वल्लभास्तनयोर्व्यतिकरण संबन्धेन प्रोञ्छितो योऽङ्गरागस्तनारुणम् । अत्र दयिताया आज्ञाभङ्गो दुर्नयशब्दार्थः । तेन च तया त्वं निग्राह्योऽसीति व्यङ्ग्यम् । पश्येतिक्रियाया वाक्यार्थ एव कर्म, न तु वक्षः । नहि वक्षस्ते पश्येयुक्तिर्भवति । अपि तु वक्षस्त्वमिति । इयं च नायिका ऋतुस्नानोन्मुखी । अन्यथा तैलपङ्कादिप्रयोगः शृङ्गारोपनिबन्धे तत्रभवतां छान्दसानामेव सुकरः । तस्मिन्नेवावसरे नायकन नूनमन्याङ्गनासङ्गः कृतः । ईर्ष्यामानात्मको विप्रलम्भः । आलिङ्गनेन स्पर्शनात्मकः संभोगोऽपि किं न स्यादिति चेत्, न । परस्परानुकल्याभावात् । न चैवं प्रतीतिराप नास्तीति वाच्यम् । पराङ्मुखत्वेऽपि नान्योऽयमिति प्रतीतेः । यथोत्तरचरिते १. 'व्यतिकरासक्ताङ्ग' इति शृङ्गारदीपिका. २. 'मम तैलपङ्कमलिनैः' इति शृङ्गार दीपिका. For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० काव्यमाला। सीतायां वनं प्रेषितायां शम्बूकं हत्वा प्रतिनिवर्तमानो यानि दयितया सह पूर्व निषेवि. तानि गोदावरीपरिसरस्थानानि तानि दृष्ट्वा मूर्छितो भागीरथीप्रभावाददृश्यसीताकरारवि. न्दस्पर्शमासाद्य साह्रादोच्छासो रामः-'हन्त भो किमेतत् । आथ्योतनं नु हरिचन्दनः पल्लवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः । आतप्तजीविततरोः परितर्पणो मे संजीवनौषधिरसो नु हृदि प्रसिक्तः ॥ स्पर्शः पुरा परिचितो नियतं स एष संजीवनश्च मनसः परिमोहनश्च । संतापजं सपदि यः प्रतिहत्य मोहमानन्दनेन जडतां पुनरातनोति ॥' उक्तं च-'अभ्यासादभिमानाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तत्त्वज्ञा विदुः प्रीति चतुर्विधाम् ॥ प्रोतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु । अनभ्यस्तेष्वपि पुरा कर्मस्वविषयात्मिका ॥ संकल्पाजायते प्रीतिर्या सा स्यादाभिमानिकी। नान्योऽयमिति यत्र स्यात्प्रतीतिः प्रीतिकारणम् ॥ तत्त्वज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका । प्रत्यक्षा लोकतः सिद्धा स्यात्प्रीतिर्विषयात्मिका । प्रधानफलभूता सा तदर्थाश्चेतरा अपि ।' एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमादूरत स्ताम्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविनितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके ___कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ १८ ॥ गृहागतं प्रियं प्रति विदग्धयानुवृत्तिरूपादुपचारादेव कोपश्चरितार्थतां नीतः । यतो दूरादेवाभ्युत्थानादेकस्मिन्पीठे उपवेशनं त्यक्तम् । ताम्बूलस्य वोटिकाया आहरणं तद्व्या. जेन रभसालिङ्गनमपि सम्यग्विनितम् । सखीप्रभृतिपरिजनं सविधे नियुञ्जानया वाङ्मिश्रणमपि न कृतम् । मीलितमलंकारः। यदुक्तम्-'तन्मीलितमिति यस्मिन्समानचि. हेन कोपहर्षादि । अपरेण तिरस्क्रियते नित्येनागन्तुना वापि ॥' यथा-'मदिरामदभरपाटलकपोलतललोचनेषु वदनेषु । कोपो मनस्विनीनां न लक्ष्यते कामिभिः प्रभवन् ।' सावहित्थादरा नायिका प्रगल्भा ॥ दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । ईषेद्वक्रितकंधरः संपुलकः प्रेमोल्लसन्मानसा मन्तहाँसलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १९ ॥ एकासनोपविष्टे द्वे प्रियतमे दृष्ट्वा पृष्ठदेशं सप्रयलमागत्यैकस्या लोचने क्रीडानुबन्धव्याजेन मुद्रयित्वा दक्षिणो नायक इतरां चुम्बति । कथंभूतः सन् । यथा द्वितीयो न १. 'संगतिः' इति शृङ्गारदीपिका. २. 'ताम्बूलानयनच्छलेन' इति शृङ्गारदीपिका. ३. 'संगते' इति शृङ्गारदीपिका. ४. 'पिधाय' इति शृङ्गारदीपिका. ५. 'तिर्यग्वक्रित' इति शृङ्गारदीपिका. ६. 'सपुलकप्रेमो' इति शृङ्गारदीपिका, For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । जानातीति मनाङ्गमितग्रीवः । पुनः कीदृशः । सरोमाञ्चः । तां किंविशिष्टाम् । प्रीत्युल्लसच्चेसम। पनः कीदृशीम् । मत्कारणेनेयं वश्चितेत्यन्तनिभृतहासलसद्गण्डमण्डलाम् । यस्या ने मद्रिते सा ज्येष्ठा । तस्यामपि नायकस्य प्रीतिरस्त्येव । यतः–'दक्षिणोऽस्यां सहदयः' इति वचनात्पूर्वस्यामपि नायिकायां हृदयेन सह व्यवहरति । तस्माद्विहितक्रीडानुबन्धच्छल इति योऽयं छलशब्दः स चुम्बितनायिकापेक्षयैव नायके न पुनर्वास्तवेनैव क्रीडानुबन्धेन प्रथमा प्रथममेव संभाविता, द्वितीयस्यां च नेत्रमुद्रणाचुम्बनात्मकस्य संभावनाप्रकारस्य वैशिष्टयात्सपुलकत्वाच्च विशिष्टा प्रीतिः । नूतननायिकायां च विशिष्टप्रीतिप्रतिपादनादेव पूर्वस्यां दाक्षिण्यमात्रादुपचार एवेत्येतेन । द्वयोरपि नायिकयोः प्रियतमे इत्युक्तत्वात् । विशेषोऽलंकारः । यदुक्तम्-'यत्रान्यत्कुर्वाणो युगपत्कर्मान्तरं च कुर्वीत । कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः ॥' चरणपतनप्रत्याख्यानप्रसादपराङ्मुखे निभृतकितवाचारेत्युक्ते रुषा परुषीकृते । व्रजति रमणे निःश्वस्योच्चैः स्तनार्पितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निपातिता ॥ २० ॥ कयाचित्कलहान्तरितया, सखीषु दृष्टियस्ता । कीदृशी। नयनसलिलच्छन्ना । किं विशिष्टया। उच्चैनिःश्वस्य स्तनविनिहितहस्तया। क्व सति । दयिते गच्छति सति । कुतो हेतोर्गच्छतीत्याह-चरणपतनस्य यन्निराकरणं तेनालब्धप्रसादे । पुनः कीदृशे । निगूढशठचरितेत्यभिहिते । पुनरपि किंविशिष्टे । क्रुघा कर्कशतां यावन्नीते। 'अपमानितश्च नार्या विरज्यते यः स उत्कृष्टः' इति वचनादन्यत्र गच्छतो नायकस्य द. क्षिणत्वम् । स्तनार्पितहस्तयेति हृदयसंतापसूचकश्चेष्टाविशेषः । नयनसलिलच्छन्नेति सखीष्वेव प्रतिविधानसूचिका दीना दृष्टिः । यदुक्तम्-'अर्धस्रस्तोत्तरपुटा छन्नतारा जलाविला । मन्दसंचारिणी दृष्टिीनेति परिकीर्त्यते ॥' काच्या गाढतरोवनद्धवसनप्रान्ता किमर्थ पुन मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति । मातः स्वप्नुमपीह वारयति मामित्याहितक्रोधया - पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ॥ २१ ॥ तया नायिकया शयने शय्यायामवकाशो दत्तः । अर्थात्प्रियस्य । किं कृत्वा । परिवृत्त्य । केन । स्वपनच्छलेन । आहितक्रोधयेव आहितः क्रोधो यया। कथमिति । हे मातः, १. 'प्रत्याख्यानात्' इति शृङ्गारदीपिका. २. 'उक्त्वा' इति शृङ्गारदीपिका. ३. 'स्तनाहित' इति शृङ्गारदीपिका. ४. 'क्लिन्ना' इति शृङ्गारदीपिका. ५. 'अवबद्ध' शत शृङ्गारदीपिका, ६. 'सुप्तिमपीह लुम्पति ममेत्यारोपित' इति शृङ्गारदोपिका. For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ काव्यमाला । निद्रातुमप्यत्र स्थाने निषेधति । क्व सति । प्रिये पर्यनुयुञ्जने सति । कम् । प्रियायाः परि. जनम् । कथम् । स्वैरम् । ‘मन्दस्वच्छन्दयोः स्वैरम्' इति वचनान्मन्थरमित्यर्थः । द्विकर्मकत्वेन पुनरिति पृच्छति सति । इतीति किम् । किं पुनर्विह्वलाक्षी कटिसूत्रेण निबिड - नियमितसिचयान्ता निद्रायते । अत्र गाढतरनितम्बवस्त्राञ्चलवहनाभ्यसूयागर्भो रम्भास्तम्भाभिरामोरुकाण्डस्पर्शलौल्यपर्यवसायी भणितेरुल्लेखः । इयं च साङ्गभङ्गैरलसचेष्टाविशेषैर्लम्बितपक्ष्मलोचनाञ्चला मदनमदविक्लवतामनुभवन्त्यासीत् । न पुनर्वास्तवीं निद्राम् । यदि वा मृषा सुप्तिरियम् । यदुक्तम्- - ' सापि भावजिज्ञासार्थिनी नायकस्यागमनकाले मृषा सुप्ता स्यात् । अत एव मन्दमपि प्रियस्य प्रश्नवचनमश्रौषीत् । मातः स्वप्तुमपीति मातःशब्दः स्त्रीणामुक्तिमात्रे । सूक्ष्मोऽलंकारः । यदुक्तम्- 'इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ।' यथा - 'कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥' काच्या गाढतरेत्यादि संभोगनर्म । यथा - 'सालोए व्विअ सूरे घरिणो घरसामिअस्स घेत्तूण । णेच्छन्तस्स वि पाऐ धुवइ हसन्ती हसन्तस्स ।।' एते च नर्मभेदाः । वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् । हासेनैव सशृङ्गारभयेन विहितं त्रिधा ॥ आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि त्रिधा । शुद्धमङ्गं भयं द्वेधा त्रेधा वाग्वेषचेष्टितैः ॥ सर्वे सहासमित्येवं नर्माष्टादशधोदितम् ।' मातः स्वप्नुमपीत्यादिना आत्मोपक्षेपनर्म । यथा - 'मध्याहं गमय त्यज श्रमजलं स्थित्वा पयः पीयतां मा शून्येति विमुञ्च पान्थविवशः शीतः प्रपामण्डपः । तामेव स्मर घस्मरस्मरशरत्रस्तां निजप्रेयसीं त्वच्चित्तं तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥ एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपैराङ्मुखं ग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा न्मा भून्म्लान इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ २२॥ कयाचिन्मुग्धया प्रियतमस्तत्कालमेव पराङ्मुखं यथा भवत्येवमवज्ञातः । किं कुर्वन्नपि । चाटूनि कुर्वन्नपि लालनवाक्यानि ब्रुवाणोऽपि । तथाभूतोऽपि कस्मादवधीरितः । आवेगात् । तस्य लक्षणम् — 'आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो त्रासा त्यांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः । उत्पातात्स्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वह्नेर्धूमाकुलाक्षः करिजमनुभयस्तम्भकम्पापसाराः ॥' अत्र सपत्नीनामत्रहणमेवाहितम् तत्कृत आवेगः । किंविशिष्टया । ग्लपितया । क्व सति । एकस्यां शय्यायां सपत्नीनामोच्चारणे सति एकस्मिन्शयने प्रस्तुतायां रतिप्रवृत्तौ विपक्षस्त्रीनामग्रह इत्येव १. ‘सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा । अनिच्छतोऽपि पादौ धावति हसती हसतः ॥' इति च्छाया. २. 'पराङ्मुखग्लपितया' इति शृङ्गारदीपिका. ३. ‘तत्क्षणं' इति शृङ्गारदीपिका. ४. 'सुप्त' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । २३ न, अपि तु विपक्षरमणीनामग्रहे भूताविष्टस्य ग्रह इव ग्रहे । अत एव नायिकाया आवेगः । मुग्धाश्च स्तोकेऽप्युपाये कोपं परिहरन्तीति । न केवलमवधीरितः, अवधीरणहेतोस्तूष्णीं स्थितः सन्मा भून्म्लान इवेति द्रुतमेव वेगविवर्तितकंधरं यथा भवत्येवं पुनरवलोकितः । अत्रौत्सुक्यभावस्योदयः । यदुक्तम् — 'भावस्य शान्तिरुदयः संधिः शबलता तथा ।' उपायश्चात्र चाटूनि कुर्वन्नपीत्यनेन साम । यदुक्तम्- 'नरः कलासु कुशलो वाचालश्चाटुकारकः । असंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ॥' यथास्मत्पर्वजस्य वाक्पतिराजापरनाम्रो मुजदेवस्य - 'दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकारकण्टकायैर्यत्खिद्यते तव पदं ननु सा व्यथा मे ।।' तूष्णीमित्यनेनोपेक्षामात्रं च । म्लान इवेत्यत्रेवकारेण म्लानसदृशोऽपि मा भूदिति प्रीत्यतिशयः । ईर्ष्यामानात्मकविप्रलम्भपूर्वको दर्शनात्मा संभोगशृङ्गारः । 'गूढविप्रियकृच्छठः' इत्यनेन शठो नायकः । यथा - ' शठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्वाचक्षे घृतमधुमयत्वद्बहुवचोविषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥' मृदुकोपा मुग्धा नायिका ॥ एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतो रेन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दंपत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो र्भग्नो मानकलिः सेहासरभसं व्यावृत्तकण्ठग्रहः ॥ २३ ॥ दंपत्योः प्रणयमानक लहो भग्नः । किंविशिष्टः । सहासरभसं यथा भवत्येवं व्याघुटितः कण्ठाश्लेषो यत्र स तथा । अभग्ने मानकलहे कण्ठग्रहः किल निवृत्त आसीदिति हेतोव्यवृत्त इति भङ्गविशिष्टस्यैव मानकलेरिदं विशेषणम् । केवले मानकलहे कण्ठग्रहस्यानुपपन्नत्वात् । केन क्रमेण भग्न इत्याह – एकस्मिन्नित्यादि । एकस्मिञ्शयने त्वया किमित्येवं कृतमित्यादिकलहप्रश्नानामपगतान्युत्तराणि यत्र तद्वीतोत्तरं यथा भवत्येवं ताम्यतोः । उत्तरव्यय एव कथं जात इत्याह- पराङ्मुखतया । पुनः कथंभूतयोः । परस्परं चित्तस्थितेऽपि प्रसादनप्रकारे गौरवं संरक्षतोः । स्वं स्वं लाघवमाशङ्कमानयोरित्यर्थः । अथ च मानभङ्गहेतुगर्भविशेषणमाह - पुनः कीदृशयोः । स्तोकस्तोकं लोचनाचलविवर्तनेन संघटमानदृष्टयोरिति । प्रणयमानात्मकविप्रलम्भपूर्वकः स्पर्शनात्मा संभोगः । ‘एकत्रासनसंस्थितिः-' इत्यारभ्यामुं श्लोकं यावत्षट्श्लोकेषु कविर्वक्ता ॥ १. ‘अन्योन्यस्य हृदि स्थिते' इति शृङ्गारदीपिका. २. 'सहासरभसव्यावृत्तकण्ठग्रहम्' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ काव्यमाला। कस्मात्त्वमद्य विमना इव लक्ष्यसे इत्यादि केनचित्पृष्टः कश्चिन्नायकः कान्ताप्रणयमा. नचेष्टामाचष्टे पश्यामो मयि किं प्रपद्यत इति स्थैर्य मयालम्बितं किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः। इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याज हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥२४॥ पश्यामस्तावदियं मयि स्वयं कीदृशीमालपनादिप्रतिपत्तिमुपक्रमत इत्यपेक्षया मया निर्व्यापारेण स्थितम् । एष निश्चयेन कितवः कस्मान्मां न भाषत इति मनसि विभाव्य तया कोप: स्वीकृतः । इत्यमुना प्रकारेणान्योन्यस्य या विलक्षा दृष्टिस्तत्र चतुरं यत्कोपप्रसादरूपाया अवस्थाया मध्यं तस्मिन्मया संप्रतिपत्तिप्रवृत्तेन किमपि मिथ्यैवोद्भाव्य हसितम् । तया पुनकृतिहरो बाष्पस्त्यक्तः । धृतिं हृतवान् । 'पचादिभ्यश्च' इत्यच् । अधृति सूचितवानित्यर्थः । नहि बाष्पः प्रथममुत्पद्य धृतिं जहार । अपि त्वधृतिसमनन्तरमुत्पन्नो नायकस्य धृति हृतवानिति चेत्, मैवम् । मानिनीमानस्य प्रत्युताश्रुमोक्षान्तत्वात्। 'पश्यामः' इत्यत्र ‘पश्येयम्' इति पाठो युक्तः । मयीत्येकवचनव्यपदेशात् । 'किं मां नालपतीति' इत्यत्रेतिशब्दोऽस्थाननिवेशितः । शठशब्दानन्तरं प्रयोजनीयत्वात् । 'अन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे' इत्यत्रावस्थान्तरं चतुरताधिकरणं भवितुमशक्तं सत्स्वसंबद्धं मिथुनं लक्षयति । तां विलक्षां दृष्टिं तदेवावस्थान्तरं जानाति न पुनरन्यः कोऽपीति दृष्टेरनिर्वचनीयत्वं चात्र प्रयोजनम् । प्रणयबहुमानलालिता मुग्धा नायिका ॥ कस्यापि विस्रम्भसंभावितस्याग्रे नायको वक्तिपरिम्लाने माने मुखशशिनि तस्याः करधृते मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे । तैया पक्ष्मप्रान्तध्वजपुटनिरुद्धेन सहसा प्रसादो बाष्पेण स्तनतटविशीर्णेन कथितः ॥ २५॥ तया प्रसादः कथितः । अनुमानेन प्रतिपादित इत्यर्थः । केन । बाष्पेण । किंविशिप्टेन । पक्ष्मप्रान्तध्वजपुटनिरुद्धेन । पक्ष्मप्रान्तावेव ध्वजौ तयोः पुटं तत्र निरुद्धेन । अव्ययानामनेकार्थत्वानिमेषमात्रं रुद्धेन । न तु निःशेषतो रुद्धेन । अत एव रोद्धमशक्यत्वा त्सहसा स्तनतटविशीर्णेन । अयमभिप्रायः-हृदये द्रुताया नायिकायास्तावदश्रूद्गमा जातः । पश्चात्तया संवरणार्थ रोद्धमारब्धः। अथ दर्वहतयासौ बलात्कारेण स्तनयारुपार पपात । पक्ष्मप्रान्तयोर्ध्वजपुटरूपेण दैर्ध्य साधारणो धर्मः । पुटशब्दोऽश्रुनिरोधप्रयत्न १. 'मुक्तश्च बाष्पस्तया' इति शृङ्गारदीपिका. २. 'तदा पक्ष्मप्रान्तबजपुट' दात शृङ्गारदीपिका. For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । प्रतिपादकः । तटशब्दः स्तनयोः परिणाहं द्योतयति, विशीर्णशब्दस्तु काठिन्यम् । अन्यथा कथं बाष्पः कणशो विशीर्णतां व्रजेत् । अनुनयेन मानो गत उत स्वयमित्याहतस्याः परिम्लाने माने अपराधातिशयात्पूर्वमनुनीयमानापि प्रसादं कथमपि न चकार पायथा कश्चित्तीनं रुदन्निवारितोऽपि न निवर्तते किं तु परिश्रान्तः स्वयमेव, तथा तस्या मानः स्वयं शिथिलो बभूव । अत एव विषादद्योतकं मुखशशिनि करधृत इति । अर्थवशाद्विभक्तिविपरिणामेन तया करधृत इत्यर्थः । परिम्लानता कुसुमादिषु प्रसिद्धा अमर्ते माने स्खलद्गतिः स्वसंबद्धं शैथिल्यं लक्षयति । व्यङ्गथं चात्र चमत्कारेण केवलमनुमेयं गूढमेव । यथा-'मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोद्धरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ।।' न केवलमेवं सति, अन्यच्च मयि क्षीणोपाये । ननु षण्णामुपायानां मध्ये प्रणतिरस्त्येव । तत्कथं 'क्षीणोपाये' इत्युक्त्वा 'प्रणिपतनमात्रैकशरणे' इत्युक्तम् । युक्तमेवैतत् । परमिदं प्रणिपतनमुपायतया नारब्धम्, किं त्वनन्यगतिकत्वेन । अत एव मात्रच्प्रत्ययः, शरणशब्दप्रयोगश्च । मुखशशिनीति काव्यालंकारो रूपकम् । नाट्यालंकारः कोपकालुष्येऽपि माधुर्यम् । यदुक्तम् –'यौवने सत्त्वजाः स्त्रीणामलंकारास्तु विंशतिः ।' भावहावहेलास्त्रयोऽङ्गजाः। शोभा कान्तिर्दीप्तिर्माधुर्य प्रागल्भ्यमौदार्य धैर्यमित्ययत्नजाः सप्त। 'लीला विलासो विच्छित्तिविभ्रमः किलकिञ्चितम्। मोटायितं कुटमितं विव्वोको ललितं विहृतम् ॥' इति स्वाभाविका दश । अनुल्बणत्वं माधुर्यम् । यथा'सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं _किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क्व तदित्युदीर्य सहसा तत्संप्रमाष्टुं मया साश्लिष्टा रभसेन तत्सुखवशात्तस्याश्च तद्विस्मृतम् ॥ २६ ॥ सा मया परिरब्धा । किं कृत्वा । व तदित्युदीर्य । व तत्सान्द्रविलेपनम्, अपि तु न कापात्यर्थः । किं कर्तुम् । वेगेन संप्रमाटुं तदेव विलेपनं स्वहृदयलग्नं प्रोञ्छितुम् । विलेपनप्राञ्छनमेव केवलमधिकृत्यालिङ्गिता, न तु प्रीत्येत्याह-रभसेन हर्षविशेषेण । क्व त । तया इत्युक्ते सति । इति किम् । किमिति चरणप्रणामसंबन्धच्छद्मना हृदयमपद किविशिष्टं वक्षः । तस्या यद्धनश्रीखण्डादिविलेपनं स्तनयुगं तस्य प्रकृष्टमालिङ्गन विलपनमयी मुद्रा तया लाञ्छितम् । अन्यदपि यन्मद्रालाञ्छितं निधानादिकं त तत्प्रयत्नेन गोपाय्यते। व्यतिकरव्याजेनेति व्याजशब्दस्यायमीयाद्योतकोऽभि१. 'स्तनतट' इति शृङ्गारदीपिका. २. 'गोपायते' इति शृङ्गारदीपिका. ३. 'तच्या च' इति शृङ्गारदीपिका. ४ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir २६ I प्रायः । तत्प्रियतमास्तनविलेपनलाञ्छितस्य वक्षसो रक्षणं तव महत्प्रयोजनम्, चरणानतिव्यतिकरस्तु मिथ्यारम्भ इति । यद्यपि तस्या इति पदस्य स्तनयुगपदेन सह संबन्धस्तथापि वक्षःपदेन सह संबन्धविधायको भिन्नविभक्तिर्निदेश उचितः । तस्यात आधीनं तव हृदयमिति प्रतीतेः । आश्लिष्टापि मानं तत्याज न वेत्याह- तस्याश्च परिरम्भसुखवशात्तद्विलेपनं विस्मृतम् । चशब्दस्तुल्यकालताप्रतिपादनार्थः । यदैवालिङ्गिता तदैव कोपकारणं विस्मृतवतीति प्रीतिप्रकर्ष: । अत्र कोपस्य शान्तिरित्यत्र भावशान्तिः । ईर्ष्यामानात्मकविप्रलम्भारम्भपर्यवसितः संभोगः । नायको वक्ता पूर्ववत् । पिहितमलंकारः । यदुक्तम् —'यत्रातिप्रबलतया गुणः समानाधिकरणमसमानम् । अर्थान्तरं विदध्यादाविर्भूतमपि तत्पिहितम् ॥' 'व्यक्तागा वितथो धृष्टः' इत्यनेन धृष्टो नायकः । माननर्म चैतत् । यथा—'तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसति मा गाः कामिनां मण्डन श्रीव्रजति हि सफलत्वं वल्लभालोकनेन ॥ त्वं मुग्धाक्षि विनैव कचुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिका संस्टशि । शय्योपान्तनिविष्टसस्मित सखीने त्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥ २७॥ अलीकवचनानामुपन्यासो यत्र तद्यथा भवत्येवं वयस्याजनः शनकैर्निर्गतः । किंविशिष्टः । शय्योपान्तेत्यादि । कान्तशय्योपान्ते [निविष्टा ] या सखी नायिका तस्या नेत्रोत्सवेन प्रमुदितः । क्व सति । कञ्चुलिकाया वीटिकासंस्पृशि प्रियतमे इत्यभिधायिनि सति । इतीति किम् । हे विह्वलाक्षि, त्व कबुलिकामन्तरेणैव रमणीयां शोभां दधासि । अत्र मदनालसलोचनां दृष्ट्वा ग्राम्येतरभङ्गीभणितिप्रक्रमेण रिरंसुः कामी मुग्धाक्षीति संबुबुधे । सत्यां कबुलिकायामङ्गसौन्दर्यस्य प्रत्युत पिधानं भवतीति विनैवेत्येवकारस्य तात्पर्यम् । कचुलिका चेयं दाक्षिणात्यचोलिकारूपैव । तस्या एव ग्रथनपदार्थे वीटिकाव्यपदेशः । अन्यत्र कंपातनिकेत्येवमादयः । भवतीष्वप्युपविष्टास्वयमेवंविधं चेष्टत इति सलजकृत स्मिताया नायिकायाः सखीजनं प्रत्यवलोकनमात्रमेव नेत्रोत्सवः । ननु स्पर्शसुखेन नयननिमीलनं नायिकानां प्रसिद्धम् । यदाह कालिदासः - 'मधु द्विरेफः कुसुमैकपात्रे पपी प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥' इत्यादिषु तिर्यक्संभोगेऽपि तदेव श्लाघ्यम् । तत्कथमत्र विकस्वरदृष्टिता व्याख्यायते । अत्रोच्यते—नहि सर्वासामेव नायिकानां स्पर्शसुखेन लोचननिमीलनं स्पृह - णीयम् । प्रौढनायिकानामेवोपवर्ण्यमानत्वात् । ता हि सुरतारम्भ एवाचेतना भवन्ति । इयं च मध्या नायिका । मुग्धाक्षीति मदनालसलोचनेति कान्तं प्रत्यनभियोगित्वात् । 1 १. 'वेणिका' इति शृङ्गारदीपिका. २. 'वधू' इति शृङ्गारदीपिका. ३. 'कस' 'तनी' इति तद्वाचकी हिन्दीभाषाशब्दी. For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । २७ तम-एवमपरेऽपि व्रीडानुपहताः स्वयमनभियोगकारिणो मध्याव्यवहारा भवन्ति । यथा 'स्वेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमोद्गमे विस्रम्भेऽपि गुरौ पयोधरभरोकम्पेऽपि वृद्धि गते । दुरिस्मरनिर्भरेऽपि दृदये नैवाभियुक्तः प्रियस्तन्वङ्गया हठकेशकर्षणघनाश्लेषामृते लुब्धया ॥' सद्भावरहःसहचरीणां परस्परसौभाग्यसाक्षात्कारेणाद्वादो भवतीत्यालीजन आनन्दितः । कविर्वक्ता । विनैव कञ्चलिकया धत्से मनोहारिणी लक्ष्मीमित्यनेन विभावनालंकारः । यदुक्तम् -'सेयं विभावनाख्या यस्यामुपलभ्यमानमभिधेयम् । अभिधीयते यतः स्यात्तत्कारणमन्तरेणापि ॥' अत्रार्थशक्त्याक्षिप्तो रिरंसालक्षणोऽर्थः कविना सखीजनसव्याजगमनात्मिकया स्वोक्त्या भूयोऽपि व्यञ्जितः। यदुक्तम्-'शब्दार्थशक्त्याक्षिप्तोऽपि व्यङ्गयोऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालंकृति+नेः ॥' यथा-'अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥' मनोहारिणी लक्ष्मीमित्यनेन शोभा नाम नाघ्यालंकार:-रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम्।' यथा-'तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाद्वियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥' मुग्धाक्षीत्यनेन कान्तिश्च–'मन्मथाप्यायिता छाया सैव कान्तिरिति स्मृता' ॥ यथा मानं त्याजिता सती तत्कालमवलम्ब्यमानेातिरेकेण संयुज्यमाना रहसि रमणे रतिरमणरहस्यसर्वस्वमुन्मुद्रयति न तथा नित्यमेवेत्यनुसंधाय सखीभिः प्रणयमानं शिक्षिता सती ताः प्रति काचिदाहभ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्दीक्षते रुहायामपि वाचि सस्मितमिदं दग्धाननं जायते । कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते ____दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ २८ ॥ लोचनगोचरे सति तस्मिञ्जने मानस्य निर्वाहः कथं भविष्यति, अपि तु न कथमपि । तास्मनित्यनिर्वचनीयचमत्कारे जने इत्यर्थान्तरसंक्रमितत्वेन प्राणेश्वर इत्यर्थः । नहि कृत्रिमरुपायरयुतसिद्धं वस्तु निहोतुं शक्यते । तदत्र क उपायाः किं च वस्त्वित्याहभङ्ग इत्यादिना । एवमेव तावत्प्रियतमं दृष्टि: सोत्कण्ठमुदीक्षते । भ्रुकुटिकौटिल्ये नाटिते पुनरधिकं सोत्कण्ठमदीक्षते । यथा कश्चित्पक्षी बलात्कारेण रुध्यमानः कथंकथमप्युड्डीय यत्रत्यो भवति तत्रैव गत्वा रमते । अभिनीतेऽपि वाचंयमत्वे ममेदं दग्धमुख सस्मितं भवति । धिक्कारे दग्धहतकादयः शब्दाः प्रयुज्यन्ते। अथ च तेन सार्धमामापनमन्तरेणाप्रयोजनमाननं दग्धमेव । काठिन्यं गत इत्येव न, अपि तु काठिन्यं मत । तथाभूतेऽपि मनसि तनः पुलकं विभर्ति । अथ च प्रिये काठिन्यं गमिते For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ काव्यमाला। चेतसि तनु: तनुःस्वे (?) कृशेत्यर्थः । तस्मिन्दृष्टे मानस्य कथं निर्वाहो भविष्यति । कोऽर्थः-मया भ्रभङ्गादीनि दुष्कराणि कृतानि, परंतु न मानो नियंढः । तस्मात परं मानार्थे यत्नमपि न करिष्यामीति प्रीतिप्रकर्षों भविष्यत्या व्यज्यते । उत्तरयत्ना पालंकारौ ॥ सा पत्युः प्रथमेऽपराधसमये सख्योपदेशं विना नो जानाति सविभ्रमानवलनावक्रोक्तिसंसूचनम् । खच्छरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः ॥ २९॥ सा बाला भर्तुळलीकप्रस्तावे केवलं रोदित्येव। कीदृशी। लम्बितपक्ष्मलोचनेन्दोवरा। कैर्विशिष्टा। अश्रुभिः । कथंभूतैः । निर्मलकपोलयोर्यन्मूलं नेत्रयोरधोभागस्तत्र क्षरितैः । पुनः किंविशिष्टैः । लुठल्लोलोदकैः निमेषार्धबद्धबिन्दुजालतया लुठत्पतनशीलत्वेन लोलमुदकं येषां तैः । पुनः कीदृशैः । नैरन्तर्येण प्रथममेवोन्मृष्टकजलत्वात्स्वच्छैः । अथवा ईर्ष्यामानेऽप्यनुपन्यस्तवक्रोक्त्यादेर्नायिकायाः स्वच्छतानुमापकैः । उपचारेणाश्रुभिरपि स्वच्छैः । ननु किमिति रोदित्येवमुलुण्ठनादिकमेव किमिति नारभत इत्याहनो जानाति । किं तत् । सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् सहेलं भ्रूक्षेपादिभिरङ्गवलनादिभिरनृजभणितिभिश्चापराधस्य सम्यगनमानम् । तदेव किमिति न वेत्तीत्याहसख्योपदेशं विना सख्येनोपदेशः अर्थात्सख्यास्तं विना । अत्र तावत्कविः प्रायस्तटस्थो वक्ता । सेति पदं च दूतीदूतप्रभृतिकस्य रतिवासनालिङ्गितान्तःकरणस्य वा वक्तुयुज्यते, न तु तटस्थस्य । तस्मात् ‘कान्तस्य प्रथमेऽपराधसमये' इति पाठो युक्तः । अथानुरक्त एव वक्तास्तु । मैवम् । पत्युरित्यनुपपन्नत्वात् ॥ काचिदन्यनायिकानुरक्तं नायकं प्रति ब्रूतेभवतु विदितं व्यर्थालापरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तथारूढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नः पीडा गते हतजीविते ॥ ३० ॥ हे प्रिय, भवतु अनुनयोपक्रमैरालापैरास्ताम् । कोऽर्थः-ज्ञातं तव स्वरूपम् । प्रसाद नप्रवृत्तस्यापि सर्वाकारमन्यासक्तिशंसिन्येव च्छाया बाह्याकारेण दाक्षिण्यमात्रमेतत् । अत एव व्यर्थालापैः पूर्यताम् । त्वदधीनं मे जीवितमित्यादीनामालापानामर्थस्य विगतत्वाव्य थता । तस्माद्यत्रैव प्रतिभासते तत्रैव गम्यताम् । नहि प्रियस्य समीहितप्रतिबन्धः १७ १. 'प्राणेशप्रणयापराधसमये' इति शृङ्गारदीपिका. २. 'लोलालकैः' इति भारत दीपिका. For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । २९ युज्यते । अस्मिन्प्रेमवैशसे तव स्वल्पोऽपि दोषो नास्ति । अस्माकमेव दैवं वक्ष्यमाणमरणाध्यवसायेन प्रतिकूलम् । अस्माकमिति बहुवचनमौदासीन्यव्यञ्जकम् । अनेकार्थत्वादव्ययानां तुशब्दोऽवधारणार्थः । केन प्रकारेण विधिः पराङ्मुख इत्याह- तव यदीत्यादि । तव यद्यनिर्वचनीयेन प्रकारेण कोटिं प्राप्तं प्रेम इमां प्रसादनसमयेऽप्यन्यासक्तिशंसनलक्षणामवस्थां प्रपन्नमस्मादस्माकं स्वभावगत्वरे निन्द्यजीविते गते का व्यथा । अपि तु न कापि । प्रकर्षप्राप्तस्य प्रेम्णो विपर्यासे त्वेषैव स्थितिः । यथा रत्नावल्याम्'समारूढा प्रीतिः प्रणयबहुमानादनुदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्व खलु मया । प्रिया मुञ्चत्यय स्फुटमसहना जीवितमहो प्रकृष्टस्य प्रेम्णः स्खलितमविषह्यं हि भवति ।।' तनुरपि न ते दोष इत्यत्र तवैव गरीयान्दोष इति विपरीतलक्षणया निषेधे विधिः । एवं च त्वयि निरनुक्रोशेऽस्माकं विधिः पराङ्मुख इति प्रीत्यतिशयः । तवेत्यर्थान्तरसंक्रमितत्वेन शठस्येत्यर्थः । वयं त्वदेकशरणाः, तस्मात्का नः पीडा । अपि तु तवैव । प्रकृतितरले इत्यनेन संसारस्यानित्यता प्रतिपाद्यते । वैराग्यं च शृङ्गारोपनिबन्धे वयं तावदनुचितं मन्यामहे । यथोदाहृतं दोषनिर्णये मम्मटालकाभ्याम् - प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥' अत्र शृङ्गारे प्रतिकूलस्य शान्त्यस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्च व्यभिचारी । यद्यपि शुद्धतार्किकाणां जातिघोटिक (?) वैयाकरणानामैकान्तिकच्छान्दसानां च दन्तकलहो न निवर्तिष्यते, यद्यपि च करणीय (?) सहृदयाः प्रखवणनिरोधवाधिता (?) इव नासासंकोचं करिष्यन्ति, तथापि परमार्थसहृदयैः कृतयोगक्षेमाः पाठान्तरमभिदध्महे— 'अकृतविफले का नः पीडा गते हतजीविते' इति नायकस्यान्यासक्तिलक्षणस्य नायिकायाः प्रीतिलक्षणस्यान्तरस्य प्रतीतिजनको भावो नामालंकारः । यदुक्तम्- 'अभिधेयमभिदधानं तदेव तदसदृशसकलदोषगुणम् । अर्थान्तरमवगमयति वाक्यं तदसौ परो भावः ॥' काचित्स्वैरिणी जरदभिसारिकया सोपदेशमभिधीयतेउरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ । प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥ ३१ ॥ हे मुग्धे, यदि त्वमित्थं वादितपटहा प्रियं प्रत्याभिमुख्येन गच्छसि, तदा अधिकत्रासेनोत्कम्पो यत्र तद्यथा भवत्येवं ककुभः किमित्युकंधरमोक्षसे । एवमाहतडिण्डिमा । एवं कथमित्याह-वक्षसि पारिप्लवं मुक्तादाम न्यस्तम् । शब्दायमाना मेखला नितम्बे १. 'त्रासोत्कम्पा' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रत्याह ३० काव्यमाला । 1 निवेशिता । किंविशिष्टे । घने । प्रचुरपरिणाहिनीत्यर्थः । चरणौ च शिञ्जानरत्नमञ्जीरौ । हारश्चाकचक्यायमानतया प्रकाशकः काञ्चीनूपुरौ च सशब्दत्वेन । पादौ रणन्मणिनूपुरावित्यत्र ययपि बहुव्रीहिणैव प्रकाशमानात्मकोऽर्थः संघटते, तथाप्युरसि हारवजघने काञ्चीवदाधाराधेयभावेनाप्रयोगादुपक्रमभङ्गो दूषणम् । ईषहूषणत्वाच्चादूषणप्रायम् । मुग्धे इत्यत्र मोहः प्रियसंगमौत्सुक्यवती विलतैव। अन्यथोपलम्भकारणानि भङ्क्त्वा किमित्यभिसरणमारभते । आहतडिण्डिमेत्यत्र लक्षणया सुप्रकाशकत्वमर्थः । अधिकत्रासोत्कम्पमित्यत्र च संकल्पकल्पितेन प्रियसमागमेन सात्त्विक एव तावदुत्कम्पः । त्रासेन पुनर• धिक इति । अथ चाहतडिण्डिमा यदि प्रियमभिसरसि तदा किमद्यापि दिश: समुदीक्षसे । वेगेन गत्वा समीहितं साधयेति साभ्यसूयं कार्यशिक्षा । विषमोऽलंकारः । यदुक्तम्- 'विषम इति प्रथितोऽयं वक्ता विघटयति कमपि संबन्धम् । यत्रार्थयोरसन्तं परमतमाशङ्कय तत्सत्त्वे ॥' यथा - 'यो यस्य नैव विषयो न स तं कुर्यादहो बलात्कारः । सततं खलेषु भवतां व खलाः क्व च सज्जनस्तुतयः ॥' अभिसारिकाश्च प्रदोषेषु विवाहादिप्रकरणेषु मध्याह्नशून्येषु मार्गेषु वसन्तोत्सवे उद्यानयात्रासु विदूरेषु चैवंविधेष्वन्येध्वपि संविधानकेषु कामुकमभिसरन्ति । यदुक्तम्- 'अटव्यामन्धकारे वा शून्ये वापि सुरालये । उद्याने वा सरित्कुञ्जे प्रदेशे गर्हितेऽथवा ॥ परदारेषु संकेतः कर्तव्यो रतिसिद्धये । दूतीवक्रेण निश्चित्य स्वयं तत्र पुरा व्रजेत् ॥' ततः प्राप्तां प्रियां शीघ्रं सेवेत रतिकोविदः । प्रेषयेदन्यमार्गेण स्वयमन्येन च व्रजेत् ॥ यथा न ज्ञायते कैश्चित्सु निगूढो विचक्षणः ।' अभिसारयन्ति च दूत्यो नायिकामनेककौतुकवासनाभिः । यदुक्तमीश्वरकामिते — 'प्रागेव स्वभवनस्थां ब्रूयात् अमुष्यां क्रीडायां तव राजभवनस्थानानि रामणीयकानि दर्शयिष्यामीति । काले च योजयेत् । बहिः प्रवालकुट्टिमं ते दर्शयिष्यामि । मणिभूमिकां वृक्षवाटिकां मृद्वीकामण्डपिकां चित्रकर्माणि यन्त्राणि क्रीडामृगान् - ' इत्यादि । भवननर्म चैतत् । यथा रत्नावल्यामालेख्यदर्शनावसरे – 'जाणिदो मए एसो सव्वो वृत्तन्तो समं चित्तफलएण । ता गदुअ देवीए कहइस्सं ।' इत्यादि ॥ काचित्प्रोषितभर्तृका विरहातिमोहेन प्रतिविधानमाकाङ्क्षन्ती वर्षारम्भबलाहकं 1 1 Acharya Shri Kailassagarsuri Gyanmandir मलयमरुतां व्राता वाता विकासितमल्लिकापरिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटयितुं तं निःस्नेहं य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स एव धनंजयः ॥ ३२॥ हे घन, चैत्रीयाश्चन्दनसमीरा वहन्ति स्म । निदाघकालोऽपि पर्यवसितः । किं १. ‘ज्ञातो मया एष सर्वो वृत्तान्तः समं चित्रफलकेन । तद्गत्वा देव्यै कथयिष्यामि ।' इति च्छाया. For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अमरुशतकम् । Acharya Shri Kailassagarsuri Gyanmandir ३१ विशिष्टः । दलितकोमलविचकिलानां परिमलभरो यस्मिंस्तथा । उभयोरप्युद्दीपनविभावयोः सुगन्धित्वोक्तिः । ताभ्यामपि प्रियो न मेलितः । अतएव वाता इति भग्न इति चाक्षमत्वोक्तिः । लोके ह्यप्रयोजके वायुरिति व्यपदिश्यते परिश्रान्ते च भग्न इति । उभावाक्षिप्य मेघमुत्तेजयति - यदि परं तं प्रियमुद्दीपनविभावोद्गमेऽपि स्वस्थावस्थत्वात्यक्तानुरागं मेलयितुं त्वमुद्यच्छसे । मेघागमे हि यथाकथंचिद्दूर देशान्तरादप्यागत्य पान्थाः कान्ताभिः सह संगच्छन्ते । अमुमेवार्थमाख्यानेन द्रढयति-य एव गवां निवर्तने प्रत्यानयने क्षमते स एव धनंजयः । किमस्माकं त्रुटितम् । कोऽर्थः - वयं जीवाम एव । धनंजयपदमुचितम् । गोसमूहस्यापि धनशब्देन प्रसिद्धत्वात् । आख्यानकवाक्यान्तःपतितत्वारिंक नरिछन्नमिति न गर्भितं नाम दूषणमाधत्ते । क्वचिदेवंविधस्य दोषस्यापि गुणप्रतीतेः । यथा काश्मीरकविहणस्य- 'कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीनुद्दामध्वनिपण्डितान्परिजने किंचिश्च निद्रायति । कस्मात्कुप्यसि यावदस्मि चलिता तावद्विधिप्रेरितः काश्मीरीकुचकुम्भविभ्रमधरः शीतांशुरभ्युद्गतः ॥' इत्यत्र कस्मात्कुप्यसीति । अत्र हि संकेतप्राप्तस्य कामुकस्य वैमनस्यमपनेतुं स्वविलम्बकारणमुदाहरन्ती स्वैरिणी वाक्यस्यान्तरेव प्रसत्तिजनकं कस्मात्कुप्यसीत्यवोचत् । तथा प्रोषितभर्तृकापि मेघात्संभाव्यमानेऽपि प्रियसमागमे संकल्पितसमीहितसिद्धिरसमाप्तेऽपि वाक्ये किं न छिन्नमिति संतोषव्यञ्जकं पदमुक्तवती ॥ काचिदेकग्रामप्रवासेन मन्दमन्दोद्दीपितमन्मथानलज्वालाभिभूततनुर्व्याधिव्यपदेशेन मानमन्युमनुभवन्ती सपत्ननायिकासक्तं नायकं प्रति सोल्लुण्ठकरुणोपन्यासमाचष्टे— प्रातःप्रातरुपागतेन जनिता निर्निद्रता चक्षुषो मन्दाया मम गौरवं व्यपगतं प्रोत्पादितं लाघवम् । किं तद्यन्न कृतं त्वया मरणभीर्मुक्ता मया गम्यतां दुःखं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥ ३३ ॥ यद्यपि मानविषयस्यार्थस्यात्र मुख्यता तथापि संविधानकवशेन रुग्विषय एवार्थ आदौ प्रतिपाद्यते—प्रतिप्रभातमागतस्त्वम् । रोगिणो हि विशेषाविशेषपरिज्ञानमिष्टजनः प्रभात एवागत्य करोति । मम चक्षुषोनिंद्रा निवारिता । किंविशिष्टायाः । मन्दायाः सरुजः । दिवास्वापो हि निषिद्धः सव्याधेः । दृष्टौ हि मीलनोन्मीलनपरिज्ञानार्थमवनं कार्यमिति विशेषणं चक्षुषोरिति प्रसिद्धं युक्तम् (?) । अन्यथा जनिता निनिंद्रितेत्येतावतैव पूर्यते । उचितप्रतिविधानैरेव यत्र पारवश्यं व्यपगतम् । अन्तर्भूतकारितार्थत्वे व्यपग[मि]तमित्यर्थः । अन्यथा नायककर्तृकयोनिद्रानिरोधलाघवोत्पादनवाक्ययोरन्तरा गौरवं स्वयमेव व्यपगतमिति प्रयोक्तुं न युज्यते । स्फूर्तिमत्त्वं प्रकर्षेणोत्पादितम् । अथवा किं बहुना, For Private and Personal Use Only १. 'गौरवव्यपनयादुत्पादितं' इति शृङ्गारदीपिका. २. 'किं मुग्धेन कृतं त्वया रमणभीः' इति शृङ्गारदीपिका. Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२ काव्यमाला। किं तत्समयोचितं न कृतं त्वया । अपि तु सर्व कृतम् । अत एव मृत्युभयं परित्यक्तं मया । अतःपरं निःसंशयं जीविष्यामीत्यर्थः । इदानीं गम्यताम् । यतः कृच्छमास्ते भवान् । यच्चेदानी मुद्रसप्रायं पथ्यं करिष्यामि तदाकर्णयिष्यसि । कोऽर्थः-पथ्यं श्रति. विषयमेवास्तु, न तु दृष्टिविषयम् । दृष्टिविषये किल भवदीयकार्यसंकोचक्लेशकारिणी वेला लगिष्यति । अथ प्रातःप्रातरुपागतोऽसि, न तु रात्रौ । तदा हि कदाचित्संगमावकाशोऽपि संभवति । अन्यच्चान्याङ्गनासङ्गशंसीन्यधरक्षतादीन्यपि प्रातर्दृश्यन्ते । तानि चाक्षिदुःखमुत्पादयन्ति । अत एव जनिता निर्निद्रता चक्षुषोः । अन्यथा विरहवेदनाजागरितसकलरात्रेर्दिवा कदाचिन्निद्रापि मुहूर्त घटते । कचाकर्षणताद्यकरणादक्षमाया मम बहुमानो व्यपगमितः । तुच्छता तु प्रकर्षण जनिता । अथ वा किं तद्यत्त्वया विरुद्ध न कृतम् । अत एव मया मरणे निश्चयः कृतः । तदितः स्थानाद्गम्यताम् । यतोऽत्र दुःखं तिष्ठसि । तत्रैव ते सुखमित्यर्थः । यच्चेदानी प्राणपरित्यागलक्षणमुचितं करिष्यामि तदवश्यं श्रोष्यसि । न तु कर्णपिधानादिना शोकावेगं सूचयिष्यसि । तवैव समीहितत्वात् । कर्तास्मीत्यत्र लुटि उत्तमैकवचनम् । मन्दाशब्दशक्त्युद्भव उपमालंकारः । यथा सरागा वराकीति संभाव्यते तथा त्वयाहं संभावितति प्रतीतेः । यदुक्तम्-'ननु शब्दशक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदानीं श्लेषस्य विषयोऽपहृत एव स्यात् । नापहृत इत्याह-'आक्षिप्त एवालंकार: शब्दशक्त्या प्रकाशते । य. स्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥ कस्यांचिदनुरक्तः कश्चित्स्वयं सवितर्कमनुसंधत्ते । विस्रम्भपात्रस्य वा प्रतिविधानप्रत्याशया कस्याप्यग्रे निवेदयति सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ३४ ॥ सा अनिर्वचनीया मुग्धा, वयं च तदप्राप्तिपर्याकुलतया अप्रगल्भमनसः । अथ च यत्रव बाल्यं तत्रैवाप्रगल्भमनस्कत्वं युज्यते । सा स्त्री, वयं च तां विना स्थातुं न शक्नुम इति गतधैर्याः । अथ च यत्रैव स्त्रीत्वं तत्रैव कातरत्वमुचितं भवति । सा पीनं चोन्नतिमच्च एवंविधं स्तनयुगलं बिभर्ति, वयं च तद्गाढालिङ्गनमप्राप्नवन्तः सखेदाः । अथ च या एव गुरुपदार्थभार वहति स एव सखेदो दृश्यते । 'भरं' इति पाठे स्तनभार बिभता त्यर्थः । अत्र पाठे धरभरमित्यनुप्रासालंकारः । भारश्च साक्षादुक्तः । पूर्वत्र तु पाठ पा नोन्नतिमत्त्वेन भार आक्षिप्यत इति । सा महता नितम्बभरेणाक्रान्ता, वयं च ता तत्वात ग्भारलीलालसगामिनी स्मरन्तो जडिम्ना गन्तुं न क्षमाः । अथ च य एव महता भारत णाक्रान्तो भवति स एवं गन्तुं न शक्नोति। एवं सत्यन्यजनावलम्बिभिर्दोषैर्वयमसाठवा For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ३३ संवृत्ता इत्याश्चर्यमेतत् । असंगतिरलंकारः । यदुक्तम्-'विस्पष्टं समकालं कारणमन्यत्र कार्यमन्यत्र । यस्यामुपलभ्येते विज्ञेयासंगतिः सेयम् ॥' दोषैरित्यत्र विपरीतलक्षणया गणैरित्यर्थः । अत एवानिर्वचनीयताद्योतकः सर्वत्र साशब्दः । अथ च तस्या एव दोषो या यथाकथंचिदागत्य संकेते मया सह न संगच्छत इत्यभिप्रायः । अन्यच्च सा बाला चेष्टाविशेषानुमेयानुरागापि प्रच्छन्नचाराद्ययोग्यतया संगमोपायं न जानातीत्युभयानुरागः । एकानुरागे हि शृङ्गाराभास एव स्यात् । यथा बालरामायणस्योन्मत्तदशाननाङ्के । तत्र हि सुलभानेकस्त्रीरत्नस्यापि रावणस्य यदप्राप्तावुन्मादो जा याः प्राणेश्वररामचन्द्रकचेतसो जानक्याः स्पृहणीयतातिशयः प्रतिपादितो भवति, तु रसोपनिबन्धः । उभयानुरागाभावात् ॥ काचिद्भाविप्रोषितभर्तृका आत्मानं प्रति सोपालम्भमाचष्टेप्रस्थानं वलयैः कृतं प्रियसखैरखैरजस्त्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ॥ ३५ ॥ हे जीवित, कृत्याकृत्यविवेकपराङ्मुखतया प्रियतमे देशान्तरं गन्तुं निःसंदेहमनसि सति सर्वे सुहृदः सहैव प्रचलिताः । कथमित्याह-प्रस्थानं वलयरित्यादि । दौर्बल्यवशेन पतनशीलतया हस्ताभरणैः प्रस्थानं कृतम् । किं विशिष्टैः । प्रियसखैः वल्लभसहचरैः । प्रिये तिष्ठति तिष्ठद्भिर्गच्छति । गच्छद्भिरित्यर्थः । एवमस्रादिष्वपि प्रियसखत्वं योज्यम् । अस्त्रैरप्यनवरतं गतम् । अश्रूणामप्रवृत्तिरेवावस्थितिः गतिश्च प्रवृत्तिरेव । न त्वभाव एव । तथा सत्यश्रूणामभाव एव स्यात् । संतोषेण क्षणमपि न स्थितम् । मनसापि पुनः प्रथममेव गन्तुमुपक्रान्तम् । तत्त्वयाप्यवश्यगन्तव्ये सति कुतो हेतोः प्रियसुहृत्संघातः परित्यज्यते । गम्यतामेवेत्यर्थः । आस्तां तावत्प्रियतमे गते, गन्तुं निश्चितचेतस्यपि नायिका जीवितनिरपेक्षा बभूवेति भावः । सहोक्तिरलंकारः। यदुक्तम्-'भवति यथारूपोऽर्थः कुर्वन्नेवापरं तथारूपम् । उक्तिस्तस्य समाना तेन समं या सहोक्तिः सा ॥' यथा-'कष्टं सखे व यामः सकल जगन्मन्मथेन सह तस्याः । प्रतिदिनमुपैति वृद्धिं कुचकलशनितम्बभित्तिभरः ॥ संदष्टेऽधरपल्लवे सचकितं हस्ताग्रमाधुन्वती मा मा मुञ्च शठेति कोपवचनैरानर्तितभ्रलता । सीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥ ३६ ॥ १. 'आस्थितं' इति शृङ्गारदीपिका. २. 'सर्वैः समं प्रस्थितं' इति शृङ्गारदीपिका. ३. किमुत्सृज्यते' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ काव्यमाला। तैरेव पीयूषं लब्धं यैः सहर्षोत्तरलं मनस्विनी चुम्बिता । अधररस एवामृतमित्यर्थः ।। यावदप्रसादं हि मानिनी महान्तं संतापमुत्पादयति, प्रसन्ना च लोकोत्तरमानन्दम् । अत एवाचेतनैरमरैः खेदाय विलोडितः क्षीरोदः । किं कुर्वती चुम्बिता, दष्टाधरत्वाकराग्रं समन्ताद्धन्वती । कथं सचकितम् । चकितमत्र चमत्कृतिरेव । क्व सति । ओष्ठप्रवाले हठात्खण्डिते सति । किं विशिष्टा। सविलासतरङ्गितभ्रूवल्लिः । कैविशिष्टा । मा मा मुञ्च शठेति कोपवचनैः ।मा मेति पर्याकुलताप्रतिपादकाभ्यां शब्दाभ्याम्, मुञ्चेति क्रियया च संभोगाभियोगस्य निषेधः । न तु ताभ्यां मुञ्चेति क्रियायाः । कोपस्य वचनैरेव, न तु वास्तवेन कोपेन । पुनः कीदृशी। सीत्काराञ्चितलोचना सीत्कारपूर्वकं विलासदशास्पर्शेन कूणिते लोचने यया सा तथोक्ता । कलहरूपं चैतत्सुरतम् । यदुक्तम्-'कलहरूपं सुरतमाचक्षते । विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य' इति । सीत्कारः कामिनीनां दयितस्पर्शसुखातिशयेन हृदयोल्लासचमत्कारपूर्वकः श्वसितात्मा मन्मथोद्दीपनो मुखस्य चेष्टाविशेषः । आक्षेपोऽलंकारः। यथा-'कुतः कुवलयं कर्णे करोषि कलभाषिणि । किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥' अनुभवी वक्ता । यदपि चामी श्लोकाः संभो. गमोर्ध्यामानं प्रणयमानेन, प्रणयमानमभिसरणेन, अभिसरणं प्रवासविप्रलम्भेन, तिरयन्ति तदपि कवेरभिसंधानम् । अतिनिरन्तरमेकरसोपनिबन्धोऽप्युद्वेजको भवति । यथा नाटकादावभिनेयः सान्तरोपनिबन्धो रसश्चमत्कारी स्यात्तथैवंविधकाव्येषु श्रव्योऽपीति । किलकिञ्चितं चात्र नाट्यालंकारः । यदुक्तम्-'क्रोधाश्रुहर्षभीत्यादिसंकरः किलकिञ्चितम् ।' यथा-'रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकलकण्ठार्धमधरे। कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदितस्मितक्रोधोद्धान्तं पुनरपि विदध्यान्मयि मुखम् ॥' 'सानन्दान्त: कुटमिते कुप्येत्केशाधरग्रहे' इत्यनेन कुटमितमपीति ॥ काचिनमसख्याः पुरतः कथयतिसुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं प्रेमावेशितया मया सरलया न्यस्तं मुखं तन्मुखे । ज्ञातेऽलीकनिमीलने नयनयोधूर्तस्य रोमाञ्चतो लज्जासीन्मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥ ३७ ॥ हे सखि, अयं ते दयितः सुप्तस्तस्मादस्माभिरपि सुप्यतामिति मां प्रत्युक्त्वा सख्या गताः । ततः प्रघटनानन्तरं प्रेमग्रहगृहीतया तत्रापि प्राञ्जलया मया प्रियमुखे स्वमुख निवेशितम् । अथ तस्य धूर्तस्य रोमाञ्चचिन नेत्रयोमिथ्यासंकोचने ज्ञाते मम वा बभूव । तेन च संभोगसमयोचिताभिर्नीवीव्यपनयनप्रायाभिः परिपाटीभिः सापि ण्ठिता । कोऽर्थः-अहमपि तत्कालोचितप्रवृत्तिरभूवम् । सुप्यतामिति पदस्था १. 'तरलया' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । उक्त्वेत्यध्याहरणीयम् । सुप्तमुखचुम्बनं च नायिकानां रागोद्दीपनम् । यदुक्तम्-'सुप्तस्य मखमालोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागोद्दीपनम्' इति । यच्च तेन रिंसुना विजनमाकाङ्क्षतालीकनिमीलनं कृतं तत्सख्यो जानन्ति, अत एवायमित्यर्थान्तरसंक्रमितत्वेन धोऽस्मन्निर्गमाय सुप्त इत्युपन्यस्य स्वयमुत्थाय गताः । अर्थान्तरसंक्रमितस्योदाहरणमे त_स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लबलाका घना वाताः शीकरिणः पयोदसहदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' अत्र हि पितृमरणादिदःखसहनक्षमत्वविशिष्टो राम इति संज्ञा प्रतीयते न तु संज्ञिमात्रम् । यदुपज्ञेन ध्वनिवर्त्मना संचरमाणाः, सचेतसः प्रहर्ष प्राप्नुवन्ति तेषामाचार्याणामुक्तिषु मीमांसायां के वयम् । परं तथाप्यात्मावबोधार्थमिदमुदाहरणं परामृशामः--ननु सर्वसहत्वे हेतुभूतकठोरहृदयत्वेनैव राम इति संज्ञिनो वैशिष्टयमुच्यते । यदि कठोरहृदयत्वमत्र सर्वसहत्वे हेतुभूतमभविष्यत्तदा राम इति पदमेव न प्रायोक्ष्यत । वैदेही तु कथं भविष्यतीत्यनेनैव दाशरथिप्रतीतेः । तस्मात्कठोरहृदयत्वविशिष्टस्यैव संज्ञिनस्तत्त्वान्तरं ध्वननीयम् । येन मया प्रवासकाले मातृभिः स्थाप्यमाना त्वमयोध्यायामुपेक्षिता सोऽहं शतकोटिकोटिकर्कशचेताः सर्वेसहः । नहि मया त्वमाहूता, अपि तु स्वयमागता । यथा-'कृतककुपितैर्बाष्पाम्भोभिः सदैन्यविलोकितैर्वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया । नवजलधरश्यामाः पश्यन्दिशो भवती विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥' यच्चालोचनकारेण पिटमरणादिदुःखसहनक्षमत्वं ध्वनिविषयीकृतं तदसत् । दुःखस्य विजातीयत्वात् । नहि प्रियाविरहसंतप्तः पुमाञ्जीवतो लोकान्तरितस्य वा पितुः स्मरति ॥ काचिन्मानिनी बहुभिरुपायैरतिनिर्बन्धप्रसादनेन गतकल्पं मानं परित्यक्तुमनाः प्रियं प्रति ब्रवीति कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं ___यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ ३८ ॥ तस्यावयोरेवंविदितस्य प्रेम्णस्तदिदमतिगर्हि तमधुना वैशसं विनाशो जातः । पश्य, मान्धा भूः । तस्य कस्येत्याह-यत्र प्रणयकलहेषु भ्रकुटेरभिनय एव रोषः । वाक्पारुष्यणापि मनसो दूषयितुमशक्यत्वाद्वचननिरोध एव यस्मिन्निग्रहः । क्रीडाकमलादिनापि ताडनस्य दृष्करत्वात्परस्परमनवृत्तिवशीकरणव्यञ्जकमीषद्धसितमेव प्रसादनम् । सामदानाद्युपायानामपि भेदसूचकत्वात् । उभयोरपि तुल्यकालमेव प्रसादनमभिलषितमिति प्रतिपादयितुमन्योन्यशब्दप्रयोगः । दृष्टिक्षेप एव यत्रानुग्रहः । चरणपतनाद्यसंभवे १. 'विग्रहो' इति शृङ्गारदीपिका. २. 'यत्र दृष्टिः प्रसादः' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ काव्यमाला । बाहौ धृत्वोत्थापनादिसंप्रतिपत्तेरभावात् । कीदृशं प्रेम्णो वैशसमित्याह - त्वमुरःस्थलैकधारणीयः पादसमीपे लुठसि, न तु पादयोः । अपराधातिशयाभावात् । न च मे दुर्जन्याः स्वान्तस्थस्य क्रोधशल्यस्य परित्यागः । कोऽर्थः तथा निःशङ्केन किमप्याचरितं यथाहमप्यनन्यशरणा ते दुर्जनी जाता। अवसरोऽलंकारः । यदुक्तम्- 'अर्थान्तरमुत्कृष्टं सरसं यदि वोपलक्षणीक्रियते । अर्थस्य तदभिधानं प्रसङ्गतो यत्र सोऽवसरः ॥' यथा‘तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बा हुसहायश्चकार रक्षःक्षयं रामः ॥' धीराधीरा प्रगल्भा [मध्या] नायिका । चतुर्थवाक्ये यत्रशब्दप्रयोगाभावादुप क्रमभङ्गः ॥ सुतनु जहिहि मौनं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधोऽभूत् । इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥ ३९ ॥ मानिन्या मानत्यागसूचकं बाष्पसलिलमस्तोकं दुर्निवारत्वेन मुक्तम्, प्रतिवचनं च न किंचिदुदीरितम् । किं विशिष्टया । तिर्यगामीलिताक्ष्या अपराधक्षपणलक्षणयापमानलजया साचि यथा भवत्येवं बाष्पनिरोधबुद्ध्या समन्तात्संकोचिते अक्षिणी यया सा तथोक्ता तया । क्व सति । नाथे निर्बन्धेनेति निगदति सति । इति किम् । हे सुतनु मौनं त्यज । मानजनितातिकार्कश्याद्वाङ्किरोधहृदयाध्माननिरुच्छासात्कुसुमशरजयश्री कार्मणमङ्ग निर्माणमिदं दुर्दशां मा नैषीरिति भावः । अथवा यदि वचनामृतैरभिषिच्य मां संतप्तं नाह्लादयसि तर्हि चरणपतितं दृष्टिप्रसादेन संभावय । आत्मनः प्रियामानात्मकविप्रलम्भदुःसहताकारणमाह - निश्चयेन तव जातु कदाचिदीदृशः क्रोधो नासीत् । यदि चाभविष्यत्तदा तत्संस्कारवशादिदानीमपि सहिष्ये ॥ कश्चिन्नर्मविदग्धो वियोगी तदेकतानेन मानिनीसर्वस्वमनुध्यायतिगाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोगमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोछापिनी सुप्ता किं नु मृता नु किं मनसि किं लीना विलीना नु किम् ॥४०॥ किं नु शयिता, उतस्विदुपरतैव, अथवान्तःकरणेऽभेदं प्राप्ता, आहोस्विद्रवतां ययौ, इत्यमुना संदेहेनानिर्वचनीयावस्था मदकलकलहंसचकोटिकोटितकोमलमृणालिनीकिसलयवत्परिक्लान्तैरङ्गकैः प्राभातिकनौलेन्दीवरवन्मुकुलितेन लोचनयुगलेन विलयं गच्छन्ती नोपलब्धेत्यर्थः । तस्यापि तत्कालमानन्देन मन्दचेतनत्वात् । केन क्रमेणैवंविधा बभूवे १. 'प्रोद्भिन्न' इति शृङ्गारदीपिका. २. 'काचीप्रदेशाम्बरा' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । गारगाढेत्यादि । अतिनिर्भराश्लेषेणावामनौ वामनौ कृतौ यो कुचौ तत्र प्रकर्षणो. पलकोद्रमो यस्याः सा तथाक्ता । कथमुल्लापिनीति । मा, मा, मानद मानखण्डन, अतिशयेन । मामलमित्यत्र पीडयति क्रियां विना पर्याकुलताद्योतकमोक्तम् । मा मेत्यादि पौनरुक्त्यं च सुन्दरम् । अत्रापि यदि कथ्यते तदा वधू रुष्यति, यदि मौनाय्यते तदा गृहं नश्यति । तथापि करुणबीभत्सस्मारकं मृतेति पदं न मानयामः । तस्मात् किं म्लाना शयिता नु किं मनसि मे लीना विलीना नु किम्' इति पठिष्यामः । संशयोऽलंकारः । यदुक्तम् -'वस्तुनि यत्रकस्मिन्ननेकविषयस्तु भवति संदेहः । प्रतिपत्तु: सादृश्यादनिश्चयः संशयः स इति' ।। अभिनवस्नुषा प्रथमनर्मारम्भे किं करोतीत्याहपटालग्ने पत्यौ नमयति मुखं जातविनया हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् । ने शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ४१॥ वस्त्राञ्चलाकर्षिणि प्रिये किंचिदङ्गीकाराजातप्रश्रया मुखं नमयति । बलात्कारेण परिरम्भमाकाङ्क्षति सत्यङ्गानि निभृतं यथा भवत्येवमन्यतो नयति । न तु मध्यावत्सभ्रूभङ्गाभ्यसूयाभिनयपूर्वकमपहरति । अत्रैवावसरे स्मितमुखीं वरसंनिधिं प्रापयितुमागतां सहचरी प्रति क्षिप्तलोचना तत्कालोचितप्रियप्रश्नोत्तरमाख्यातुं न क्षमते । यदि कथमपि सखी नाभविष्यत्तदा सा कदाचित्किचिदाख्यातुमप्यक्षमिष्यतेत्यर्थः । इत्थमन्तःकरणे लज्जया ताम्यति । लज्जा तस्याः प्रियतमस्वच्छन्दसंगमप्रतिकूला वैरिणो जातेत्यर्थः । यदुक्तम्-'दूरादुत्कण्ठन्ते दयितानां संनिधौ तु लज्जन्ते । ताम्यन्ति वेपमानाः शयने नवपरिणया वध्वः ।।' मुग्धानां च प्रियोपक्रान्तसंभोगच्छलारम्भ एवाकल्पिकेयमिति कौतुकिन्यः सख्यो न सत्वरमेव संनिधानमज्झन्ति । जातिरलंकारः । यदुक्तम्-'संस्थानावस्थानक्रियादि यद्यस्य यादृशं भवति । लोके चिरप्रसिद्धं तत्कथनमनन्यथा जातिः ॥' 'हरति रुचिरं गाढाश्लेषे यदङ्गकमाकुला स्थगयति तथा यत्पाणिभ्यां मुखं पारचुम्बने । यदपि बहशः प्रष्टा किंचिद्रवीत्यपरिस्फुटं रमयतितरां तेनैवासी मनोऽभिनवा वधूः ॥' रते वामा मुग्धा नायिका । विहृतं नाम नाट्यालंकारः । 'प्राप्तकालं न यद्याद्रीडया विहृतं हि तत् ॥ नापेतोऽनुनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो यो दीर्घ दिवसं विषय विषेमं यत्नात्कथंचिद्धृतः । १. 'अशक्ता चाख्यातुं' इति शृङ्गारदीपिकापाठः, २. 'हृदये' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८ काव्यमाला | अन्योन्यस्य हृते मुखे निहितयोस्तिर्यक्कथंचिद्दृशोः से द्वाभ्यामतिविस्मृतव्यतिकरो मानो विहस्योज्झितः ॥ ४२॥ स प्रणयमानो द्वाभ्यामतिशयेन विस्मृतानुसंधानः स्वयं विहस्य मुक्तः । कयोः सत्योः । दृशोस्तिर्यक्कथंचिन्निक्षिप्तयोः । क्व । मुखे । कस्य । अन्योन्यस्य । किं विशिष्टे । कोपादन्यतो नीते । दृशोर्मुखे इत्युभयत्रान्योन्यस्येति संबन्धः । स कः । यः प्रसादनेन नापगतः । यः सखीप्रभृतीनां वचनैर्न शमितः । यश्च वियोगव्यथया दीर्घे विषयं च दिवसं प्रतिपाल्य गतकल्पोऽपि लाघवशङ्कया यत्नात्कथंचित्कथमपि व्यवस्थापितः । 'यत्रासंभाव्यभावो वा' इति विषममलंकारः ॥ काचिन्मनस्विनी दयितव्यलीकखेदं सख्याः कथयतिगते प्रेमाबन्धे प्रणयबहुमाने विगलिते निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसा Acharya Shri Kailassagarsuri Gyanmandir न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥ ४३ ॥ है प्रियसखि, न वेद्मि किं कारणं यन्मे हृदयं शतधा न स्फुटति । कस्मिन्सतीत्याह—स्नेहानुबन्धे गते । अन्योन्यगुणवशीकारगौरवे गलिते । निष्प्रपञ्चनायां निवृत्तायाम् । विधेये प्रियतमे उदासीन इव गच्छति । किं कृत्वा हृदयं शतधा न याति तत्पूर्वोक्तं पर्यालोच्य षड्गुण यत्वेति (?) लोकोक्तिः । न परं तदुत्प्रेक्षा । विधेयेन प्रेयसा सह व्यतीतांस्ताननिर्वचनीयवासरान्। इदानींतनदुःखं प्राक्तनं सुखमनुस्मृत्येत्यर्थः । यथा किंचिदपक्कपात्रस्थितमवष्टम्भेन विना विदीर्यते तथा मानाधमातं हृदयं प्रेमाबन्धेन विना किमिति न स्फुटतीत्युक्तिलेशः । नायिकाः खलु सानुरागमपि नायकमीर्ध्याकालेषु निरनुरागं व्यपदिशन्तीत्येकानुरागो नात्र शङ्कनीय इति ॥ चिरविरहिणोर्रेत्युत्कण्ठाश्लथीकृतगात्रयो नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः । कथमिव दिने दीर्घे याते निशामधिरूढयोः प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥ ४४ ॥ बहुदिनवियोगिनोर्भागधेयैः संगतयोस्तरुणयोर्यथा लम्भकानुपलम्भकैर्भयसी गृहदेशान्तरानुभूतवृत्तान्तकथा प्रसरति न तथा संभोगः । किंविशिष्टयोः । महता कष्टेन दीर्घेऽहनि व्यतोते सति रात्रिमधिरूद्रयोः । अथ च दीर्घे निःश्रेणिकाप्रायं पदार्थमतिक्र १. 'विहितयो:' इति शृङ्गारदीपिका. २. 'संबन्धे सपदि स्मितव्यतिकरे' इति शृङ्गारदीपिका. ३. ‘प्रेमावेशे' इति शृङ्गारदीपिका. ४. 'उत्कण्ठार्त्या' इति शृङ्गारदीपिका. ५. 'याते दीर्घे' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ३९ म्योच्चैरधिरुह्यते । प्राप्तयोरित्येतावन्मात्रे वाच्येऽधिरूढयोरिति लक्षणया लब्धोत्कर्षयोरित्यर्थः । यथा कश्चिदभिमानी गजस्कन्धाधिरूढः । संपूर्णमनोरथत्वेन किंचिन्न मानयति । दिन एव किंविशिष्टयोरित्याह - रत्युत्कण्ठाश्लथीकृतगात्रयोः । अस्मिन्दुरात्मनि दिने गते प्राप्तैकान्तौ स्वच्छन्दं रंस्यावह इति सुरतोत्कलिकया शिथिलीकृतान्यङ्गानि याभ्यां तयोः । रिरंसोहि प्रतिक्षणमुद्धृषित हृदयस्यावयवाः शिथिलीभवन्ति । पुनः क थंभूतयोः । भूयो नूतनमिव संसारमभिलक्ष्यीकृत्य समृद्धृतोः । कदा । चिरात् । कोऽर्थः । अद्य प्राग्विरहनिष्फलत्वेन जगन्नष्टमिति ताभ्यां चिन्तितम्। बहीशब्दस्यायमभिप्रायः रतिरपि बह्वी, परं कथामानेन न भवति । सुरतान्तरालेषु परस्परवृत्तान्तोपवर्णनप्रश्नपरम्पराभिविभावरी प्रयाति निद्रायाः कथैव नास्तीति तात्पर्यम् ॥ दीर्घा वन्दनमालिका विरचिता दृष्टचैव नेन्दीवरैः पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः । दत्तः स्वेदमुचा पयोधरभरेणार्धो न कुम्भाम्भसा स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥ ४५ ॥ यथा कश्चिद्वशीकर्तुकामः सर्वाधिकारेषु स्वीयमेव कुटुम्बं नियुङ्क्ते तथा दयितस्य गृहं प्रविशतः कृशाङ्गयाः स्वैरेवार्मङ्गलमुपडौकितम् । किं तदित्याह — दीर्घत्यादि । उत्सवेषु या तोरणादिसंनिवेशनीया लोकप्रसिद्धा वन्दनमाला सा दृष्टचैव दीर्घा सूत्रिता न तु कुवलयैः । कुसुमानामितस्ततः प्रक्षेप ईषद्धसितेनैव निर्मितो न पुनर्मालत्यादिभिः । स्वेदस्यन्दिना स्तनप्राग्भारेणैवार्घः संपादितः, न तु कलशतोयेन। दृष्टयैवेत्यत्र य एवकारः स एव स्मितेनेत्यत्र पयोधरभरेणेत्यत्र चानुवर्तते । वन्दनमालिकेत्यत्र स्वार्थे कप्रत्ययः । न तु हृस्वार्थे । तथासति दीर्घत्यस्यानुपपद्यमानत्वात् । दैर्येण स्निग्धश्यामलत्वेन पक्ष्मलत्वेन च दृष्टथैव यदर्थः साधितस्तैरिन्दीवरैः किम् । सौकुमार्येण वैशद्येन परिमलेन च स्मितेनैव यत्कार्यमनुष्ठितं तेन पुष्पप्रकरेणालम् ॥ काठिन्येन प्रथिना सजलत्वेन गरिम्णा च पयोघरेणैव यद्विधेयं संपादितं तेन कुम्भाम्भसा पर्याप्तमित्याक्षेपोऽलंकारः । इन्दीवरैः कुन्दजात्यादिभिरिति बहुवचनापेक्षया दृष्टिस्मितयोरेकवचनेन महानुत्कर्षः । अयमवश्यं गृहप्रवेशो देशान्तरादागतस्यावधार्यमाणो रसपुष्टिमाधत्ते । अत एव तन्व्येति । 'भाविन्यागमने भर्तुरात्मानं च गृहं च या । अलंकरोति हर्षेण सा स्याद्वासकसजिका ॥' इत्यनेन तत्कालं वासकसजा नायिका ॥ 1 अद्य त्वमन्यादृशी, वयमेव दुर्जनीभूताः स्मः । युवां पुनरभिन्नावेवेति सस्मितं सख्या प्रभाते पृष्टा काचित्तां प्रत्याह कान्ते सागसि शापिते प्रियसखीवेषं विधायागते भ्रान्त्यालिङ्गय मया रहस्यमुदितं तत्संगमाकाङ्क्षया । १. 'दत्तम्' इति शृङ्गारदीपिका. २. 'अर्ध्यम्' इति शृङ्गारदीपिका. ३. 'यापिते' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मुग्धे दुष्करमेतदित्यतितमामुद्दामहासं बला दाश्लिष्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ४६॥ सापराधे प्रेयसि यद्यस्मद्गृहमागच्छसि तदामुकशपथस्तवेति निवारितेऽप्यमकसखीवेषं कृत्वा प्राप्ते सति मया निजवयस्याभ्रमेण परिरभ्य प्रियसंगमस्पृहया स दुरात्मा योवं परिरभ्यत इत्यादिकमपि रहस्यमुक्तम् । अथ सिद्धसमीहितेन तेन शठेन मुग्धे यदेतत्वयोक्तं तन्मम दुष्करमित्युक्त्वा निरतिशयेन सशब्दहासं यथा भवत्येवं हठादालिङ्गयाद्य रजनीमुखसमये वञ्चितास्मि । तदाहं तमज्ञास्यम् । भवादृशीनां सखीनामेव भ्रमेण म. टास्मीति भावः । अत्र कामुकस्य हठाश्लेष उद्दामहासोपलम्भेन नायिकाया अपसरणं सूचयति । अन्यथा सखीभ्रमेण स्वयं कृताश्लेषायाः कीदृशं हठालिङ्गनम् । मुग्धे इत्यत्र पत्यौ सखीमोहः, रहस्यमदितमित्यनेन काममोहश्च । रसान्तरं प्रसादनोपायः । यथा'अभिव्यक्तालीकः सकलविफलोपायविभवश्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपुणम् । इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा कृताश्लेषां धूर्तः स्मितमधुरमाश्लिष्यति वधूम् ॥' समयाभियोगश्चायं नायकस्य । यदुक्तम्-'प्रदोषे निशि तमसि च योषितो मन्दसाध्वसाः सुखेन सुरतव्यवसायिन्यो रागवत्यश्च भवन्ति' इति । प्रदोषागमे छलितेत्युचितम् । अन्यस्यापि यस्य भतादिच्छलनं भवति तस्य प्रदोषे प्रायः श्रूयते । अद्य प्रदोषागमे इत्यत्राद्यशब्दो विचार्यते-यदैव सा छलिता तदेव नायकः संप्रतिपत्तिमात्र कृत्वा गत इति तावन्न घटते । यतो मानिनी सखीवेषप्रायोपायकष्टप्रसादिता सर्वा शर्वरी लालनीया भवति । अगते च तस्मिन्प्रदोषसमयानन्तरं कस्याग्रे कथं वा स्ववृत्तान्तं निवेदयति । न चैवंविधानि वाक्यानि मनोगतानि घटन्ते । ततश्चाद्यशब्दः कथमुपपद्यते । अत्रोच्यते-लोकोक्तिमात्रमेतत् । यथा व्यतीतरात्रिवृत्तान्तेऽप्युपवर्ण्यमाने अद्य रात्री मया स्वप्नो दृष्ट इति व्यवह्रियते, तथा अद्य प्रदोषागमे इत्यत्रापि ॥ कश्चिद्वियोगी प्रियतमामानवृत्तान्तमनुस्मरतिआशङ्कय प्रणतिं पटान्तपिहितौ पादौ करोत्यादरा द्वयाजेनागतमावृणोति हसितं न स्पष्टमुट्ठीक्षते । मय्यालापवति प्रतीपर्वचनं सख्या सहाभाषते तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ४७ ॥ तन्व्यास्तावदास्तां निरन्तरमनुवृत्तिपरता, यावन्मानोऽपि रमणीयोदयः । सर्वास्वव स्थासु स्पृहणीयेति भावः । कथमित्याह-आशयेत्यादि । एष प्रणामं करिष्यतीति च याविशेषेरनुमीय प्रयत्नाद्वस्त्राञ्चलावगुण्ठितौ स्वचरणौ विदधाति । न त्वन्यतो नयति । कोपस्य स्वल्पत्वात् । पूर्वानुभूतस्य कस्यचिनर्मण उल्लेखेनाकस्मादागतं हास्यं किाम १. 'दुष्कर एष इत्यतितरामुक्त्वा सहासं बलादालिङ्गय' इति शृङ्गारदीपिका. २. 'वचना सख्या समं भाषते' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । मिति मिथ्यापदार्थनिवर्णनार्थ ग्रीवावलनापदेशेन रुणद्धि । व्यक्तं नावलोकते । मय्यन्यनोमखेऽन्तरान्तरा पश्यतीत्यर्थः । मयि वामिश्रणार्थमालापयुक्ते तदन्तरार्थ सख्या सह विपरीतवचनमाचष्टे । लेशोऽलंकारः । यदुक्तम् –'दोषीभावो यस्मिन्गुणस्य दोषस्य वा गुणीभावः । अभिधीयते तथाविधकर्मनिमित्तः स लेश इति' ॥ यावन्त्येव पदान्यलीकवचनैरालीजनैः पाठिता तावन्त्येव कृतागसो द्रुततरं संप्य पत्युः पुरः । पारेभे परतो यथा मनसिजस्येच्छा तथा वर्तितुं प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥४८॥ मुग्धा यावन्त्येव पदानि व्यलीकवचनैः कृत्वा सखीजनैः शिक्षिता तावन्त्येव कृतापराधस्य भर्तुरग्रे अनन्यसामान्योऽयमर्थो मयैव केवलं साधित इत्यद्भुतातिशयेन शुकवदुच्चार्य तदनन्तरं यथा मनसिजस्येच्छा तथा चेष्टितुमुपचक्रमे । संभोगप्रवणा बभूवेत्यर्थः । यतः प्रेम्णो मौग्ध्येन शोभमानस्याकृत्रिमः कोऽप्यनिर्वचनीयः सुन्दरः प्रकारः । अलोकवचनैरित्यत्रालीकशब्दो व्यलीकवदपराधार्थः । यथा-'अभिव्यक्तालीकः' इत्यादि । तेनापराधे यानि वचनान्युच्यन्ते तैरलीकवचनैः, न तु प्रणयमानार्थ मिथ्यापराधारोपकैरिति । अन्यथा कृतागस इत्यस्यानुपपद्यमानत्वात् । संलप्येति क्त्वाप्रत्ययेन पूर्वकाल. तायां प्रतिपादितायां मनसिजस्येच्छावर्तनस्य यद्यपि परत्वं स्वतः सिद्धं तथाप्यमुकं कृत्वा पश्चादमुकं कर्तव्यमिति लोकोक्त्या परतःशब्दो नाधिकः ॥ दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाप्पाम्बुपूर्णक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ४९॥ अहो आश्चर्यम् । यजातापराधे प्रियतमे मानिन्याश्चक्षुरनेकरूपतादक्षिणं संवृत्तम् । कथं तथा जातमित्याह-दूरादित्यादि । यदि तमपराधकारिणं पश्यामि तदा शिक्षा ग्राहयामीत्युत्पन्नकोपावेगेन दूरस्थे तस्मिन्नुत्सुकम् । सविधं प्राप्तेऽवधीरणयान्यतो नीतम् । वक्तुं प्रवृत्ते सत्यद्यापि निःशङ्को वदन्वर्तत इत्याक्षेपबुद्धया स्फारितम् । बलादालिङ्गितुमुपनते बहुमानयोग्यामेवं मां धृष्यतीति रोषेण लोहितम् । धृतवस्त्रे कोपकुञ्चित लतम् । अत्रारुणतासकाशादश्चितभ्रलतत्वस्योद्भटत्वेन सर्वेष्वपि भावेषु कोपहेतुकेषु सत्स्वाप विशेषतः कोपाश्चितत्यमना कोपशब्दप्रयोगेण बहुमानरोष एव पोषं प्रापितः । १. 'सा यावन्ति' इति शृङ्गारदीपिका. २. 'व्याहृत्य' इति शृङ्गारदीपिका. ३. 'प्रा. या' इति शृङ्गारदीपिका. ४. 'संकुञ्चितभूलतम्' इति शृङ्गारदीपिका. ५. 'पूर्णेक्षणात्' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ काव्यमाला । तस्मात् 'किंचाचितभ्रूलतम्' इति यत्कैश्चित्पाठान्तरं कृतं तद्व्यर्थश्रमपर्यालोचितमरमणीयं च मन्यामहे । पादप्रणामसंपर्के च बहुमानलाभात्प्रसादोन्मुखत्वव्यञ्जकेन वाष्पाम्बुना पूर्णा संवरणायोपक्रान्ता ईक्षणक्रिया यस्य तत्तथोक्तम् । चक्षुरित्येकवचनमवज्ञायोतकम् । कर्तृक्रियादीपकमलंकारः ॥ अङ्गानामतितानवं कुत इदं कस्मादकस्मादिदं मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । तन्व्यां सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर व्यापी बाप्पभरस्तया वैलितया निःश्वस्य मुक्तोऽन्यतः ॥१०॥ तन्व्या तत्कालमेव पराङ्मुखत्वेनान्यतो विवृत्तया बाष्पोत्पीडो निःश्वासपूर्वमुक्तः । किं कृत्वा । इत्युदीर्य । इति किम् । सर्वमिदमङ्गतानवादिकं स्वभावादेव । क्व सति । प्राणश्वरे मया सह यथाकथंचिदेव वामिश्रणं करोत्वित्यनुसंधानेनेति पर्यनुयुञ्जने । इति किम् । हे मनोहरे, अवयवानामतिका कस्मादेतत् । कुतश्चेदं पाण्डुगण्डफलकं मुखम् । क थम् । अकस्मात् । कोऽभिप्रायः - मया ते शरीरदौर्बल्यपाण्डुकपोलत्वसदृशं किमपि न चेष्टितमस्तीति स्वापराधापह्नवः । प्राणेश्वरशब्दस्य चायमभिप्रायः - य एव प्राणेश्वरः स एव यद्युदासीनवत्पृच्छति तदा जीवितव्यस्य किं कार्यमिति । अत एव निःश्वासपूवैमन्यतो भूत्वाश्रुमोक्षः कृतः । व्याजोक्तिरलंकारः । यदुक्तम्- 'व्याजोक्तिश्छद्मनोद्भिनवस्तुरूपनिगूहनम्' । यथा - 'शैलेन्द्रप्रतिपाद्यमानगिरिजा हस्तोपगूढोल्लसद्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यचिवान्सस्मितं शैलान्तःपुरमातृमण्डल गणैर्दृष्टोऽवताद्वः शिवः' ॥ कश्चित्कुपितनायिकाप्रसादनारम्भनिरुपायः कस्यापि रहः सहचरस्याप्रे निवेदयतिपुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥ ५१ ॥ ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या रूढप्रणय सहसोद्गद्गदगिरा । १. 'कम्पश्च कस्मादयं' इति शृङ्गारदीपिका. २. 'दयितया' इति शृङ्गारदीपिका. ३. एतयुग्मं शृङ्गारदीपिकायां नास्ति किं तु दशरूपावलोकस्य चतुर्थपरिच्छेदेऽसूयोदाहरणे धनिकेनामरुशतकनात्रैव समुद्धृतमस्ति. For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५२॥ (युगलम्) तन्व्याः पुरतो वार्तान्तरेऽन्याङ्गनानामोच्चारणचकितोऽहं किंचिदवाचितवदनः प्रतिकलविधिप्रेरितो वैलक्ष्याम्किचिल्लिखितुं प्रवृत्तः । अथ मयि लिखत्येव केनाप्यनिर्वचनीयप्रकारेण व्यक्तः स कोऽपि रेखालेखस्तादृशं परिपाकं गतो येन यस्या एव गोत्रस्खलनमापतितं सैव युवतिर्नामापेक्षया पुनरप्यङ्गैरभिव्यक्तिं जगाम । ततश्चित्रनायिकामुप. लभ्य तया वामोऽथ च प्रतिकूलश्चरणश्चण्डिना निक्षिप्तः । किंविशिष्टः । रूपकालंकारेण ब्रह्मास्त्रम् । यथा वारंवारमतिप्रहारिणि शत्रावनन्योपायतया ब्रह्मास्त्रं मुच्यते तथा मयि प्रथममपराधिनि पुनर्गोत्रस्खलनकारिणि पश्चादन्याङ्गनाचित्रलेखिनि वामपादो न्यस्त इत्यर्थः । किं कृत्वा । अश्रुकलुषं यथा भवत्येवमित्यभिधाय । इति किम् । अहो आश्चर्यमाश्चर्यमभिव्यक्तम् । कोऽभिप्रायः-लोकाः, पश्यत दुरात्मनोऽस्य तस्यां तदेकतानताम् । गोत्रस्खलने न पर्याप्तमिदानी तामेव लिखन्वर्तते । किं विशिष्टया सत्या निगद्य । आरूढप्रणयेत्यादि । प्रकर्ष प्राप्तेन प्रेमविशेषेण य एव मे तथा वशीभूत आसीत्स एवायमित्थमुदत्तो जात इत्याश्चर्यकोपव्यञ्जकेन हासेन सह वर्तत इति सहसा उद्गतरोदनस्वना च गीर्यथा स्यात्तथा । कुटस्यादिः कुटादिरिति षष्ठीतत्पुरुषेण कुटादिसंबन्धालिखितुमित्यत्र गुणप्रतिषेधसमर्थनम् । अन्यथा लेखितुमित्येव प्राप्नोति । यथा-'सृष्ट्वा सृष्ट्वा समस्तं ज. नमनुलिखता भूरिभाग्याक्षराणि क्षिप्रं विद्वल्ललाटे कथमपि विधिना लेखितुं विस्मृता श्रीः । दत्त्वास्मिन्हंसपादं मलयजतिलकच्छद्मना क्ष्मातलेन्दो हस्ते दत्तैः सुवर्णैः प्रतिकृति भवता शोधितो भालदेशः ॥' यच्च लेखनारम्भे सैव तरुणी व्यक्तिं गता तत्र ना. यकस्य तन्मयी चित्तवृत्तिनिमित्तम् । चित्रकला च विलासिनां प्रसिद्धव । यदुक्तम्'गीतं वाद्यं नृत्तं चालेख्यं विशेषकपत्रच्छेद्यम्' इत्यादि । विषममलंकारः । यदुक्तम्-'यत्र क्रियाविपत्तेन भवेदेव क्रियाफलं तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम् ॥ कश्चिन्नायिका समासोक्तिभिरनुनयंतिकठिनहृदये मुश्च भ्रान्ति व्यलोककथाश्रितां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् । किमिदमथवा सत्यं मुग्धे त्वयाद्य विनिश्चितं यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ १३ ॥ मामनपराधमुपेक्ष्य मत्संगम विनैव तिष्ठमीति हेतोः हे कठिनहृदये, अपराधकथाविका मिथ्याबुद्धि त्यज । व्यलीककथाश्रितां न तु व्यलीकाश्रिताम् । व्यलीकस्य कथा१. 'कथाश्रयां' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ काव्यमाला । पि नास्तीत्यर्थः । परगृहभङ्गव्यसनिनां कर्णेजपानां वचनैरिममिति त्वद्वैमुख्येनैवविधदः, खस्थं जनमतिविधेयं मां दुःखं प्रापयितुं न ते युक्तम् । अथवा अलमनेन कियन्मे जीवितेन प्रयोजनम् । तस्मात्सत्यं कथय हे अचेतने, किमिदं त्वया ममोपरि विनिश्चित किं पर्याप्तम् । हे प्रिये, यत्किंचिदभिवाञ्छितं तन्मे विधाय सुखं स्थीयताम् । तवैव सुखार्थमहमकारणोत्पन्नं मानं त्याजयामि । ममाभावे (?) चेत्तव सुखं तत्कि मानत्या. जनेनेत्यर्थः । युक्तमित्यत्र 'नपुंसके भावे क्तः । तेन 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसां. प्रतम्' इत्यादिवत् 'प्रधानक्रियाशक्त्यभिधाने गुणक्रियाशक्तिरभिहितवत्प्रकाशते' इति न्यायेनेमं जनमित्यत्र न प्रथमा । तत्र तु सांप्रतमित्यत्र द्वितीया न युज्यत इति कर्मविवक्षा ॥ रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया । आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तनं मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तो यथा ॥ ५४॥ कस्मिंश्चिद्रामे यामिन्यामध्वगेन मुक्ताश्रुणा तेन प्रकारेण तत्कालोचितं किंचिदुत्कलिकया गीतम् , यथा 'ककुभोत्था विभाषैव निर्दिष्टा याष्टिकेन या। धैवतांसग्रहन्यासानहीना मन्द्रमध्यभाक् । समस्वरा च संपूर्णा करुणे मधुकर्यसौ ॥' एवंप्रायम् । किं विशिष्टम् । विरहक्लेशसूचकम् । अथ वात्मशब्देन जीवात्मा । अत एवोत्तरार्धम् 'आस्तां जीवितहारिणः' इत्यादि । कीदृशेन। वारिभरालसजलधररसितोद्विग्नेन । अत्र लाक्षणिकेनालसशब्देन गर्भवेदनाकान्तयुवतिस्तनितवद्गर्जितस्य निःसीमगम्भीरता व्यज्यते । निशीथे हि निवातनिर्भरं वर्षन्तो बलाहकास्तथैव गर्जन्ति, भवन्ति च वराकाणां वियोगिनामुद्वेजनादुर्ललिताः । अत एवोक्तमुपाध्यायेन–'या क्रिया मान्मथैर्बाणैः शल्यितेषु। वियोगिषु । जलं ददति यत्तस्यै तेनामी जलदाः स्मृताः ॥' तथा कथं गीतमित्याहआस्तां तावत्प्राणहारिण: प्रवासनानो ग्रहणं यावत्प्रेमवर्माभिज्ञेन लोकेनोभयरूपस्यापि मानस्य जलाजलिर्दत्तः । लक्षणया लोकान्तरं गतो मान इत्यर्थः। 'त्वं तावदास्व दूर भृत्यावयवोऽपि ते निहन्त्यहितान्' इत्यादिवदत्र विषमालंकारः ॥ कश्चिद्वियोगी मत्तनायिकायाः प्रणयमानमनुस्मरतिस्वं दृष्ट्वा करजक्षतं मधुमदक्षीबाविचार्येयॆया गच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया । प्रत्यावृत्तमुखी सवाष्पनयना मां मुञ्च मुश्चेति सा कोपप्रस्फुरिताधरा यदवदत्तत्केन विस्मार्यते ॥ ५५ ॥ १. 'सा मुञ्च मुश्चेति मां रोष' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । मया मुग्धा वस्त्राश्चले गृहीता । किं कुर्वती। गच्छन्ती । कया। ईय॑या। किं कृत्वा। स्वमेव नखपदं दृष्ट्वा । पुनः किं कृत्वा । अविचार्य । यतो मदिरामदमत्ता । मया किं कृत्वा विधृता। नु इति प्रश्ने । क्व गच्छसीत्युक्त्वा । अथ सा वलितवदना सास्रदृष्टिः कोपकम्प्रौष्ठी मां त्यज त्यजेति यदवोचत्तत्केन विस्मार्यते । अपि तु न केनापि । अत एव स्वं करजक्षतं दृष्ट्वा न त्वन्याङ्गनायाः । तस्य तदेकचित्तत्वात् । अत्र बालाशब्दोऽज्ञानमात्रापेक्षया न तु वयोपेक्षया । बालानायिकाविधेयनखपदादीनामवर्ण्यमानत्वात् । ताः प्रत्युत संगमेषु पराङ्मुख्यो भवन्ति । निर्बन्धेन नीवीनिरसनोद्युक्ते प्रेयसि बलात्सुरतप्रतीपं विदधति । किं च मिथ्यानखपदारोपणेऽपि कम्पन्ते। यदुक्तं मुग्धाविस्रम्भणे-- 'अप्रतिपद्यमानां च भीषयेत् । अहं खलु दन्तपदानि तवाधरे करिष्यामि । स्तनमण्डले नखपदानि । आत्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य वक्ष्यामि ।' यथानघराघवस्य अभिषेकसुग्रीवाङ्के(सुग्रीवाभिषेकाङ्के)-'स्ववपुषि नखलक्ष्म स्वेन कृत्वा भवत्या कृतमिति चतुराणां दर्शयिष्ये सखीनाम् । इति सुतनु रहस्ते भीषितायाः स्मरामि स्मर परिमलमुद्राभङ्गसर्वसहायाः ॥' मधुमदक्षीवेति रतावसानिकम् । यदुक्तम्'सव्येन बाहुना परिरभ्य चषकं गृहीत्वा सान्त्वयन्पाययेत् । भृष्टमांसमातुलुङ्गचुक्रायुपदंशान्मधुरमिदं मृदु विशदमिदमिति विदश्य तत्तदुपाहरेत् । हर्म्यतलस्थितायाश्चन्द्रिकासेवनार्थमासनम् । तत्र चानुकूलाभिः कथाभिरनुवर्तेत । अङ्गसंलोनायाश्चन्द्रमसं पश्यन्त्या नक्षत्रपतिव्यक्तीकरणमरुन्धतीध्रुवसप्तर्षिमण्डलदर्शनं च ॥' इति ॥ काचिन्मानिनी शिक्षयतिचपलहृदये किं स्वातन्त्र्यात्तथा गृहमागत श्चरणपतितः प्रेमाः प्रियः समुपेक्षितः । तदिदमधुना यावज्जीवं निरस्तसुखोदया रुदितशरणा दुर्जातानां सहस्व रुषां फलम् ॥ ५६ ॥ कार्याकार्यपर्यालोचनशन्यतया हे अव्यवस्थितहृदये, कुतो हेतोर्वल्लभोऽवधीरितः । किं विशिष्टः । गृहमागतः । कथम् । तथा । कोऽर्थः । प्रसाद्य संगमाकाङ्क्षया । पुनः कीदृशः। चरणप्रणतः । पुनरपि कथंभूतः। प्रेमाः । लक्षणयातिसरसकोमल इत्यर्थः । कस्मात्समुपक्षितः, स्वातन्त्र्यात् । मामपृष्दैवेत्यर्थः । तदिदानी दुरुत्पन्नानां निजक्रुधां फलमनुभव । कीदृशी सती । रुदितशरणा । किं तत्फलमित्याह-निरस्तसुखोदया। कियन्तं कालम् । यावजीवम् । जीवोऽपि तव क्षणस्थायीति भावः । रुषामिति बहुवचनेन वारंवारं त्वया कोपं कृत्वा सर्व विनाशितमिति प्रतीयते । किं स्वातन्त्र्यादित्यत्र स्वातन्त्र्यमेव त्वया कुत: कृतमिति किंशब्दार्थः । अन्यथा स्वातन्त्र्यहेतुके प्रियसमुपेक्षणे सिद्धे किशब्दोऽधिकः स्यात् । परिकरोऽलंकारः । यदुक्तम्-'साभिप्रायैः सम्यग्विशेषणवस्तु याद्वशेष्येत । द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ॥' यथा-'उचितपरिणाम For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। रम्यं स्वादु सुगन्धि स्वयं करे पतितम् । फलमुत्सृज्य तदानीं ताम्यसि मुग्धे मधे. दानीम् ॥ : अत्रान्तरे बहवः प्रक्षेपकश्लोकाः सन्ति । तत्र विचार:-यः कश्चित्स्वाश्लोकान्रचयित्वा परकाव्ये प्रक्षिपति स तावन्न प्रसिद्धये । स्वनामलेखनाभावात् । तस्मादेवं संभाव्यते-यद्यस्मिन्सार्वपार्षदे काव्ये मम श्लोका अर्हन्ति तदाहं विशिष्टः कविरिति प्रक्षेपककवेराशयः । तेऽपि सन्तु यथा विसदृशनीरलहरीलेह्यस्वराणां (2) गायनानामोडवप्रयोगेनातोद्यलास्यानु विधानशालिनि रक्तिनिर्भरगीतलास्यमानमनसां प्रविष्टानामातोचकराणां ततसुषिरघनावनद्धात्मनि वादित्रे मन्दमुन्मुद्रितनिनादे नायिकानां नानाविधदृष्टिवृष्टिभिराप्यायितविदग्धचेतसां ललितहस्तकचारीचमत्कारेणाश्चितभ्रमितनमितकुञ्चितस्तिमितक्षिप्तक्षुभितावयवानां कुचकलशनितम्बडम्बरान्तरतरङ्गितोद्वलितललितवलिभागानां क्वचिद्विस्रब्धमिव क्वचित्त्वरितत्वरितमिव क्वचिद्भीतभीतमिव क्वचित्सुप्तसुप्तमिव क्वचिदुनिद्रितोनिद्रितमिव सान्द्रमुखरागमनोभवमनोज्ञं नृत्यन्तीनामन्तरेऽटचेटकास्तथानिर्वचनीयचमत्काराणाममरुकश्लोकानां मध्ये छन्दोमात्रमेलनेन हासोत्पादकतया च प्रक्षेपकश्लोकाः । ते यथा 'मन्दं मुद्रितपांसवः परिपतज्झांकारिझञ्झामरु द्वेगव्यस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः । कर्मव्यग्रकुटुम्बिनीकुचभरस्वेदच्छिदः प्रावृषः प्रारम्भे मदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥' अमी झञ्झानिलाः शिरोर्तिमुत्पादयन्ति विदुषाम् ॥ 'इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥' जीवितहारिणी शाकिनी॥ 'सालक्तकं शतदलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनपुरं च । क्षिप्तं भृशं कुपितया मृगनेत्रया यत्सौभाग्यचिह्नमिव मूनि पदं विरेजे ।' इयं सा भद्रदेशिनां सर्वस्वं सौभाग्यस्योपरिमन्जरी (2)॥ 'श्रुत्वाकस्मानिशीथे नवधनरसितं विश्वथाङ्गं पतन्त्या शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटापातशीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥' वियोगमर्म निगूढं दुःखमेवोपवर्णयन्ति । तद्विपर्ययादियं मिथ्यामरणनिःसृताया योषितो मांधारिका (१)॥ १. इतः प्रभृति प्रक्षिप्तं श्लोकपञ्चकं शृङ्गारदीपिकायामपि नास्ति. For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् 'पीतो यतः प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥' नूनं शाकंभरीखनिकर्मकर एष महानुभावः कविः ॥ नूयमियं श्लोककन्था कुताकिकच्छान्दसवैयाकरणैर्मथिता । यदुक्तमुपाध्यायेन - 'संपकैंण कुतर्काणां छन्दोव्याकरणस्पृशाम् । उड्डीयते रसः खण्डैः पावकेनेव पारदः' ॥ बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोsस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि । तत्किं रोदिषि गद्देन वचसा कस्याग्रतो रुद्यते नवेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५७ ॥ कश्चिन्मानिनीमनुनेतुं संबोधयति - हे मुग्धे । नायिका वक्ति — हे नाथ । नायक:विमुञ्च मानिनि रुषम् । नायिका - रोषान्मया किं कृतम् । अपि तु न किमपि । कोऽभिप्रायः - न ते किंचिद्विरुद्धमुक्तम् । न च ताडनादिकं कृतम् । नापि तत्र गच्छन्वारितोऽसि । स्वशरीरेण दुरवस्थामनुभवन्ती तिष्ठामि । नायक:- - रोषात्त्वया किमपि न कृतमित्येव न परमस्मासु खेदः कृतः । नायिका - खेदस्तस्योपपद्यते योऽपराधी भ वति । भवांस्तु न मेऽपराध्यति । विपरीतलक्षणया विधिरत्र । सर्वेऽपराधा मयि । मया यत्त्वमुपेक्षितस्तेनैवमुच्छृङ्खलो जातः । नायकः - उक्तेरभिप्रायमजानन्निव, तल्कि रोदिषि गद्गदेन वचसा । नायिका - कस्याग्रतो रुद्यते । त्वमन्यासक्तो न मे कष्टं जानासि । त्वां च विहाय ममान्या गतिर्नास्तीति भावः । नायकः — पूर्ववत् । नन्वेतन्ममाग्रतो रुद्यते । नायिका - का तवास्मि । उदासीनो मयि सांप्रतं भवानित्यर्थः । नायकः -वलभा त्वं मे । नायिका – नास्मीत्यतो रुद्यते । कोऽर्थः - दयिता नास्मि योषित्संबन्धः पुनरस्त्येव । प्रश्नोत्तरमलंकारः । न तु वक्रोक्तिः । शब्दश्लेषकाक्वोरभावात् । यत्कचि• दर्थान्तरमत्र प्रतीयते तद्व्यङ्गयमेव । वक्रोक्तेरुदाहरणं चैतत् - 'किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वदनुमानत एव सत्यमित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥' 'गुरुपरतन्त्रतया बत दूरतरं देशमुयतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥' धीराधीरा मध्या नायिका । 'न मेऽपराध्यति भवान्सर्वेऽपराधा मयि' इत्यनेन धैर्यम् ।' चापल्यरहिता धैर्य हद्वृत्तिरविकत्थना' ॥ श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्रुम्बत्यस्मिन्वदनविनतिः किं कृता किं न दृष्टः । १. शाकंभरी राजपूताना देशान्तर्वती 'सांभर' इति प्रसिद्धो लवणाकरः. For Private and Personal Use Only ४७ Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥ ५८॥ यथा यथा मौग्ध्यमपगतं तथा तथा प्रियसंगमबाहुल्येनोपलब्धे प्रेम्णि आस्वादाभिज्ञा संवृत्ता सती इत्थममुना प्रकारेण तरुणी पश्चात्तापं बिभर्ति। किं कुर्वती । इति स्वमेव नववधूचेष्टितं चिन्तयन्ती । इति किम् । मया मन्दभाग्यया किमिति न प्राणेश्वरः कण्ठे आलिङ्गितः । तस्मिन्परिरब्धुमुद्यते मया भुजाभ्यां निजमुरः किं पिहितमित्यर्थः । अस्मिश्चुम्बति सति वदनविनतिः किमिति मया कृता । प्रतिचुम्बनं किमिति नारब्धमित्यर्थः । किमिति न दृष्टः । सततं नीरङ्गीलम्बनव्यग्रया सम्यकदाचिदपि स्फारीकृतलो. चनया नावलोकित इत्यर्थः । नोक्तः कस्मात् । तस्मिन्सविलासमालपति सति प्रत्युत्तरं किं न दत्तम् । अवनतवदनया स्थितमेवेत्यर्थः । तारुण्ये संगमसुखमनुभवन्ती मौग्ध्येन तदाहं वञ्चितेति चिन्तयतीति भावः ॥ काचिदपमानितानुनया पश्चात्तापयुक्ता यदि त्वं तेन विना स्थातुं न शक्नोषि तत्किमिति मानं करोषीति सख्या निर्भत्सिता तां प्रत्याहश्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्ग समन्ता दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । तस्मिन्नागत्य कण्ठपहनिकटपदस्थायिनि प्राणनाथे भन्ना मानस्य चिन्ता भवति मयि पुनर्वञमय्यां कदाचित् ॥१९॥ नाहं सर्वदैव मानं करोमि किंत्वत्यन्तकठिनायां मयि निन्द्या मानचिन्ता कदाचिदुत्पद्यते । क्व सति। तस्मिन्प्राणेश्वर प्रसादनतात्पर्येणागत्य कपोलचुम्बनप्रत्यासन्नस्थानस्थायिन्यपि । कोऽर्थः । यस्मिन्नवसरे चुम्बनं युज्यते तस्मिन्नाहं मानं करोमि । तस्मिन्प्रा. णेश्वरे कीदृशे । यस्य नामाप्याकर्ण्य व्यक्तसान्द्ररोमाञ्चं ममाझं सर्वतो जायते । यस्य वकचन्द्रमसमवलोक्येदं वपुरुद्भिन्नस्वेदबिन्दुजालतया चन्द्रकान्तमणिसदृशं भवति । द. यितमुखं दृष्ट्वा स्विद्यामीति पर्यवसितत्वाद्भिन्नकर्टकता नाशङ्कनीया । अयमपि श्लोकः प्रक्षेपक इति संभाव्यते । परं विरुद्धो नास्ति । एवंविधा अन्येऽप्यन्तरान्तरा द्वित्राः। सन्ति । तेऽप्यविरुद्धा इति व्याख्यास्यन्ते ॥ लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्रे कजलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ ६० ॥ १. नोरङ्गी मुखाच्छादनवस्त्रम्. २. 'यत्समन्तात्' इति शृङ्गारदीपिका. ३. 'मम' इति शृङ्गारदीपिका. ४. 'कथंचित्' इति शृङ्गारदीपिका . For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ४९ ईर्ष्याविकारसंवरणार्थमाघ्राणच्छद्मना मुखप्रत्यासन्नीकृतस्य लीलातामरसस्योदरे कुरङ्गलोचनायाः श्वासा निःसृत्य निःसृत्य प्रौढापमानजन्मनाभिषङ्गेणान्तनिरुद्धतया समाप्ति गताः । किं कृत्वा । अन्याङ्गनाया मण्डनं तदिदं प्रेयसः संक्रान्तमत एव कोपविधायि प्रभाते चिरं दृष्ट्वा । इदं किम् । ललाटपट्टमभितस्तत्प्रसादनपादपतनानुमापकं लाक्षालक्ष्म । तदालिङ्गनशंसिनी केयूरमुद्रा कण्ठे। तल्लोचनचुम्बनसूचको वक्र कज्जलकालिमा। अपरश्च तत्कृतचुम्बनपिशुनो नयनयोस्ताम्बूलरागः । अहेतुरलंकारः । यदुक्तम्'बलवति विकारहेतौ सत्यपि नैवोपगच्छति विकारम् । यस्मिन्नर्थः स्थैर्यान्मन्तव्योऽसावहेतुरिति ।।' 'ज्ञातेऽन्यासङ्गविकृते खण्डितेा कषायिता' इत्यनेन खण्डिता नायिका । धृष्टो नायकः । यच्चेदं लीलातामरसं तदवश्यं विरहसंतापप्रतिविधानोपनतसखीजनोपनीतशीतोपचारीयम् । काचित्प्राणपरित्यागकृताध्यवसाया देशान्तरं प्रस्थितं प्रियं प्रत्याहलोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियै रंन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् । पुण्याहं व्रज मङ्गलं सुदिवसः प्रातः प्रयातस्य ते यत्स्नेहोचितमीहितं प्रिय मया तन्निर्गतः श्रोष्यसि ॥ ६१॥ अन्यास्ताः प्राणलोभेन कृपणाः स्त्रियः न त्वहम् । याः प्रस्थितं प्राणेश्वरं निवारयन्ति । कैः। झलज्झलायमानर्बाष्पाम्बुभिः । न केवलं तैः । किं तु यदि त्वं यास्यास तदा तेऽमुकस्य शपथ इति सशपथैश्चरणप्रणामैः । किं विशिष्टैः। अनुरागव्यञ्जकत्वात्मियैः । अहं पुनरेवं वच्मि-हे प्रिय, पुण्याहं कल्याणं सुदिनं ते तस्माद्यदृच्छया गच्छ । यच्च तव प्रोषितस्य स्नेहोचितं मया किंचिदीप्सितमस्ति तनिश्चयेन गतः सन्क. स्मादपि पथिकादाकर्णयिष्यसि । अथ च यद्यहमिदानीमेव प्राणान्मुञ्चामि तदा तवामलं स्यात् । अत एव पुण्याहमित्यादि । पराभवोऽलंकारः । आशीर्वचनाक्षेपश्च । यथा-'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भयाद्यत्र गतो भवान् ॥ इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्मना । स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते ॥ काचिनिजसख्याः स्वयं स्थापितप्रतिष्ठासु भर्तृकायाः स्वरूपं सिद्धसमीहितत्वेनान्यासामग्रे कथयति लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपिता नो वा पादयुगे स्वयं निपतितं तिष्ठेति नोक्तं वचः । १. 'वान्तैः' इति शृङ्गारदीपिका. २. 'अन्यैः' इति शृङ्गारदीपिका. ३. 'धन्याह' शत शृङ्गारदीपिका. ४. 'सदिवसं' इति शृङ्गारदीपिका. ५. "प्रियतम त्वं निर्गतः' इति शारदीपिका. ६. 'स्थितं' इति शृङ्गारदीपिका. ७. 'मुहुः' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५० www.kobatirth.org काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठस्तन्व्या बाप्पजलौघकल्पितनदीपूरेण रुद्धः प्रियः ॥ ६२ ॥ सा वस्त्राश्ञ्चले प्रियस्य न लग्ना । तथा द्वारदेशेऽर्गलवद्धजलता न न्यस्ता । नापि चरणयुगले लुठितम्। तिष्ठेति वचनमपि नोक्तम् । कथं तर्हि निवारित इत्याह-काल इत्यादि । यस्मिन्देशान्तरादागत्य मिथुनानि मिलन्ति तस्मिन्मेघमालामलीमसे समये निर्दयः साहसिको गन्तुं प्रवृत्तः सन्कृशाङ्गया केवलमश्रुकल्लोलकल्पितनदीपूरेण वलभो निषिद्धः । अत्राश्रुनदीपूरेणेति वाक्येन रूपकेण मेघकार्यमश्रुभिरेव कृतमित्यनेन मेघाक्षेपेण परिपुष्टो विप्रलम्भः । औपम्यभेदः । पूर्वालंकारोऽप्यत्र प्रतीयते । यथा- 'काले' जलदकुलाकुलदशदिशि पूर्वे वियोगिनीवदनम् । गलदविरलसलिलभरं पश्चादुपजायते गगनम् ॥ काचित्परपुरुषानुरागिणी कस्याश्चिजरत्कुलटायाः पुरतः प्रतीकारप्रत्याशया स्वदुःखं निवेदयति आस्तां विश्वसनं सखीसु विदिताभिप्रायसारे जने तत्राप्यर्पयितुं दृशं सुरचितां शक्नोमि न ब्रीडया । लोकोऽप्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६३ ॥ हे मातः, कं शरणं व्रजामि । अपि तु न कमपि । तस्माद्धृदय एव केवलं संतापहेतुत्वेनानुराग एवानलो जरां प्राप्तः । तत्फलं किमपि नासादितमित्यर्थः । कथमित्याहआस्तामित्यादि । प्रियं जनं प्रति प्रेषणतदानयनादिकार्यसाधके सखीजने विश्वसनं तावदास्ताम् । ताः कस्याप्यग्रे स्फुटित्वा कथयेयुरित्यर्थः । तहि स्वयं दूतीविलसितं किमिति नारभ्यते इत्याह- इयं मयि सर्वात्मनानुरक्तेति विदितोऽभिप्रायसारो येन त. स्मिञ्जने दृष्टिमप्यारोपयितुं लज्जया न शक्नोमि । का कथा गमनानयनादिकार्यस्य । तर्हि लज्जां परित्यज्य तदवलोकन रसास्वादेनैव किमिति कालो नातिवाह्यत इत्याहएष स्वपरगृहसंचारी लोकोऽमुक्यमुकेन सह वर्तत इत्यादि परोपहासकुशलोऽप्यतिशयेन सूक्ष्मेङ्गितज्ञोऽपि । अपिशब्दः समुच्चये । सूक्ष्मेङ्गितज्ञोऽपि यदि मनसि धृत्वा तिष्ठति तदा कः शङ्कते । असौ परोपहासचतुरोऽपीति तात्पर्यम् । असत्समुच्चयोऽलंकारः । यथा राज्ञः श्रीहर्षदेवस्य—‘दुलहजणाणुराओ लज्जा गरुई परव्यसो अप्पा । पिअसहि विसमं पेम्मं मरणं सरणं णवर एकम् ॥' १. 'सललितां' इति शृङ्गारदीपिका. २. 'दुर्लभजनानुरागो लजा गुर्वी परवश आत्मा । प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम् ॥' इति च्छाया. For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ५१ त्वमस्माकमप्रे परं मानस्य वार्तामेव करोषि तत्संनिधी पुनरन्यैव संपयस इति स खीभिः काचिदुपालब्धा स्वदोषं परिहरति न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि किं यान्ति नेत्रतां किमु कर्णताम् ॥ ६४ ॥ अहं किं करोमि समस्तान्येव ममाङ्गानि लोचनतां गच्छन्ति श्रवणतामथवेति न जाने । क्व सति । प्रिये संमुखायाते सति । न परं तथा, अभिमतालापं जल्पति च । तमभिमुखमागच्छन्तमुत्कण्ठया पश्यन्त्यास्तत्पेशलालापानाकर्णयन्त्याश्च ममेन्द्रियान्तराणि स्वव्यापारं परिहरन्तीति तात्पर्यम् । अङ्गशब्दोऽत्रेन्द्रियार्थः । अन्तरङ्गमित्यत्रापि दृष्टत्वात् । उत्तरसंशययथासंख्यान्यलंकाराः । ललितं नाम सात्त्विको नायकगुणः । यदुक्तम्- 'शोभा विलासो माधुर्ये गाम्भीर्ये स्थैर्यतेजसी । ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ यथा - 'लावण्यमन्मथविलासविजृम्भितेन स्वाभाविकेन सुकुमारमनोहरेण । किं वा ममैव सखि योऽपि ममोपदेष्टा तस्यैव किं न विषमं विदधीत ता. पम् ॥' भावप्रगल्भा नायिका ॥ अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् । स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं नु सुन्दरि ॥ ६९ ॥ इति प्रिये ष्टच्छति मानविह्वला कथंचिदन्तर्धृतबाष्पगद्गदम् । न किंचिदित्येव जगाद यद्वधूः कियन्न तेनैव तयास्य वर्णितम् ॥ ६६ ॥ (युग्मम्) अन्तर्निरुद्धबाष्पगद्गदं यथा भवत्येवं वधूर्न किंचिदेवोत्तरं यदवोचत्तेनैव तयास्य प्रियस्य कियन्न स्वदुःखं वर्णितम् । अपि तु भूयः । किंविशिष्टा सती जगाद, बहुदिवसोपचितेन मानेन विह्वला । क्व सति । सापराधे दयिते इति पर्यनुयुञ्जाने सति । इति किम् । इयं दुर्बला शरीरलता गुरुतरचिन्ताया दुर्वहत्वेन यद्वैचित्यं तेन निश्चला निरीक्ष्यमाणैव सती किमिति भयमुत्पादयति । काश्यॆन निश्चेष्टतया चामङ्गलचिन्तां प्रणिददातीत्यर्थः । विशेषेण दृश्यमानैव साध्वसं करोति दूरात्पुनराकृत्यविसंवादेन पूर्ववत्स्वस्थावस्थैव प्रतिभासते । यत आभरण निरादरतया स्वभावरामणोयका । तथा च प्राग्भारे(?)णानतिस्तन्मात्रं भूषणं यस्याः सा तथा । 'अङ्गानामतितानवं कुत इदं' इत्यादिश्लोकवदत्रापि संविधानम् || काचिहूती प्रणयापमानितं नायकं संबोधयति— विरहविषमः कामो वामस्तनूकुरुते तनुं दिवसगणनादेशश्चायं व्यपेतघृणो यमः । १. 'कामं तनुं कुरुते' इति शृङ्गारदीपिका. २. 'दक्षः स्वैरं' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे किसलयमृदु वेदेवं कथं प्रमदाजनः ॥ ६७॥ हे नाथ, विषमेषुर्युवयोस्तनुं दुर्बलां करोति । किंविशिष्टः । प्रतिकूलः । कीदृशः सन्प्रतिकूलः । विरहे विषमः । संभोगे पुनरनुकूल एवेत्यर्थः । शरीरकार्योपन्यासेनैवं प्रतिदिनोत्पद्यमानक्षीणतया कतिपयदिवसैः संभोगयोग्यतैव युवयोरस्तमेष्यतीत्यर्थः । अयमिति प्रत्यक्षनिर्देशेन पुर इव वर्तमानो निरनुक्रोशोऽन्तकश्च दिवसगणनादक्षः एवंविधानपि दिवसांल्लेखयति । संभोगे विप्रलम्भे चायःक्षयस्तावदस्त्येव । तस्माद्विप्रलम्भे मृत्युवरमुतस्वित्संभोग इति यमशब्दस्योपयोगः । देहदौर्बल्येन संभोगपरिहारेण च मान एव व्याधिस्तस्य त्वमपि वशगः । अद्य यावन्मयैवं ज्ञातमासीद्यत्सैव मानव्याधेशगेत्यपिशब्दार्थः । तस्माद्विचिन्तय, एवमुत्पातपरम्परया प्रमदाजनः कथं जीवति । प्रस्तुते एकस्यामपि प्रमदायां प्रमदाजन इति जात्यपेक्षया लोकोक्तिः । अथवा प्रकृष्टो मदो रिम्सालक्षणो मान्मथो विकारो यस्याः सा प्रमदा । सैव विधेयत्वेन जनः । अथवा नायकस्यानेकनायिकास्पृहणीयत्वेन प्रमदासमूह एवास्तु । किंविशिष्टः । किसलयमृदुः । विरहदुरवस्थां सोढुमक्षम इत्यर्थः । अथ च किसलयकोमलं प्रमदाजनमालिङ्गय किमिति चरितार्थो न भवसीति । असत्समुच्चयोऽलंकारः ॥ कश्चित्प्रियामानोपशान्ति कस्यचिद्विसम्भसंभावितस्याग्रे कथयति पादासक्ते सुचिरमिह ते वामता कैव मुग्धे । मन्दारम्भे प्रणयिनि जने कोऽपराधोपरोधः । इत्थं तस्याः परिजनकथाकोमले कोपवेगे। बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ६८॥ तस्यास्तदनन्तरं त्वरितमेव बाष्पोत्पीडैन विलम्बितं न च स्पन्नम् । क्व सति । कोपवेगे सति । किं विशिष्टे । सखीप्रायपरिजनस्येत्थं संबोधकथया शिथिले न तु दृढे । कोपवेगस्य कोमलतयाश्रुभिन स्थितम् । कोपसत्तया च न प्रवृत्तम् । स्तम्भितैरेव जातः । मित्यर्थः । इत्यं कथमित्याह-हे अचेतने, इह प्रणयिनि जने सुचिरं चरणलग्ने कैव तव वामता । प्रातिकल्यं न युज्यत इत्यर्थः । अथ च येन स्वेदरोमाञ्चप्रभृतयो भवन्ति तस्मिन्नपि दयितशरीरस्पर्श तव कठिनायाश्चेतसि मानस्तिष्ठतीति भावः । ननु सापराधोऽयं वामतां कथं त्यजामीत्याह-अस्मिन्मन्दारम्भे । कोऽर्थः-दोषोद्धोषणे कृतेऽपि। निरुत्तरतया नम्रमुखे यथाकथंचित्प्रसादमेवाकाङ्कति सति । तस्मादपराधस्य क उपरोधः।। १. नैव कान्ते' इति शृङ्गारदीपिका. २. 'कोपने कोऽपराधः' इति शृङ्गारदीपिका. ३. 'परिजनगिरा कोपवेगे प्रशान्ते' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । प्रणयिजनस्यैवोपरोधोऽस्त्विति भावः । विरोधोऽलंकारः । यदुक्तम् — ' यस्मिन्द्रव्यादीनां परस्परं सर्वथा विरुद्धानाम् । एकत्रावस्थानं समकालं भवति स विरोधः' ॥ काचिन्मनस्विनी दयितमुपालभते तथाभूदस्माकं प्रथममे विभक्ता तनुरियं ततो न त्वं प्रेयानहमपि हताशा प्रियतमा । ५३ इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं मैयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥ ६९ ॥ आदौ तावदियमस्माकं तनुस्तथानिर्वचनीयेन प्रकारेणाविभक्ता जाता । संयोगाभावः कदाचिदपि नासीदित्यर्थः । अत एवैक्यप्रतिपादकस्तनुरियमिति प्रयोगः, न तु तनू इमे इति । आवयोरिति वाच्ये प्रणयबहुमानादस्माकमिति । तदनन्तरं न त्वं प्रेयान् अहमपि हताशा न प्रियतमेति ज्ञानमविभागेऽपि भेदमाचष्टे । तदतिशायी तादात्म्येन स्त्री. पुरुषभेदोऽपि निवृत्त इत्यर्थः । इदानीं गवामिव त्वमस्माकं पतिः वयमप्यग्निसाक्षितया परिणीता इति यावज्जीवं भर्तव्या इति कलत्रम् । न तु प्रेमगन्धोऽपि । तदेतस्मादपि किमन्यत् । केवलं त्वयि पराङ्मुखे येन गजोन्मूलितकोमलमृणालनालन्यायेन विशुष्कास्तेन तेषां वज्रकर्कशानां प्राणानामिदं नाथकलत्रव्यवस्थारूपं फलमासादितम् । अथ च कारणानुरूपं कार्यमिति कर्कशानां फलमपि कर्कशमेवेत्यर्थः । मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि । संख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ ७० ॥ काचिदमुना प्रकारेण सख्या प्रतिबोधिता सती प्रतिवचनमाह - नीचैः शंस । यस्मात्त्वय्युच्चैरुच्चरन्त्यां मम हृदये कृतास्पदः प्राणेश्वरः श्रोष्यति । तवोपरि क्रुद्धो भविष्यतीति भावः । अथ च प्राणनाथोऽयं यस्य हस्ते स जयतीति(?) यद्यहमनेन सह विप्रतिपद्ये तदा मे प्राणान्गृहीत्वा तिष्ठतीति । अत एव भीतानना । संकुचितत्वेन भीतमिवाननं यस्याः सा तथा । इयं च मुग्धा तदेकताने हृदि प्राणेश्वरं साक्षादेव स्थितं मन्यते । एवं कथं प्रतिबोधितेत्याह हे मुग्धे, बाल्यदुर्ललितेनैव सर्वः कालोऽतिवाहितुं कस्मादारभ्यते त्वया । केवलं मुग्धेत्याशङ्कनीया भविष्यसि । तस्मादीर्ष्याकारणं विनापि मानं धारय । माने धृते कथमवस्थातुं प्रभविष्यामीत्याह — धृतिमवस्थापय । न ― For Private and Personal Use Only १. 'पुरा' इति शृङ्गारदीपिका. २. 'अविछि(भि)न्ना' इति शृङ्गारदीपिका. ३. 'ततोऽनु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः' इति शृङ्गारदीपिका. ४. 'हतानां' इति शृङ्गारदीपिका. ५.‘अखिलं कालं' इति शृङ्गारदीपिका. ६. 'सख्येदं' इति शृङ्गारदीपिका. Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ काव्यमाला । न्वयं विना कारणैः स्थातुं न शक्नोमि तेन सह बाह्याकारेण (?) धृतिं बध्नामीत्याह-प्रे. यसि विषये प्राञ्जलतां परित्यज । मोहायितं नाम नाट्यालंकारः । 'मोहायितुं तु तद्भा. वभावनेष्टकथादिषु' । यथा पद्मगुप्तस्य - 'चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि । वोडार्धवलितं चक्रे मुखेन्दुमवशैव सा' ॥ । एष प्रक्षेपक श्लोकोऽपि व्याख्यायते । काचिज्जरदभिसारिका नवनिष्पन्नस्वैरिणीं प्राहक्व प्रस्थितासि करभोरु घने निशीथे प्राणाधिको वसति यत्र जेनः प्रियो मे । एकाकिनी बैत कथं न विभेषि बाले नन्वस्ति पुङ्खितशरो मदनः सहायः ॥ ७१ ॥ मणिबन्धकनिष्ठयोरन्तरं करभः । तदाकारावूरू यस्यास्तस्याः । यथापूर्व पीवरतया ऊर्वोर्गौरवेण कथं गन्तुं शक्ष्यसीत्याशयेन संबोधनं हे करभोरु, निर्भरेऽर्धरात्रे क्क चलितासि । यथा मरणाध्यवसिता यदृच्छया मनोगतमाचष्टे तथा मन्मथोन्मत्ततया दुष्कराभिसारप्रवृत्ता सती उत्तरमाह - जीवितादप्यधिको यत्र स्थाने मम वल्लभो वसति । किं भूतः । जनो विधेयः । इत्युभयानुरागः । पूर्वा पुनः पृच्छति - हे बाले, असहाया केन प्रकारेण न विभेषि । बतशब्दः खेदार्थो बालाशब्दवत् । सोल्लुण्ठं स्वैरिण्युत्तरं ब्रूतेननु विद्यते सज्जितसायको मदनः सहायः । शरप्रहारोन्मुखमन्मथहेतुको ऽयमारम्भ इत्यर्थः । सहायो हि गन्तव्यं स्थानं प्रापयति । ननु सहायो यं सहायिनमनुगच्छति न तु तमेव प्रहर्तुं शरं पुङ्खयति तत्कथमत्र मदनः सहायः । सत्यम् । ईदृशमेवात्र साहाय्यं यत्पुङ्खितशरसज्जितमेव सहायी गन्तव्यं स्थानं प्राप्यते । यथा हन्यमानस्वार्थस्यैव दर्शनेन्द्रियस्य तमसि नीलिमोपलम्भः । अथवा नन्वस्ति पुङ्खितशरो मदनः सहाय इति सोलुण्ठम् । अहं किं करोमि यद्यद्विषमशरः कारयति तदेव करोमि । यथा विपरीतलक्षणायाम् ‘उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदीदृशमेव सदा सखे सुखितमास्व ततः शरदां शतम् ॥' प्रश्नोत्तरमलंकारः ॥ लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः कैश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुम्मलिताननेन्दु ददती वायुं स्थिता तत्र सा भ्रान्त्या धूर्ततयथवा नतिमृते तेनानिशं चुम्बिता ॥ ७२ ॥ कश्चित्कामुकोऽन्याङ्गनास्वच्छन्ददष्टौष्ठो नायिकया क्रोडातामरसेन ताडित: सॅल्लो. १. ‘प्राणेश्वरः इति शृङ्गारदीपिका. २. 'मनः प्रियः' इति शृङ्गारदीपिका. ३. 'वद'. इति शृङ्गारदीपिका. ४. ‘प्रेयान्' इति शृङ्गारदीपिका. ५. 'कान्ता कुङ्मलिताननेन' इति शृङ्गारदीपिका. ६. ‘तदा' इति शृङ्गारदीपिका. ७. 'तेनाभवत्' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ५५ चने मुद्रयित्वा स्थितः । किं विशिष्ट इव। कैतवेन कुशेशयकिंजल्क दूषितदृष्टिरिव । अथ सा मुग्धा नायमधरक्षतप्रकाशापहवार्थमभिनयं करोति किं तु मत्प्रहारदूषितदृष्टित्वेन व्यथित एवेति या भ्रान्तिस्तया । अथवाभिनयं जानाति परं प्रेम्णः कुटिलस्वरूपत्वालुण्ठनार्थे या धूर्तता तया मुकुलिताननमृगाङ्कं यथा भवत्येवं वदनमारुतं निश्चला सती तस्य लोचनयोर्ददती तेन प्रणामोपायं विनैव सिद्धसमीहितेन वारंवारं चुम्बिता । भ्रान्तिपक्षे प्रियतमस्यापराधग्रहणं तावद्दूरत एवास्ताम्, प्रत्युत प्रहरणोकृतपङ्कजकिंजल्ककल्कदूषितदृष्टिरिति स्वयमपराधिनी जाता। अतः कुम्मलितानने त्यनेनानुल्बणमुखमारु तवितरणप्रयत्नः । अन्यथा चुम्बनार्थमभियुक्ता कोपेन पराङ्मुखी भवति । मौग्ध्यमप्यतस्मिंस्तदिति प्रत्यय एव । न तु वयोमौग्ध्यम् । धूर्ततयेत्यनुपपन्नत्वात् । धूर्ततापेक्षया च स्थितेत्यत्र प्रियप्रत्यासत्तिजनितेन त(हर्षातिरेकेणापराधविस्मरणं हेतुः । अत एव प्रणत्युपायं विनैव तेन चुम्बिता । अत्र केचिद्वायुपदेन जुगुप्साश्लीलमिति दोषमाचक्षते । तर्यादि कीरदेशे कुङ्मलिताननेन्दुपदसंनिधावपि कमलपरिमलोद्गारिणो मुखमारुतस्य प्रतीतिर्न भवति भवति चालीलप्रतीतिस्तदा वाग्देवतादेश इति व्यवसितव्य एवासौ । किं तु ह्लादैकमयीवरलब्धप्रसादौ काव्यप्रकाशकारी प्रायेण दोषदृष्टी येनैवंविधेष्वपि परमार्थसहृदयानन्दमन्त्रे(प्रदे)षु सरसकविसंदर्भेषु दोषमेव साक्षादकुरुताम् । उक्तं च भट्टवार्तिके - 'न चाप्यतीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तच्चित्तानां प्रकाशते ॥' इति ॥ काचित्सखी को निर्धूतभर्तृकाया नायिकायाः पश्चात्तापमपरस्याः प्रतिपादयति-स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं न सखि चपलप्रेम्णा कार्य पुनर्दयितेन मे । इति सरभसं मानावेशादुदीर्य वचस्तया रमणपदवी सारङ्गाक्ष्या निरन्तरमीक्षिता ॥ ७३ ॥ 1 तथा कुरङ्गलोचनया गतवतो रमणस्य पदवी निरन्तरं निर्वणिता । किं कृत्वा । इत्यमुना प्रकारेणापर्यालोचिताध्यवसितत्वेन सरभसं यथा भवत्येवं मानावेशवशाद्वचनमुचार्य । इति कथम् । हे सखि, संततचिन्ताप्राग्भारण हृदयं मे विदीर्यताम् । स्वेच्छया मन्मथस्तनुं दुर्बलां करोतु । क्षणिकप्रेम्णा प्रियेण न किंचित्प्रयोजनम् । धृत्यौत्सुक्ये व्यभिचारिभावौ ॥ 1 काचित्कान्तैकान्तवृत्तान्तं सख्याः कथयतिगौढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं शय्या संप्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि । १. 'कोपाटोपात्' इति शृङ्गारदीपिका. २. 'सशङ्कितं' इति शृङ्गारदीपिका. ३. 'पश्याश्लेष' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५६ काव्यमाला । गाढौष्ठग्रहपूर्वमाकुलतया पादाग्रसंदंशकेनाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥ ७१ ॥ तेन धूर्तेन स्वच्छन्दमधरपीडनपूर्वकमनङ्गपर्याकुलतया चरणाप्रस्थाङ्गलियन्त्रेण म नितम्बसिचयं मोचयित्वा तत्कालयोग्यमात्मनो यत्समीहितं तत्प्रक्रान्तम् । अत्र संनिवेशवशेन पुरुषायितम् । तथा आत्मनो यदुचितं न तु मम । तेनाग्राम्यत्वं लजा च । किं कृत्वा । इति हृदये मामारोप्य । इति किम्। हे सुकुमाराङ्ग, इदानीमिदं तल्पं कर्कशम् । कस्मात् । निर्भरमालिङ्गनोद्घटितचन्दनरजःपुञ्जप्रसञ्जनात् । इयं च नायिका प्रीढत्वेन मनस्विनी पूर्वमासीत् । अन्यथा सात्त्विकस्वेदेन चन्दनरजो नोपपद्यते ॥ कथमपि कृतप्रत्याख्याने प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम् । असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं Acharya Shri Kailassagarsuri Gyanmandir विगलितदृशा शून्ये गेहे समुच्छ्रसितं पुनः ॥ ७९ ॥ सापराधे प्रिये कथमपि प्रणामशपथादिभिः कृतनिराकरणे सति । अथ तस्यैव गोत्रस्खलितावसरे सुबहुदिवसमानात्मकविरहदुर्बलतया यथाकथंचित्संगमलौल्येन संप्रतिपित्सया परिजनव्यापारादिकं व्याजं विधायाश्रुतं नाटितम् । अथ चासहनवयस्या कर्णेऽन्याङ्गनानामप्राप्तिः सैव प्रमादस्तेन पर्याकुलं यथा भवत्येवं बाष्पायितदृष्टया शून्ये वेश्मनि पुनः समुच्छ्रसितम् । निवृत्ते रुदिते यदि प्राणी रुदितहेतुभूतां दुरवस्थामनुस्मरति तदोत्कम्पितहृदयः पुनरुच्छ्वसिति । संगमलोभेन सैव नायिका परगोत्रस्खलनं सहते न तु सखी । तस्मात्तयैवं चिन्तितं यद्येतद्गोत्रस्खलनमसहनसखीकर्णे प्रमादात्पतितं भवति तदाहमपि लघ्वी कथं जीवामि । अतिबहुमानसंभावनायाः ससंभ्रममिति विशेषणम् ॥ आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया 1 विच्छिन्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति । दत्त्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ७६ ॥ कयाचिदध्वगवध्वा सकलं दिवसं यावद्दृष्टिः प्रसरति तावदन्तरे दयितस्यागमनपद्धतिमुद्रीविकया वीक्ष्य प्राणनिरपेक्षतारम्भकं निर्वेदं प्राप्तया वासरान्ते विरलसंचारेषु वर्त्मसु तमसि सम्यगुत्कटं प्रसरति सति निष्प्रत्याशया सशुचा गृहं प्रति पदमेकं क्षित्वा १. ‘ग्रहपीडनाकुलतया' इति शृङ्गारदीपिका. २. 'कृतप्रत्यापत्ती' इति शृङ्गारदीपिका. ३. ‘प्राप्तिं विशङ्कय' इति शृङ्गारदीपिका. ४. 'विवलितदृशा' इति शृङ्गारदीपिका. ५. 'विश्रान्तेषु' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । १७ स्मित्रैवान्तरे कदाचिदागतो मा भूदिति प्रत्याशया औत्सुक्याद्वेगविवर्तितकंधरं यथा भवत्येवं पुनः पृष्ठतो विलोकितमिति तदेकतानेन प्रीतिप्रकर्षः । पथिष्विति बहुवचनेन सर्वमार्गेषु प्रियस्यागमनपदको निर्वर्णितेत्यर्थः । पान्थस्त्रियेत्येकवचनेन विरहहृद्रोगभेषजात्मकप्रबोधनवाक्यप्रस्तावनादिभिराश्वासदायिनी वयस्यापि तस्या नास्तीति भावः । तं देवं प्रवासात्मको विप्रलम्भोऽप्येष करुणप्राय एवेति मर्मणि स्पृशति । परमप्रेतनश्लोकस्यौचित्येन रसिकाः संजीवन्ति । 'दूरदेशान्तरस्थे तु कार्यतः प्रोषिते प्रिये' इति प्रोषितभर्तृका नायिका ॥ आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनं वैदग्ध्यापगमाज्जडे परिजने दीर्घा कथां कुर्वति । दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वङ्गया रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥ ७७ ॥ कृशाङ्गथा रत्यर्थे कातरेण मनसा विशिष्टया प्रदीपो विध्यापितः (निर्वापितः) । किं कृत्वा । द्रुतपदं प्रदीपसमीपमेत्य चीनदेशोद्भवं वस्त्रं विशेषेणास्फाल्य । एतदेव किं कृत्वा । इति मिथ्याभिधाय । इति किम् । दष्टास्मीति । वृश्चिकादिना हि दष्टो विश्वङ्खलवस्त्राञ्चलचरणविन्यासप्रक्रियोद्धान्तों दीपविध्यापन भाण्डपातनादिकमवश्यं करोति । क सति। दयिते मनोरथशतैरायाते सति । पुनरपि किं कृत्वा दीपः शमितः । उभयत्र संबन्धान्मनोरथशतैरेवमेवमुपालम्भपरिरम्भचुम्बनादिकं करिष्यामिति स्वरूपैर्महता कष्टेन दिनमतिवाह्य । ननु व्याजेन दीपमुपशमय्य किमिति रतिमाकाङ्क्षतीत्याह —— वैदग्ध्येत्यादि । इदानीं कीदृशोऽवसरः । कीदृशमत्रत्यानां चेतः । किमस्माभिः कर्तव्यमित्यादिवैदग्ध्याभावान्मूर्खे परिजने गृहदेशान्तरकथां दीर्घा कुर्वति । इयं च कथा संभोगान्तरायत्वाद्विद्विष्टा । यदुक्तम् —'या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी । परहिंसात्मिका या च न तामवगिरेद्बुधः । नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया ॥ कथां गोष्ठीषु कथयल्लोके बहुमतो भवेत् । लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया । गोष्ठया समाचरलोके नृणां बहुमतो भवेत् ॥' कविद्विरही प्रियतमामनुध्यायति - आलम्ब्याङ्गणवाटिकापरिसरे चूतद्रुमे मञ्जरीं सर्पत्सान्द्रपरागलम्पटर्रेटङ्गङ्गाङ्गनाशोभिनीम् । मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ७८ ॥ १. 'गत्वा वासगृहे जडे' इति शृङ्गारदीपिका. २. 'चेलाचलम्' इति शृङ्गारदीपिका. ३. 'वापिका' इति शृङ्गारदीपिका. ४. 'रणत्' इति शृङ्गारदीपिका. ८ For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५८ काव्यमाला । मन्येऽवश्यमस्मिन्समये मुग्धा रोदिति । किंविशिष्टा । स्फुरणानुमेयो यः कण्ठध्वानस्तस्य निरोधस्तेन कम्पितौ कुचौ येन तादृशः श्वासोद्गमो यस्याः सा तथोक्ता । किं कृत्वा । निजां कृशां शरीरलतामुपरितनांशुकशकलेन पिधाय । पुनः किं कृत्वा । रसालशाखिनि मञ्जरीमालम्ब्य । किंविशिष्टाम् । सर्पत्सान्द्रपरागो येषु । ते च रजस्यसंभवायोग्यतया मधुनि मधुलम्पटा मधुकराः प्रसरन्ति । घने कुसुमरजसि परिमललोभेन लम्पटा रटन्तो ये भृङ्गास्तेषामङ्गनाश्च ताभिः शोभत इत्येवंशीला ताम् । चूतद्रुम एक क इत्याह-यत्र मया सह क्रीडितं यत्रैव च पिष्टविकाराशन (?) द्यूतपणव्यतिकरे जयपराजयव्यवस्थया विलसितं तस्या अङ्गणवाटिकायाः प्रदेशे । स्वामित्यनेन विशेषध्वनिना संप्रति तस्यास्तनुरेवेत्यर्थः । प्राणानां गतकल्पत्वात् । यः शाखादिकमवलम्ब्य तिष्ठति तस्याङ्गमुद्धाटितं भवति । तथापि विकलतयोत्तरीयशकलेनाच्छाद्य न तु सावधानतया समस्तेन । चूतद्रुमालम्बनपूर्वकं संस्थानमपि प्राणजिहासया दुष्करप्रायम् । मुकुलिताम्रदर्शनस्यापि विरहिणामशक्यत्वात् । यथा मालतीमाधवे - 'धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भस्य वायोः । दावप्रेम्णा सरसबिसिनीपत्रमात्रान्तरायस्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥' अङ्गनवाटिका च शृङ्गारिणां भवत्येव । यदुक्तम्- 'तत्र भवनमासन्नोदकं वृक्षवाटिकासहितं द्विवासगृहं कारयेत् || [अथ च मूलगृहद्वारि सहकारारोपणं सुप्रसिद्धम् । यदुक्तम्'किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः । अस्मिन्मनागपि विकास विकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः ॥ इति] ॥ काचित्प्रोषितभर्तृकात्मानमधिक्षिपति Acharya Shri Kailassagarsuri Gyanmandir यास्यामीति समुद्यतस्य गदितं विस्रब्धमाकर्णितं गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि । तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥ ७९ ॥ हे सख्यः, स्वस्थावस्थया तिष्ठत मद्विषये नाधृतिः कार्या । यतोऽहं जीविताकाङ्क्षिणी च्छद्मना रोदिमि । यदि च प्राणनिरपेक्षा भवामि रोदिम्येव न । किं च, दयितस्य प्रवासार्थमुद्यतस्य यास्यामीति वचनं मया विस्रब्धं यथा भवत्येवमाकणितम् । गच्छन्सन्मदपेक्षया वारंवारमसौ व्यावृत्य तिष्ठन्नपि दूरं यावदुपेतः । तदैव किल जीवितत्यागावसर आसीत् । तस्मादनेकसङ्ग्रामनिर्व्यूढास्मि । इदानीं पुनर्यस्मिन्नेव भवने तेन सह विलसितं तस्मिन्नेषा वज्रमयी आस्थितास्मि । त एते चण्डालचरिताः प्राणा अपि दृढा एव । अत्र चायमुक्तेरुल्लेखः–पूर्वार्धे यद्यहं यास्यामीति गदिते पर्याकुलीभवामि तदा च गच्छन्तं निवारयामि । यदि जीविताकाङ्क्षिणी भवामि । तस्माद्विस्रब्धवेष्टा गमनोपेक्षिणी च किं न भवामि इति मे पूर्व निश्चितमासीत् । इदानीं कस्मादपि दुर्दै For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ५९ वादेवंविधा कर्कशा संवृत्तास्मि । गदितमित्यत्र भावे क्तः । अत्राविवक्षितवाच्यस्य ध्वनेर्भेदोऽत्यन्ततिरस्कृतवाच्यो नाम । यथादिकवेर्वाल्मीके:- 'निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते' इति ॥ काचित्सखी नायिकां भीषयित्वा मानग्रहापस्मारान्मोचयतिअनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले संप्रति कृतः । समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ ८० ॥ धूर्तविदग्धानां कुटिलमनोज्ञेषु चेष्टितचमत्कारेषु प्रविश्य क्रीडितुं न जानासीति है सरले, तस्मिन्नेवावसरे तव दयितोऽन्याङ्गनानवरङ्गस्नेहवागुरायां पतित इत्यकाले संप्रति त्वया किमिति मानः कृतः । किं कृत्वा । प्रेम्णः परिणतिमनालोच्य । दिनानि पश्च यथा तथास्तु | अक्षिणी निमील्य समयोऽतिवाहनीयः । पानीयमवश्यं पानीयवर्त्मन्यागमिव्यतीत्यादि किमपि न संप्रधारितमित्यर्थः । न केवलमिदं कृत्वा, एवंविधोपदेशपेशलानस्मादृशान्सुहृदोऽप्यनादृत्य । इदानीं पुनः किं कर्तुं याति । यतः प्रलयदहनस्येवोद्भासुराः शिखा येषां तेऽमी स्वहस्तेनाङ्गारास्त्वया सम्यगाकृष्टाः । उपाख्यानमेतत् । अथ च देहदाहात्मक उपन्यासः । तस्मादिदानीं पुनः पर्याप्तमरण्यरुदितैः । लोकोक्तिरियम् । अथ चारण्यप्रायं सर्वमिदानीं ते शून्यमासीत् ॥ कश्चिन्मनस्विनीमनुनयति कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति बाप्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ ८१ ॥ हे निरनुरोधे, पादोपान्तेऽपि लुठतोऽपि मे भणितं न करोषि मन्युस्ते वल्लभो जातः । किंचिदुपेक्षालेशेनान्तर्गर्भितेयमुक्तिः । अत एव न तु वयमित्यौदासीन्यव्यञ्जकं बहुवचनम् । कथं मन्युरेव प्रियकार्य करोतीत्याह- कपोल इत्यादि । विषादानुभावतथा यस्मिन्सततं मुखं न्यस्तं तस्य करतलस्य निरोधेन कपोले पत्राली प्रोञ्छिता । स्वेनाननुभूतत्वात् । सुधास्वादुरयमित्यनिर्वचनीय ओष्ठरसो निःश्वासैः शोषितः । अन्तर्निरुद्धतया कण्ठे सक्तो बाष्पः स्तनतटं कम्पयति । अपह्नुतिरलंकारः ।। शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैनिद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । १. 'तरले' इति शृङ्गारदीपिका. २. 'स्तनतटी' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ८२ ॥ बीड़ानम्रवदना बाला वल्लभेन स्मयमानेन चिरं चुम्बिता । किं कृत्वा लजानम्रमुखी । पत्युः कपोलस्थलीं जातपुलकामिति हेतोर्जाप्रदवस्थाशंसिनीं विलोक्य । कपोलावलोकनमेव किं कृत्वा कृतम् । निद्राव्याजमुपागतस्य मुखं परिचुम्ब्य । कथम् । विस्रब्धम् । विस्रब्धचुम्बनमेव किं कृत्वा कृतम् । सुचिरं निर्वर्ण्य । मुग्धा ह्यन्यद्रा लजासाध्वसाभ्यां पराङ्मुखीकृताः क्व दयितमुखनिर्वर्णनचुम्बनरसमनुभवन्ति । सुचिरं निर्वर्णनमेव किं कृत्वा कृतम् । शयनात्स्तोकमुत्थाय । कथम् । प्रबोधशङ्कया शनैः । स्तोकोत्थानमेव किं कृत्वा कृतम् । मा कदाचिदपि कोऽपि मां पश्येदिति शङ्कया शून्यमपि वासगृहं विशेषेण दृष्ट्वा । (अत्र भिन्नकर्तृकत्वशङ्का न कार्या । लज्जाक्रियापेक्षया समानकर्तृकत्वात् ।) नायिकायाश्च स्वाभिप्राय चुम्बनमेतत् । यदुक्तम् — 'सुप्तस्य मुखमालोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागोद्दीपनम्' इति । स्वाधीनपतिका मुग्धा नायिका ।। लोलकूलतया विपक्षदिगुपन्यासेऽवैधूतं शिर स्तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः । कोपात्ताम्रकपोलभित्तिनि मुखे दृष्टया गतः पादयो रुत्सृष्टो गुरुसंनिधावपि विधिर्द्वाभ्यां न कालोचितः ॥ ८३ ॥ श्वशुरप्राय गुरुजनसकाशेऽपि द्वाभ्यां चातुर्येण कोपप्रसादनात्मको विधिः समयोचितो न मुक्तः । कथं कथमित्याह — तत्र गत्वा आगतोऽसीति सूचकं स्पन्दितया भ्रूलतयान्यवनितागृहोद्देशोपक्षेपे नायिकया शिरोऽवधूतम् । नायकोऽपि शिरः कम्पनत्तान्तनिरीक्षणे विलक्षः स्थितः । किं विशिष्टः । नमस्या भवती यदेवमेव निरपराधस्य ममापराधमारोपयतीत्याशयेन कृतनमस्कारः । अथवा तस्यै दिशे मम नमस्कार एवेति भावः । न केवलं विलक्षः स्थितः नायिकाया मुखे इदानीं किं ते कितव कर्तुं शक्नोमि यद्येकान्ते लब्धो भवसि तदा शिक्षां ग्राहयामीति कोपात्ताम्रगण्डमण्डले मुखे सत्याभिनयॆन प्रणामं सूचयन्दृष्टया तत्पादयोः पतितः । अत्र कोपेन पुलकाद्यभावात्कपोले कर्कशत्वसाधारणधर्मो भित्तित्वेन रूपितः । दृष्टिश्वेयं लजितशङ्किता । यथा - ' -'fanfa दचितपक्ष्माग्रा प्रतितोर्ध्वपुटा भिया । त्रपाधोगततारा च शङ्किता दृष्टिरिष्यते ॥ काचित्सखीभिरुपदिष्टं मानं स्थापयितुमक्षमा ताः प्रत्याह जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं वक्रं स्वेदकणान्वितं न सहसा यावच्छठेनामुना | १. 'बालाभवच्चुम्बिता' इति शृङ्गारदीपिका. २. 'लोलभ्रूलतया' इति शृङ्गारदीपिका. ३. विधूतं' इति शृङ्गारदीपिका', ४. 'ईषत्ताम्रकपोलकान्तिनि मुखे दृष्टया नतः' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । दृष्टेनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे . तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥ ८४ ॥ तस्मात्कथयत केनोपायेनात्र संस्थानके मानः स्थैर्य नीयताम्, अपि तु न केनापि । कथंभूतः । निरूप्यमाणनिपुणः । निपुणं निरूप्यमाणो निरूप्यमाणनिपुणः । सुप्सुपेति समासः । पूर्वनिपातानियमः । यतो यन्मानात्मकविरहातिवाहनक्षममिति संभावितमासीत्तदद्य मे मनो दृष्टेनैव यावदमुना शठेन प्राणेश्वरेण सहसा लुण्ठितम् । किंविशिष्टेन । एतदसंगमे कथं जीविध्यामीति मे धृतितस्करेण । (यदि पुनः संनिधावुपविश्य प्रणामादिकमारभते तदा तस्य कथैव का । तच्चानेन कृतमेव न । कथं ज्ञायत इत्याह-उकण्ठा न जाता । कुचौ न कम्पिती । अङ्गं न पुलकितम् । मुखमपि स्वेदकणचितं न जातम् ।) संनिधावुपविश्य यदि प्रणामादिकमारभते तदा सर्वमेव जातप्रायं भवतीत्यर्थः । अहो नूतनोऽयं तस्करो यदृष्टिमात्र एव पदार्थमपहरतीत्याश्चर्यद्योतकं शठेनेति प्रीतिवचनमेव ॥ दृष्टः कातरनेत्रया चिरतरं बद्धाञ्जलिं याचितः पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः । इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ ८५ ॥ तदा प्रवसतो नायकस्य दयितया प्रथमं जीवितास्था मुक्ता तदनन्तरं दयितो मुक्तः । तदा कदा। यदेत्यादिकं सर्वममानयित्वा गन्तुमेव कितवः प्रवृत्तः। किंविशिष्टः । मुमूघुमपि वल्लभामुपेक्षत इति निघृणः । इत्यादिकं किमित्याह-स्थापनार्थ दैन्यव्यञ्जकत्वेन कातरचक्षुषा चिरतरमवलोकितः । पश्चादञ्जलिं बद्धा प्रार्थितः । अनन्तरं वस्त्राञ्चलेन विधृतः । चरमं गाढमुपगूढः । गन्तुं प्रवृत्तो न तु गत एवेति हेतोरेकानुरागो न शङ्कनीयः । कर्तृदीपकमलंकारः । यदक्तम्-'यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं भवति । तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेधा ॥' अतिशयभेदः पूर्व च । यदुक्तम्-'यत्रातिप्रबलतया विवक्ष्यते पूर्वमेव जन्यस्य । प्रादुर्भावः पश्चाजनकस्य तु तद्भः वत्पूर्वम् ॥' यथा-'दुर्लभजनमभिलषतामादौ दंदह्यते मनो यूनाम् । गुरुरनिवारप्रसरः पश्चात्कामानलो ज्वलति ॥ कश्चिद्वियोगी दयितादुरवस्थामनुस्मरति तप्ते महाविरहवह्निशिखावलीभि रापाण्डुरस्तनतटे हृदये प्रियायाः । १. 'पल्लवे च' इति शृङ्गारदीपिका. २. 'इत्याक्षिप्य समस्तमेवमघृणो' इति शृङ्गा रदीपिका. For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मन्मार्गवीक्षणनिवेशितदीनदृष्टे नूनं छमच्छमिति बाष्पकणाः पतन्ति ॥ ८६ ॥ नूनमहमे मन्ये-दयिताया हृदि च्छमच्छमित्यश्रुविपुषः पतन्ति । किंविशिटायाः । मदागमनपदवीगवेषणदत्तदीनदृष्टेः । किंविशिष्टे हृदये । महतीभिर्वियोगानलज्वालाभिस्तप्ते । पुन: कोदृशे । आपाण्डुरस्तनतटे। संतप्तवस्तुनिपतितं पयश्छमत्करोतीत्यनुकारः । रूपकमलंकारः । यदुक्तम्-'यत्र गुणानां साम्ये सत्युपमानोपमेययोर। भिधा । अविवक्षितसामान्या कल्प्यत इति रूपकं ज्ञेयम् ॥' परं गृहीतमुक्तोऽलंकारः ।। काचित्सखी मानिनीवृत्तान्तमपरसख्याः कथयति चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः । प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रत्तोऽधुना । सवीडैरलसैनिरन्तरलुठद्वाष्पाकुलैरीक्षणैः । श्वासोत्कम्पिकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥८७|| तया प्रियतमो निवारितः । किंविशिष्टः सन् । गन्तुं प्रवृत्तः । यतः प्रत्याख्यानेन । परामखो निराकृत एव । किंविशिष्टः सन् । चरणानतः । केन विशिष्टः । विदितापराधत्वान्मौनेन । पुनरपि केन। चेतसा । कथंभूतेन । प्रसादं करिष्यति न वेति चिन्तयान्तःकरणशन्यत्वान्मोहेन च स्तिमितेन । विनिश्चलमिति भीरुत्वोक्तिः । कदा। अधुना ।। इदानीं यावत्प्रसादोपायांश्चकारेत्यर्थः । कया वारितः । जीविताशया । प्रत्याख्यानं ताव त्साहसेन कृतम् । गन्तुं प्रवृत्ते तस्मिन्प्राणान्धारयितुमशक्यत्वादनन्यगतिकत्वं जातमित्यर्थः । अद्याहमेव त्वया विना जीवितुं न शक्नोमि, तदा किमेवं लघ्वी भवामीत्यभिधानात् । श्वासेनोत्कम्पितौ कुचौ यत्र तत्तथोक्तम् । अथ च यद्यहं जीवामि तदा प्रियसगमं प्राप्नोमीति जीवने कृता आशा जीवाशा। किं कृत्वा वारितः । सुचिरं निरीक्ष्य ।। केः। ईक्षणः । किंविशिष्टैः। अवष्टम्भत्यागव्यञ्जकतया सव्रीडैः । दैन्यद्योतकतयालसः ।। अपमानातिशयानिरन्तरलुठद्वाष्पाकुलैः ॥ कश्चिद्देशान्तरादागतो मनोरथप्राप्तप्रियतमासमागमं प्रणिधत्तेम्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं भूयस्तत्क्षणजातकान्ति रंभसप्राप्ते मयि प्रोषिते । १. मोहनिबध्यमानमनसा' इति शृङ्गारदीपिका. २. 'प्रत्याख्यात' इति र दीपिका. ३. 'प्रवृत्तः शठः' इति शृङ्गारदीपिका. ४. 'तन्वङ्गया स पुनस्तया तरलया तत्रान्तरे वारितः इति शृङ्गारदीपिका. ५. 'विलास' इति शृङ्गारदीपिका. ६. लसं' इति शृङ्गारदीपिका. ७. 'मधुरं प्राप्ते' इति शृङ्गारदीपिका. चा For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । साटोपं रतिकलिकालसरसं रम्यं किमप्यादरा छत्पीतं सुतनोमया वैदनकं वक्तुं न तत्पार्यते ॥ ८८॥ यन्मया सुतनोदनकमधरग्रहचमत्कारिचुम्बनपूर्वकत्वेन यत्नात्पीतं तदनिर्वचनीयत्वादुक्तं न शक्यते। तस्य विशेषणान्याह-आन्तरेण मर्मस्पृशा दुःखेन कुसुममिव म्लानम् । प्रत्यवतुषारांशुवत्कान्तिविगलितत्वेन पाण्डु । असौस्थेनाहारस्यारोचकत्वात्सुतनोरिति पदेन] शरीरकार्यात्कृशम्। किंविशिष्टं सदुक्तवक्ष्यमाणविशेषणयोग्यं जातमित्याह-वियोगविधुरम् । इदं विशेषणं हेतुत्वेन सालसं यावत्सर्वत्र संबध्यते । नहि वैधुर्यमेव केवलं वियोगहेतुकम् । म्लानत्वादीनामपि तनिमित्तत्वात् । प्रसाधनपरित्यागेन कर्तनादिरहितखाल्लम्बालकम् । अन्तःखेदेन सालसम् । अथ दर्शनात्मकसंभोगसमुचितं विशेषणमाह। चिरमनोरथप्राप्त्या पुनस्तत्कालोल्लसितकान्ति । क्व सति । मयि पथिकेऽकस्माद्रभसप्राप्ते सति । अथ चुम्बनसमयविशेषणमाह-त्वमद्य यावन्मां विहाय तत्र स्थित इत्याशयेन मानाद्भूभङ्गादिभिः साटोपम् । रतिक्रीडासमये आर्द्रमत एव किमपि रमणीयम् । सालसमित्यत्रालसपदं भावप्रधानम् । तेन सालस्यमित्यर्थः । मुग्धाया अल्पत्वेन मुखमप्यल्पं तेनाल्पार्थे कप्रत्ययेन वदनकम् । भयस्तत्क्षणजातकान्तीत्यनेन विलासः । 'ताकालिको विशेषस्तु विलासोऽङ्गक्रियादिषु' ॥ सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुरा वेषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः । इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं संभ्रमा त्पुंभावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥ ८९ ॥ कयाचिद्विपरीतरतिव्यतिकरे पूर्व पर्याकुलतया पुरुषभावस्त्यक्तस्तदनन्तरं वल्लभो मुक्तः । किं कृत्वा । तनुं ज्ञात्वा । मोहनसमये शरीरपरिज्ञानमेव नासीत्. का पुन: कथा स्त्रीपुरुषविषयविभागस्येति भावः । किंविशिष्टया । लजितया । क्व सति । इत्थं स्मृतरुपगमे । इत्थं कथम् । सैवाहं लजावती गृहलोकानां विदिता इदानीं प्रकृष्टमदा जाता । एतौ च तौ नपुरौ संभोगाभियोगेन शब्दायमानौ मयोच्छृङ्खलया लोकानां श्रुतिसंवादेन ज्ञापितौ। एषास्माकं स्त्रीणामक्रियैव । यतः सहजवीडैव धनं यस्य स तथोक्तः स्त्रीजनः । अतिशयभेदः पूर्वमलंकारः । 'निःसाध्वसत्वं प्रागल्भ्यं' इत्यनेन च प्रागल्भ्यं नाम नाट्यालंकारः॥ करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । १. 'केलिदत्तरभसं' इति शृङ्गारदीपिका. २. 'पीतं यत्' इति शृङ्गारदीपिका. ३. 'मुखमिदं तत्केन विस्मार्यते' इति शृङ्गारदीपिका. ४. 'विलम्बितमेखला' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६४ काव्यमाला । स्थगयति मुहुः पत्युत्रे विहस्य समाकुला सुरतविरतौ रेम्या तन्वी मुहुर्मुहुरीक्षते ॥ ९० ॥ संभोगावसाने क्षामाङ्गी रमणीया पति वारंवारमवलोकते । अत एव साकूतं विहस्य लजया संभ्रान्ता भर्तुर्नेत्रे भूयोभूयः समाच्छादयति । रम्यैव कथमित्याह—इतस्ततः पतिते वाससी पाणिपल्लवं भ्रमयित्वा परिधानार्थे मृगयति । प्रदोपविध्यापनार्थे सुरतसंमर्दत्रुटितधम्मिल्लकुसुममालाशेषं क्षिपति । प्रियनयनस्थगनं च घट्टितक चुम्बनेऽप्युक्तमस्ति मुग्धायाः । ‘ईषत्परिगृह्य मीलिताक्षी जिह्वाग्रेण घट्टयन्ती करेण तस्य नयने छादयतीति घट्टितकम्' । मन्मथाप्यायिता छाया सैव कान्तिरिति स्मृता' इत्यनेन कान्तिर्नाट्यालंकारः । यथा भट्टनारायणस्य – 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्या । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु' ॥ काचित्सखी मानिनीं भीषयित्वा नायकसंप्रतिपत्तौ प्रवेशयतिसन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते । आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथा Acharya Shri Kailassagarsuri Gyanmandir — 1 श्छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्याः पुनः ॥ ९१ ॥ सन्त्येवात्र गृहे गृहे यौवनोद्धताः स्त्रियः । ताः पृच्छ गत्वा । कदा। अधुना । विलम्बं मा कृथा इत्यर्थः । किं पृच्छामीत्याह--प्रेयांसः किं तथा प्रणमन्ति यथा तव प्रेयान्दासवत्प्रणमंश्च वर्तते । प्रेयांसो हि प्रणम्यन्ते । तस्मात् हे आत्मद्रोहिणि, दुर्जनैरनर्थमभिहितं कर्णेऽष्यनिशं मा कृथाः का पुनः कथा हृदये । कर्णेजपवचनौ प्रियोऽपमानितः सन्कदाचित्स्नेहमुत्सृजति । निःस्नेहे तस्मिन्सति किं भवतीत्याह - छिन्नस्नेहरसाः पुरुषाः पुनर्दुःखानुवर्त्या भवन्ति दुःखेनानुवर्तितुं शक्यन्ते । दुराराध्या इत्यर्थः ॥ काचिन्मानशिक्षणनिर्बन्धदुर्ललिताः सखीरुपालभते - निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तदोपेक्षितः For Private and Personal Use Only सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ९२ ॥ १. 'रम्यं तन्वी पुनः पुनरीक्षते' इति शृङ्गारदीपिका. २. 'दुर्जनप्रलपितं कर्णे भृशं' इति शृङ्गारदीपिका. ३. ‘दुःखानुवृत्त्या यतः' इति शृङ्गारदीपिका. ४. 'उन्मूल्यते' इति शृङ्गारदीपिका. ५. 'तथा' इति शृङ्गारदीपिका. Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ६५ 1 1 हे सख्यः, कं स्वार्थमनुसंधाय दयिते वयं मानं कारिताः । वयमिति बहुवचनेन सखीब्वौदासीन्यम् । अनर्थ एव को जात इत्याह — निःश्वासा इत्यादि । अनन्तदुःखसंबाधत्वेन संततमुल्लसन्तो निःश्वासवायवो मुखमुष्णतया तपन्ति । निराधारतया हृदयं निर्मूलमुन्मथ्यते । कर्मकर्तरि यक् । चिन्ताज्वरेण निद्रा नागच्छति । संतापशमनं चन्द्ररुचिरं प्रियमुखं न दृश्यते । तद्दर्शनमन्तरेण चक्षुषोः साश्रुत्वादहोरात्रं रुद्यते । सरस्त्याजिताया: कमलिन्या इवा मे शुष्यति । तदा पादपतितोऽपि युष्मद्भणितेन प्रेयानवगणितः । विषमालंकारः । यदुक्तम् —'यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम्' | काचिन्मानिनी पुण्यसामग्र्या मनोरथशतप्राप्त प्रियतमसंप्रतिपत्तिः पुनविप्रतिपत्तिविषये स्वगतेन शपथं करोति अद्यारभ्य यदि प्रिये पुनरहं मानस्य वान्यस्य वा गृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः । तेत्तेनैव विना शशाङ्कधंवलाः स्पष्टाट्टहासा निशा ऐको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥ ९३ ॥ यद्यहमद्यारभ्य मानस्यान्यस्य वापि परिचरणप्रसादादेर्नामापि गृह्णीयाम् । अस्तु तावत्करणम् । केन। मनसा । कीदृशेन । शठदुर्नयेन । कोऽर्थः । मिथ्यैवास्य दोषमारोपयामीति । तदा किं स्यादित्यत आह-संक्षेपत इत्यादि । संदिग्धमरणानेकप्रतिज्ञानां परिहारेण निःसंदेहमरणाध्यवसायतया संक्षेपतस्तेनैव प्रियेण विना सुधांशुधवला अत एव स्पष्टाट्टहासा इव यामिन्यो मे यान्तु । दुःखितस्य हि हसन्कोऽपि न प्रतिभासते । अत एव प्रावृट्काले समन्ततः: संनद्धमेघमालामलीमस एकोऽपि दिवो यायात् । एकसंख्याविशेषेण चन्द्रवत्यनेकरात्रिभ्योऽपि प्रावृदिवसस्यातिवा हयितुमशक्यत्वमुक्तम् ॥ काचित्सखी नूतनमानिनीमात्मप्रियदुर्नयावेदनेन बोधयति - इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु । पुरा येनैवं मे चिरमनुसृता चित्तपदवी स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥ ९४ ॥ हे सखि, कस्य परिचिताः पुरुषाः । अपि तु न कस्यापि । आत्मीया न भवन्तीत्यर्थः । अथातिनिर्बन्धमानेनोद्वेजितैस्तैः सह परिचयोऽपि दुर्लभः । यतः स एवान्यो १. 'नहि प्रिये पुनरहं मानस्य वा भाजनं गृह्णीयां विषरूपिणः शठमतेर्नामापि' इति शृङ्गारदीपिका. २. 'किं तेनैव' इति शृङ्गारदीपिका. ३. 'किरणस्पष्टा-' इति शृङ्गारदीपिका. ४. 'नैकोऽपि' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। जातः । एतेनातः प्राग्यैवाहं स एवासीदित्यर्थः । तस्मात्त्वमपि सागसि प्रिये खेदं मा कृथाः । स एव कः । येन पुरा मम चित्तपदवी चिरकालमेवमनुसृता । येन येन वर्मना मम चित्तं विलसितं तेन तेन पृष्ठतो लग्नः । सर्ववारानुवृत्तिपर आसीदित्यर्थः । एवं कथ. मित्याह-हे प्रियतम, इदं कृष्णम् । स आह–कृष्णम् । ननु श्वेतमिदम् । स आहअथ किम् । गमिष्यामः । स आह-यामः । नायिकाभविष्यदुक्तौ नायकस्य वर्तमानोक्त्यानुवृत्तेरतिशयः । आस्तां गमनेन । स आह—आस्ताम् ॥ काचिदन्तविलीनमाना स्वगतेन वितर्के संधारयतिचरणपतनं संख्यालापा मनोहरचाटवः कृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् । इति हि चपलो मानारम्भस्तथापि हि नोत्सहे हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥ ९५ ॥ इत्यमुना प्रकारेण नूनं गत्वर एव मानोपक्रमः । तथापि स्फुटमीjया न मानं त्यक्तुमुत्सहे । इतिशब्दस्यापि शब्दस्याग्रे च हिशब्दोमानारम्भचापल्यस्य मानत्यागानुत्साहस्य च निश्चयं गमयति । इति किम्। चरणपतनेत्यादि। प्रियस्य मच्चरणे पतनम् । तदनुरुद्धसखीनामालापाः । किंविशिष्टाः। मनोहराणि चाटूनि येषु ते तथोक्ताः । मदीयदुर्बलाङ्गस्य प्रियकृतं गाढालिङ्गनम् । बलात्कारेण समन्ताचुम्बनम् । कृशतरतनोरित्यस्य पदस्यायमभिप्रायः-मया तावन्मानः कृतो यावत्क्षीणेन्दलेखाशेषं मम शरीरमभूत् । ननु । यदि नोत्सहे तदा प्रियेण विनैव स्थास्यामीत्याह-अतिशयेन हृदयदयितः कान्तश्च तत्किमत्र प्रस्तावे करोमीति । चिन्ता व्यभिचारिभावः ॥ तन्वङ्गया गुरुसंनिधौ नयनयोर्यद्वारि संस्तम्भितं तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः । मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता श्वासायाससमाकुलालिसरणिव्याजेन धूमावली ॥ ९६ ॥ इयं बाल्य एव प्रियं विना स्थातुं न शक्नोतीति गुरुजनेन ज्ञास्य इति लजया तत्सनिधो नयनयोर्वारि स्तम्भितम् । तेनाभ्यन्तर एव व्यावृत्त्य गलितेन यो हृदये विरहा. द्भवः कामानल: सिक्तस्तस्य संस्तभ्यमानज्वालस्य ननमेषा वदनद्वारेण धूमवातर त्थिता । केन। सुगन्धिश्वासेन य उष्णताजनित आयासस्तेन समाकुलानामलीना या पद्धतिस्तद्व्याजेन । जलाभिषेकेण मन्दितार्चिषि वैश्वानरे हि धूमोद्गमः समुल्लसति ॥ १. 'सासालापाः' इति शृङ्गारदीपिका. २. 'इति बहुफलो' इति शृङ्गारदीपिका. ३. 'च' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । काचित्सखीभिर्मानं शिक्षितानध्यवसायगर्भ संदेहमाहभ्रूभेदो गुणितश्विरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया ६७ बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ ९७ ॥ मानस्वीकारे मया सामग्री प्रगुणीकृता सिद्धिः पुनर्देवाधीना । देवयोगान्माननिर्वाहो भवति न वेत्यर्थः । कथं परिकरो बद्ध इत्याह-- भ्रूभेद इत्यादि । सूत्रपाठप्राथमकल्पिकन्यायेन भ्रूभङ्गश्विरं गुणितः । लोचनयोः संकोचनमभ्यस्तम् । प्रयत्नेन स्मितं निवारयितुं शिक्षितम् । वाचंयमत्वेऽभियोगः कृतः । अकातरतां विधातुमपि कथंचिदेतच्चैत: स्थिरीकृतम् । एते प्रकारास्तस्मिन्दृष्टे निर्वाहं न गमिष्यन्तीत्यर्थः ॥ काचित्स्वैरिणी चिरमनोरथप्राप्तकामुकचौर्यरतं साधितसाध्यतया सख्याः कथयति — अहं तेनाहूता किमपि कथयामीति विजने समीपे चासीना सरसहृदयत्वादवहिता । ततः कर्णोपान्ते किमपि वदताघ्राय वदनं गृहीता धम्मिल्ले सखि स च मया गाढमधरे ॥ ९८ ॥ हे सखि, किमपि कथयामीति व्यपदेशेन विजने तेनाहमाहूता । अहं च सखि, साभिलाषहृदया तस्य प्रियतमस्य समीप आसीना । अथ च तेन श्रवणोपान्ते किंचिद्वदता पर्याकुलतया मन्मुखमाघ्रायापसरणशङ्कयाहं धम्मिल्ले गृहीता । न केवलमेवम्, स च मया गाढमधरे गृहीतः । किमपि कथयामीति विस्रम्भणम् । यदुक्तम् — 'विविक्ते च किंचिदस्ति कथयितव्यमित्यक्त्वा निर्वचने भावं तत्रोपलक्षयेत् ॥ देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि । उद्वीवश्चैरणार्धरुद्धवसुधः प्रोन्मृज्य सास्त्रे दृशौ तामाशां पथिकस्तथापि किमपि ध्यायन्पुनर्वीक्षते ॥ ९९ ॥ तथापि किमपि ध्यायन्पथिकस्तां दयितासंबद्धां दिशं वारंवारमवलोकयति । अथ वाशामिवाशाम् । किं कृत्वा । साश्रुणी नेत्रे पदार्थोपलम्भार्थ प्रकर्षात्प्रोञ्छय । किंविशिष्टः । दर्शनोत्कलिकयोत्कंधरः । पुनः कीदृशः । उन्नतो भवितुं पदार्थेनावष्टब्धभूमिः । For Private and Personal Use Only १. 'गृहीत्वा धम्मिल्लं मम सखि निपीतोऽधररसः' इति शृङ्गारदीपिका. २. 'चरणाय' इति शृङ्गारदीपिका. ३. 'तथैव' इति शृङ्गारदीपिका. ४. 'मुहु:' इति शृङ्गारदीपिका. Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६८ www.kobatirth.org काव्यमाला । Acharya Shri Kailassagarsuri Gyanmandir तथापि कथमित्याह - इति जानन्नपि । इति किम् । यत्नेनापि कान्ता नयनयोर्गोचरं न गच्छति । किंविशिष्टा । यतोऽन्तरिता । कैः । देशैः । न परं तैः । नदीनां पर्वतानां च शतैः । न केवलमेभिः, विपिनैश्च ॥ चक्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपाये रोगे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः । आस्तां दूंरेण तावत्सरभसदयितालिङ्गनानन्दलाभ स्तनेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं संतनोति ॥ १०० ॥ साभिलाषप्रियाश्लेषसंगमप्राप्तिस्तावद्दूरत एवास्तु । कस्तादृशः सुकृतराशिर्यस्यैवं संपद्यते । तन्मन्दिरोपान्तरथ्यासंचरणमप्यनिर्वचनीयं (अस्मिन्नपि निस्तरणोपाये कश्चित्परेङ्गितज्ञः प्रतिबन्धीभवतीत्यभिप्रायः । केन । मनसा । संस्तवे चिन्त्य - मानप्रातिवेश्मिकमैत्रीप्रभृत्युपाये । अनुरागे प्रकर्षे गते । दूतिकायाः सुतरां पुष्यवन्म... विकसति । अनुभवी वक्ता । 'यत्रासंभाव्यभावो वा' इति विषमभेदः ॥ ) तव प्रियः कथं रमत इति सखीभिः पृष्टा काचिदाह— कान्ते तल्पमुपागते विगलिता नीवी स्वयं बैन्धना नोज्ञे' ..... द्वासो विश्लथमेखलागुणघृतं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेद्मि सांप्रतमहं तस्याङ्गसङ्गे पुनः कोऽयं कास्मि रतं नुं वा कथमिति स्वल्पापि मे न स्मृतिः ॥ १०१ ॥ हे सखि, सांप्रतं तावदेतावदेवाहं जानामि । एतावत्किम् । कान्ते शय्यां प्राप्ते सति नितम्बसिचयबन्धनसंस्पर्शनिर्वृतिं सम्यग्विस्तारयति । स्पर्शमपि विनैव नीवीविसंसनं जातमिति सात्त्विकातिशयः । विश्टङ्गलमेखला तत्रावलम्बितमम्बरं नितम्बे मनाक्स्थितम् । तदङ्गस्पर्शे तु क एषः । का वाहम् । रतमाहोस्वित्केन प्रकारेण । कापि स्मृतिर्नास्तीत्यर्थः । अत एवोक्तम् — 'धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥' इति ॥ कश्चिद्वियोगी स्वगतं वितर्कयति - प्रासादे सा दिशि दिशि च सा ष्टष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य । १. 'चक्षुःप्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमाने' इति शृङ्गारदीपिका. २. 'याते रागे विवृद्धिं प्रविसरति गिरां विस्तरे' इति शृङ्गारदीपिका. ३. 'दूरे स' इति शृङ्गारदीपिका. ४. 'तत्क्षणात्तद्वासः श्लथ-' इति शृङ्गारदीपिका. ५. 'केवलं' इति शृङ्गा रदीपिका, ६. ‘कोऽसौ’ इति शृङ्गारदीपिका. ७. 'तु किं कथमपि' इति शृङ्गारदीपिका. For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ १०२॥ तद्विरहातुरस्य ममान्या कापि प्रकृतिर्नास्ति । तर्हि किमस्तीत्याह–प्रासादादिषु सैव । तस्मादहो आश्चर्यम् । सा सेति सकले जगति कोऽयमद्वैतवादः । आत्मनोऽप्यलेखितत्वेन तस्यां तादात्म्यम् । विशेषोऽलंकारः । यदुक्तम्-'यत्रैकमनेकस्मिन्नाधारे वस्तु विद्यमानतया । युगपदभिधीयतेऽसावत्रान्यः स्याद्विशेष इति ॥' यथा-'हृदये चक्षषि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं पादपतनेन ॥' पूर्वार्धे यावन्त एव साशब्दाः प्रयुक्तास्तावन्त एवोत्तरार्धेऽनूदिताः ॥ समाप्तेयं रसिकसंजीविनी टीका। कृतिर्महाराजाधिराजवीरचूडामणिश्रीमदर्जुनवर्मदेवस्य । समाप्तमिदं रसिकसंजीविनीटीकासमेतममरुशतकम् । १ परिशिष्टम् । वेमभूपालविरचितशृङ्गारदीपिकाख्यटीकायां केचन श्लोका अधिकाः सन्ति, तेऽत्र सटीकास्तत एवोद्भियन्ते । यथानायकोक्तिःनभसि जलदलक्ष्मी सास्रया वीक्ष्य दृष्ट्या प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथंचित् । मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं यदनु कृतवती सा तत्र वाचो निवृत्ताः ॥ १०३ ॥ नभस्याकाशे जलदलक्ष्मी मेघसामग्री सास्रया सबाष्पया दृष्टया दृशा वीक्ष्यावलोक्य 'हे कान्त हे प्रिय, प्रवससि यदि प्रवासं करोषि चेत्' इति कथंचित्कृच्छ्रेणार्ध सावशेषम् । वाक्यमिति शेषः । उक्त्वा मम पटमंशुकमवलम्ब्य गृहीत्वा धरित्रीं भुवं पालखन्ती कर्षन्ती अनु पश्चात्सा यत्कर्म कृतवती तत्र तस्मिन्कर्मणि वाच उक्तयो निवृत्ता व्यावृत्ता इति संबन्धः । यत्कृतवतीत्यत्र यच्छब्दवाच्यश्चिन्तानिःश्वासवैवर्ण्यबाष्पगद्गदिकादिभिरनभावस्त्वां विना क्षणमपि जीवितुमहं न शक्नोमीत्ययमर्थः प्रवससि यदोत्यस्य वाक्यस्य शेषत्वेनावगन्तव्यः । तत्र वाचो निवृत्ता इत्यनेन नायिकायाश्चिन्तानिःश्वासादीनामनुभावानां दशाविशेष: पश्यतां मनोगोचर एव न वाग्गोचर इत्ययमोंवगम्यते । दैन्यं नाम संचारिभावः। अत्र नायिका स्वीया मुग्धा च । नायकोऽनुकूलः। भविष्यत्प्रवासविप्रलम्भशृङ्गारः । तत्र नर्मस्फोटः । जातिरलंकारः। मालिनी वृत्तम् ॥ For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० काव्यमाला। कवेर्वाक्यम्स्मररसनदीपूरेणोढाः पुनर्गुरुसेतुभि यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ १०४ ॥ प्रियाः । 'पुमान्स्त्रिया' इत्येकशेषः । प्रियश्च प्रियाश्चेत्यर्थः । स्मररसनदीपूरेणोढा: स्मरेण कामेन कृतो रसो रागः स एव नदीपूरस्तेनोढा उद्धृताः । बलानीता इत्यर्थः । पुनभूयो गुरुसेतुभिर्गुरवो गुरुजनास्त एव सेतवः प्रवाहबन्धास्तैर्यद्यस्मात्कारणाद्विधृता अपि निवारिताश्च भवन्ति । तस्मादारात्समीपेऽपूर्णमनोरथा अपर्याप्तकामास्तिष्ठन्ति आसते। तदपि तथापि लिखितप्रख्यैश्चित्रसदृशैरङ्गैः शरीररुपलक्षिताः परस्परमन्योन्यमुन्मुखा अभिमुखाः सन्तो नयननलिनीनालानीतं नयनानि दर्शनान्येव नलिनीनालानि पद्मकाण्डानि तैरानीतमाहृतं रसं पिबन्ति आस्वादयन्तीति संबन्धः । अत्र स्मररसनदीपूरेणोढा इत्यनेनात्यन्ताभिलाषपरतन्त्रा इति गम्यते। लिखितप्रख्यैरङ्गैरित्यनेन स्तम्भ नाम सात्त्विकभावं गता इति गम्यते । अत्रौत्सुक्यं नाम संचारी भावः । संभोगशृङ्गारः। यथोक्तं दशरूपके–'अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोग उदाहृतः ॥' इति । अत्र चेष्टाकृतं संभोगेच्छारूपं शृङ्गारिनर्म जातिरलंकारः । हरिणीवृत्तम् ॥ नायकमानेतुं गत्वा समागतां लक्ष्यमाणसंभोगचिह्नां दूती नायिका प्राहनिःशेषच्युतचन्दनं स्तनतटं निम॒ष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे । वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥१०॥ स्तनतटं कुचतटं निःशेषच्युतचन्दनं नि:शेषं यथा भवति तथा च्युतं गलितं चन्दनं । यस्मात्तथोक्तम् । अधरो दशनच्छदो निदृष्टरागोऽपगतालक्तकोऽपगतताम्बूलरागो वा । नेत्रे दूरमत्यर्थमनञ्जने कजलरहिते। तन्वी तवेयं तनु: पुलकिता सरोमाञ्चा। मिथ्यावान दिन्यसत्यप्रलापिनि बान्धवजनस्य सुहृजनस्याज्ञातपीडागमे । अज्ञातोऽनवगतः पीडागमा दुःखप्राप्तिर्यया सा तथोक्ता तस्याः संवृद्धिः । अज्ञातबान्धवजनपीडागमे इत्यर्थः । हे दति संदेशहरे, अतोऽस्मात्प्रदेशाद्वापी दीर्घिकां स्नातुं जलावगाहनं कर्तुं गतासि यातासि तस्याधमस्य निकृष्टस्य नायकस्यान्तिकं पुनः समीपं तु न गतासीति संबन्धः । अत्र वापीस्नानचिह्नकथनव्याजेन संभोगचिवकथनान्नायकस्याधमत्वकथनाच्च तदन्तिका मेव रन्तुं गतासीत्ययमों व्यज्यते । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः ।। For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ७१ क्रोधप्रायं नर्म। समाधिरलंकारः । यथोक्तं काव्यादर्श–'युगपन्नैकधर्माणामभ्यासश्च मतो यथा' इति । शार्दूलविक्रीडितं वृत्तम् ॥ नायकोक्तिःआयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो भुग्नभूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति पुनः कोपप्रकारोऽपरः ॥ १०६ ॥ आयस्ता आयासं प्राप्ता । ईर्ष्याकोपेनेति शेषः । पुरेव पूर्वमिव वाससो वस्त्रस्य स्रेसने कलहं विवादं न कुरुते न विधत्ते । किं च केशग्रहे कचाकर्षणे पुरेव भुग्नभूभङ्गवती सती अतिखण्ड्यमानमत्यन्तं दश्यमानमधरं दन्तच्छदं न धत्ते न वहति । किं च हठालिङ्गने प्रसभाश्लेषे पुरेव वामा वक्रा न भवति । किं त्वङ्गानि गात्राणि स्वयमात्मनार्पयति प्रयच्छति । संप्रति पुनरिदानीं तु तन्व्या कान्तया एषोऽयमपरोऽन्यः कोपप्रकारो रोषभङ्गिः शिक्षितोऽभ्यस्त इति संबन्धः । अत्रावहित्थं नाम संचारी भावः । नायिका स्वीया धीरा प्रगल्भा च । नायकः शठः । ईर्ष्यामानकृतो विप्रलम्भशृङ्गारः। अत्र नर्मगर्भः । युक्तिरलंकारः । शार्दूलविक्रीडितम् ।। कवेर्वाक्यम् - क्वचित्ताम्बूलाक्तः क्वचिदगुरुपङ्काङ्कमलिनः क्वचिचूर्णोद्गारी क्वचिदपि च सालक्तकपदः । वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रिया नानावस्थं प्रथयति रतं प्रच्छदपटः ॥ १०७ ॥ क्वचिदेकत्र ताम्बूलाक्तस्ताम्बूलरसेन रञ्जितः । क्वचिदेकत्रागुरुपकाङ्कमलिनोऽगुरोः पङ्कस्तस्याङ्को लक्ष्म तेन मलिनो मलीमसः । क्वचिदेकत्र चूर्णोद्गारी चूर्णस्य कर्पूरादिक्षोदस्योद्गारो गलनं सोऽस्मिन्नस्तीति चर्णोद्गारी । 'अत इनिठनौ' इति मत्वर्थ इनिप्रत्ययः । क्वचिदपि च कुत्रापि सालक्तकपदोऽलक्तकेन लाक्षया सहितं सालक्तकं पदं पादमुद्रा यस्मिन्स तथोक्तः । वलीभङ्गाभोगैवल्य एव भङ्गास्तरङ्गास्तेषामाभोगो विस्तारस्तश्च । अलकपतितैरलकेभ्यः पतितान्यलकपतितानि तैः शीर्णकुसुमैः शीर्णानि विकाणानि च तानि कुसुमानि च शीर्णकुसुमानि तैश्चोपलक्षितः प्रच्छदपट आस्तरणपत्र स्त्रियः कान्ताया नानावस्थं बहुप्रकारावस्थानं रतं रमणं प्रथयति ख्यापयतीति संपन्धः । अत्र क्वचित्ताम्बलाक्त इत्यनेन मार्जारकरणं सूचितम् । यथोक्तं रतिरहस्येप्रसारित पाणिपादे शय्यास्प्रशि मखोरसि । उन्नतायां स्त्रियः कय्यां मार्जारकरणं म॥ इति । क्वचिदगुरुपङ्काङ्कमलिन इत्यनेन करिपदं नाम बन्धविशेषः सूच्यते । य For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ काव्यमाला। थोक्तम्-'भूगतस्तनभुजास्यमस्तकामुन्नतस्फिजमधोमुखी स्त्रियम् । कामति स्वकर. कृष्टमेहने वल्लभे करिपदं तदुच्यते ॥' इति । क्वचिचूर्णोद्गारीत्यनेन धेनुकं नाम करणं सूच्यते । यथोक्तम्-'न्यस्तहस्तयुगला भुवस्तले योषिदेति कटिरूढवल्लभा । अग्रतो यदि शनैरधोमुखी धेनुकं वृषवदुनते प्रिये ॥' इति । क्वचिदपि च सालक्तकपद इत्यनेन पुरुषायितं सूच्यते । तत्स्पष्टमेव । वलीभङ्गाभोगैरित्यनेनालकपतितैः शीर्णकुसुमैरित्यनेन च रत्युपमर्दातिशयः सूच्यते । जातिरलंकारः । शिखरिणीवृत्तम् ।। कवेर्वाक्यम्पुष्पोद्भेदमवाप्य केलिशयनाद्दूरस्थया चुम्बने कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते । आच्छाद्य स्मितपूर्णगण्डफलकं चेलाञ्चलेनाननं मन्दान्दोलितकुण्डलस्तबकया तन्व्यावधूतं शिरः ॥ १०८॥ पुष्पोद्भेदं रजःप्रादुर्भावमवाप्य प्राप्य केलिशयनादूरस्थया क्रीडातल्पं विहाय विप्रकृष्टया । ल्यब्लोपे पञ्चमी । स्फुरिताधरेण स्पन्दिताधरेण कान्तेन प्रियेण भ्रूसंज्ञया साधनेन निभृतं निगढं चुम्बने याचिते प्रार्थिते सति स्मितपूर्णगण्डफलकं मन्दहासभरितकपोलतलमाननं चेलाञ्चलेनांशुकपल्लवेनाच्छाद्य पिधाय मन्दान्दोलितकुण्डलस्तबकया मन्दं शनैरान्दोलिते आलोलिते कुण्डले कर्णवेष्टने एव स्तबको गुच्छौ यस्याः सा तथोक्ता तया तन्व्या कान्तया शिरोऽवधूतं तिर्यग्वक्रितमिति संबन्धः। शिरोऽवधूतमित्यनेन प्रतिषेधः सूचितः। औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मध्याप्रगल्भयोरन्यतरा स्वाधीनपतिका च । नायकोऽनकलः । संभोगशृङ्गारः । अत्र चेष्टाकृतं संभोगेच्छारूपं शृङ्गारिनर्म । सूक्ष्मोऽलंकारः । यथोक्तं काव्यादर्शे'इङ्गिताकारलक्ष्यार्थसौक्ष्म्यात्सूक्ष्म इति स्मृतः' इति । शार्दूलविक्रीडितम् ॥ नायिका नायकमुपालभतेशठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिप्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्त्वाचक्षे घृतमधुमयत्वबहुवचो विषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥ १०९ ॥ हे शठ धूर्त, अन्यस्या इतरनायिकायाः काञ्चीमणिरणितं मेखलारत्नशिञ्जितमाकण्याश्लिष्यन्नेवालिङ्गनेव सहसा शीघ्रं प्रशिथिलभुजग्रन्थिविश्लथबाहुबन्धनोऽभव आसीराित यत्तदेतच्छाठ्यं क्वाचक्षे कुत्र ब्रवीमि । यतो घतमधुमयत्वद्वहुवचोविषेण घृतमधुमय स. पि:क्षौद्ररूपं त्वद्वहुवचस्तव भरिवचनं घतमधुमयं च तत्त्वद्ववचश्च तदेव विष तना वर्णन्ती भ्राम्यन्ती में सखी किमपि न गणयति न विचारयति । न विश्वसितीत्यथः ।। For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अमरुशतकम् । ७३ वचनमिति शेषः । इति संबन्धः । अत्र नायकवचसां घृतमधुमयत्वकथनेन तदानीं हितत्वं पश्चादहितत्वं च गम्यते । यतो घृतं मधुमिश्रितं विपाके विषत्वमापद्यते । यथोक्तं वाग्भटे—'मधुसपिर्वसातैलपानीयानि द्विशस्त्रिशः । एकत्र वा समांशानि विरुध्यन्ते परस्परम् ।।' इति । तदेतत्क्काचक्षे इत्यनेन सखी त्वया वञ्चिता कस्याग्रतो मम दुःखं कथयामीति स्वनिर्वेदः सूचितः । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः । विप्रलम्भश्शृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः । शिखरिणीवृत्तम् ॥ दूती नायकमुपालभते Acharya Shri Kailassagarsuri Gyanmandir • अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुष्वपिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः । अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते विस्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ ११० ॥ अच्छिन्नं संततं नयनाम्बु अश्रु बन्धुषु कृतमर्पितम् । चिन्ता विचारो गुरुषु जनन्यादिष्वपिता न्यस्ता । दैन्यं दीनत्वं परिजनेऽशेषतः सर्वस्मिन्परिचारकवर्गे । सप्तम्यर्थे तसिल् । दत्तं निहितम् । तापः संज्वरः सखीषु वयस्यास्वाहितो निक्षिप्तः । एवमनेन प्रकारेण तथा विप्रयोगजनितं विरहोत्पादितं दुःखं विभक्तं विभागं प्रापितम् । सा यतः श्वासैः श्वसितैः परमत्यर्थ खिद्यते खिन्ना भवति । तस्मादद्यास्मिन्दिवसे श्वः परस्मिन्दिवसे वा परनिर्वृतिमत्यन्तसौख्यं भजति प्राप्नोति । अतो विखन्धो निश्चिन्तो भवेति संबन्धः । परनिर्वृतिं भजतीत्यनेन मरणं सूच्यते । विस्रब्धो भवेत्यनेनोपालम्भो गम्यते । अत्र मूर्च्छा नाम दशाविशेषः । नायिका परकीया कन्या च । अयोगविप्रलम्भश्शृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ पूर्व कृतपरिचयेन नायकेन पश्चात्परित्यक्ता नायिका स्ववाटिकायां यदृच्छागतं प्रियं दृष्ट्वा तमुपालभते रोहन्तौ प्रथमं ममोरसि तव प्राप्तौ विवृद्धि स्तनौ संल्लापास्तव वाक्यभङ्गिमिलनान्मौग्ध्यं परं त्याजिताः । धात्रीकण्ठमपास्य बाहुलतिके कण्ठे तवासञ्जिते निर्दाक्षिण्य करोमि किं नु विशिखाप्येषा न पन्थास्तव ॥ १११ ॥ प्रथमं ममोरसि रोहन्तावुद्भवन्तौ स्तनौ तवोरसि विवृद्धिं प्राप्तौ गतौ । मम संल्लापाः संभाषणानि तव वाक्यभङ्गिमिलनाद्वचनरीतिमिश्रणात्परमत्यर्थे मौग्ध्यं मूढतां त्याजिताः । मम बाहुलतिके धात्रीकण्ठमुपमातृकण्ठमपास्य विहाय तव कण्ठे आसञ्जिते आसङ्गं प्रापिते । हे निर्दाक्षिण्य अज्ञातपरचेतोनुवर्तन, एषा विशिखापि इयं रथ्यापि तव पन्था मार्गो न भवति । एवं सति किं नु करोमि किं कर्तव्यम् । नु पृच्छायाम् । भवन्तं १० For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ काव्यमाला। किमुपालभे इत्यर्थः । इति संबन्धः । अत्र नायिका साधारणा । सोपालम्भवचनं नर्म । आक्षेपालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ कवेर्वाक्यम्पराची कोपेन स्फुटकपटमुद्रामुकुलिता प्रविश्याङ्गेनाङ्गं प्रणयिनि परीरम्भचतुरे । शनैनीवीबन्धं स्पृशति सभयव्याकुलकरं _ विधत्ते संकोचग्लपितमवलग्नं वरतनुः ॥ ११२ ॥ कोपेन प्रणयकोपेन पराची पराङ्मुखी । स्फुटकपटनिद्रामुकुलिता। स्फुटं प्रव्यक्ता । तथैव भासमानेत्यर्थः । कपटेन कृता निद्रा तया मुकुलिता निमीलिताक्षी सती वरतनुस्तन्वी अङ्गेन गात्रेणाङ्ग स्वस्य गात्रं प्रविश्यासाद्य परीरम्भचतुरे आलिङ्गनदक्षे प्रणयिनि प्रिये नीवीबन्धं वस्त्रग्रन्थि सभयव्याकुलकरं सभयो भयसहितो व्याकुलस्तरल: करो यस्मिन्कर्मणि तत्तथोक्तं शनैर्मन्दं स्पृशति सत्यवलग्नं मध्यं संकोचग्लपितमम्बराकर्षणकर्शितं विधत्ते करोतीति संबन्धः । अत्र कपटनिद्रयावलमसंकोचेन च नायिकाया विरहासहिष्णुत्वं व्यज्यते । औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकल: संभोगशृङ्गारः। कैशीकीवृत्तेरङ्ग नर्म। युक्तिरलंकारः । शिखरिणी वृत्तम् ॥ नायकमानेतुं प्रेषिताया लक्ष्यमाणसंभोगचिह्नाया दूत्या नायिकायाश्च प्रश्नोत्तररूपा वाक्यमालास्विन्नं केन मुखं दिवाकरकरैस्ते रागिणी लोचने रोषात्तद्वचनोदिताद्विललिता नीलालका वायुना । भ्रष्टं कुङ्कुममुत्तरीयकषणाक्लान्तासि गत्यागतै रुक्तं तत्सकलं किमत्र वद हे दूति क्षतस्याधरे ॥ ११३ ॥ हे दूति, तव मुखं केन कारणेन स्विन्नं सस्वेदं जातम् । अयं नायिकायाः प्रश्नः । दिवाकरकरैः स्वित्रमिति दूत्या उत्तरमक्तम् । ते तव लोचने दृशौ केन कारणेन रा. गिणी रक्ते । अयं नायिकाया: प्रश्नः । तद्वचनोदितात्तस्य धूर्तस्य वचनं वाक्यं तस्मादुदितादुद्गताद्रोषादक्ते इत्युत्तरम् । नीलालकाः कृष्णकुन्तलाः केन विलुलिता व्याकुलिताः । अयं प्रश्नः । वायुना विलुलिता इत्युत्तरम् । कुङ्कम काश्मीर केन भ्रष्ट विगलितम् । अयं प्रश्न: । उत्तरीयकषणात्संव्यानघर्षणाष्टम् । इत्युत्तरम् । केन क्लान्तासि तान्ता भवसि । अयं प्रश्नः । गत्यागतैर्गमनागमनैः क्लान्तास्मि । इत्युत्तरम् । हे दूति, सकलं त्वया यदुक्तं तत्सर्व युक्तमुपपन्नम् । अधरे क्षतस्य व्रणस्य किं कारणमत्रास्मिता न्प्रश्ने वद ब्रूहि । उत्तरमिति शेषः । इति संबन्धः । अत्र वदेत्यनेन त्वया वैदग्ध्यात्त For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । सर्व संभोगचिह्नमपहृतमधरक्षतं कथमपहुयेतेत्ययमर्थो गम्यते । नायिका स्वीया प्रगमा च । नायकः शठः । विप्रलम्भशृङ्गारः । वाक्योत्तरमलंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ अत्यन्तापराधिनि प्रिये समागते सति कुपिताया नायिकाया आकारगोपनप्रकार कविराह नान्तः प्रवेशमरुणद्विमुखी न चासी दाचष्ट रोषपरुषाणि न चाक्षराणि । सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् ॥ ११४ ॥ सा नायिका नायकस्यान्तः प्रवेशं स्वगृहान्तः प्रवेशं नारुणन निवारयति स्म। किं च विमुखी पराङ्मखी नासीत् । किं च रोषपरुषाणि कोपकर्कशान्यक्षराणि वचनानि नाचष्ट नाभाषत । किं तु सरलपक्ष्मभिः सरलानि ऋजनि पक्ष्माण्यक्षिरोमाणि येषु ते तथोक्तास्तैरक्षिपातैः संदर्शनैः कान्तं प्रियं जननिर्विशेषं सर्वजनसामान्यं यथा भवति तथा केवलं विलोकितवती दृष्टवती। एवेति शेषः । इति संबन्धः । जननिर्विशेषं विलोकितवतीत्यनेनापराधिन: प्रियस्यासाधारणं दण्डनं कृतमित्यवगम्यते । अवहित्यं नाम संचारी भावः । अत्र नायिका स्वीया धीरा प्रगल्भा च । नायकः शठः । ईर्ष्यामानकृतो विप्रलम्भशृङ्गारः । ईर्ष्याक्रोधप्रायं नर्म । आक्षेपालंकारः । वसन्ततिलकावृत्तम् ॥ कवेर्वाक्यम्प्रियकृतपटस्तेयक्रीडाविडम्बनविह्वलां किमपि करुणालापां तन्वीमुदीक्ष्य ससंभ्रमम् । अपि विगलिते स्कन्धावारे गते सुरताहवे त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः ॥ ११५ ॥ प्रियकृतपटस्तयक्रीडाविलम्बनविहलां प्रियेण कृता प्रियकृता पटस्तेयक्रीडा पटस्य वत्रस्य स्तेयं चौर्य तदेव क्रीडा विनोदस्तस्या विलम्बनं कालक्षेपस्तेन विह्वला व्याकुला ताम् । किमपि करुणालापामनिर्वाच्यादीनभाषितां तन्वीं कान्तामुदीक्ष्यावलोक्य त्रिभुवनमहाधन्वी त्रैलोक्यैकवीरो मन्मथः कामः सुरताहवे संभोगसंगरे गते निवृत्ते सति स्कन्धावारे शिबिरे विगलिते च्यते सत्यपि ससंभ्रमं सत्वरं यथा भवति तथा न्यवर्तत निवृत्तोमत्स्थाने युक्तमिति संबन्धः । अत्र पटस्तेयक्रीडा संमोगावसाने कृतेति वेदितव्यम् । त सुरताहवे इत्युक्तत्वात् । सुरतस्याहवत्वरूपणं परस्परोपमर्दस्य विद्यमानत्वात् । अत्र स्कन्धावारशब्देन स्रक्चन्दनादिप्रसाधनहारमेखलाद्याभरणलीलाविलासविभ्रमादिचेष्टास्वरूपोद्दीपनसामग्री कथ्यते । विगलिते इत्यनेन सुरतान्ते लक्ष्यमाणं सामग्रीशैथिल्यं क For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७६ काव्यमाला । थ्यते । न्यवर्तत मन्मथ इत्यनेन पुनः सुरतारम्भो गम्यते । यथा लोके शूरः पुरुषः परानिर्जित्य गलितसंनाहः प्रयातः सन्पश्चात्परैरभिभूतानां स्वकीयानामार्तनादं श्रुत्वा तत्प्रशमनाय पुनर्निवर्तते तद्वदयमपीत्यभिप्रायः । अत्र व्रीडा नाम संचारी भाव: । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोग श्टङ्गारः । चेष्टाकृतं सहासं शृङ्गारि नर्म | हेतुरलंकारः । हरिणी वृत्तम् || कवेर्वाक्यम् सालक्तकेन नवपल्लवकोमलेन पादेन नूपुरवता मदनालसेन । यस्ताढ्यते दयितया प्रणयापराधा Acharya Shri Kailassagarsuri Gyanmandir त्सोऽङ्गीकृतो भगवता मकरध्वजेन ॥ ११६ ॥ स्पष्टोऽर्थः । अत्र दयितया पादेन ताडितोऽपि भगवता मकरध्वजेन सोऽङ्गीकृत इत्यनेन नानाविधैरुपचारैरुपलालितः किमुतेत्ययमर्थः सूचितः । एतावता कामपुरुषार्थस्योपादेयत्वमुक्तं भवति ॥ २ परिशिष्टम् रुद्रमदेवकुमारप्रणीतटीकायां केचनाधिकाः श्लोकाः । यथाप्रयच्छाहारं मे यदि तव रहोवृत्तमखिलं - मया वाच्यं वोच्चैरिति गृहशुके जल्पति शनैः । वधूर्वक्रं व्रीडाभरनमितमन्तर्विहसितं हरत्यर्धोन्मीलन्नलिनमनिलावर्जितमिव ॥ ११७ ॥ काचन नायिका गृहशुके शनैर्मन्दमिति वदति सति मुखं वक्रं करोति । कथं जल्पति, हे नायिके मह्यमाहारं देहि यदि न दास्यसि तदा तवैकान्तवृत्तान्तं समस्तं मयोच्चैः कथनीयम् । कीदृशं मुखम्, लजातिशयनम्रम्। गुप्तहसितम् । इदानीमुत्प्रेक्षते - अर्धविकसत्पद्मं वायुवक्रीकृतमिव ॥ किंचिन्मुद्रितपांसवः शिखिगणैरुत्पक्ष (रूर्ध्वाक्ष) मालोकिता जीर्णावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः । एते ते निपतन्ति नूतनघनात्प्रावृङ्करानन्दिनो विच्छायीकृतविप्रयुक्तवनिता वक्रेन्दवो बिन्दवः ॥ ११८ ॥ For Private and Personal Use Only त एते नूतनघनाजलबिन्दवः पतन्ति । कथंभूताः । किंचिन्निषिद्धरेणवः । रूर्ध्वनयनं यथा स्यादेवं दृष्टाः । पुराणभवनदरिद्रकान्तानिःश्वासमारुतैरनेकधा कृताः । वर्षागमहर्षिणः । मलिनीकृतवियोगिवनिता वक्रचन्द्राः ॥ मयूरवृन्दै - Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । 'नीत्वोच्चैर्विक्षिपन्तः कृततुहिन कणासारसङ्गान्परागानामोदानन्दितालीनतितरसुरभीन्भूरिशो दिङ्मुखेषु । एते ते कुङ्कुमाङ्कस्तनकलशभरास्फालनादुच्छलन्तः पीत्वा सीत्कारिवक्रं हरिणशिशुदृशां हैमना वान्ति वाताः॥ ११९॥ एते ते प्रसिद्धा हेमन्तसंबन्धिनो वाता वहन्ति । मृगाक्षीणां सीत्कारयुक्तं मुखं स्पृष्ट्ा । किं कुर्वन्तः । कुङ्कमलेपयुक्तस्तनकलशताडनादूर्ध्व गच्छन्तः । पुनः किं कुर्वन्तः । अनेकान्परागानुच्चैर्नीत्वा दिशामुखेषु निक्षिपन्तः । जनिततुषारकणवृष्टिभ्रमान् । पुनः कथंभूतान् । परिमलतोषितभ्रमरान् । अतिशयसुगन्धान् ॥ पीतस्तुषारकिरणो मधुनैव सार्ध मन्तः प्रविश्य चषकप्रतिबिम्बवर्ती । मीनाकरं मनसि मानवतीजनस्य नूनं विभेद यदसौ प्रससाद सद्यः ॥ १२० ॥ कविरुत्प्रेक्षते — निश्चयेनायं चन्द्रो मधुपात्रे प्रतिबिम्बितः सन्मद्येनैव सह पीतः सन्मानिनीसमूहस्य चित्तेऽन्तः प्रविश्य मानोत्पत्तिस्थानं चूर्णयामास । कथमेतज्ज्ञायते—यदसौ मानिनीलोकस्तत्क्षणान्मानरहितो बभूव ॥ ललनालोलधम्मिल्लमल्लिकामोदवासिताः । ७७ वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः ॥ १२१ ॥ एवंविधा वायवो रात्रौ ग्रीष्मे वहन्ति । कथंभूताः । अङ्गनाचपल केशपाशमल्लिकापरिमलसुगन्धयः । संभोगखिन्नकामिनीप्रियाः ।। वान्ति कहारसुभगाः सप्तच्छदसुगन्धयः । वाता नवर्रेतिम्लानवधूसंगममन्थराः ॥ १२२ ॥ शरत्काले एवंविधा वाता वहन्ति । कीदृशाः । सौगन्धिकमनोज्ञाः । विषमच्छदसुरभयः । नवसंभोगखिन्नकामिनीसुखोत्पादनमन्दाः ॥ रामाणां रमणीयवक्रशशिनः स्वेदोदबिन्दुप्लुतो व्यालोलामलकावलीं प्रचलयंश्रुम्बन्नितम्बांशुकम् । For Private and Personal Use Only १. 'क्षिवोच्चैः' इति पाठः. २. 'कौन्दानानन्दितालीनतिशय' इति पाठः. ३. 'मानान्धकारमपि' इति पाठः. ४. 'रतग्लानवधूगमन' इति पाठः. ५. 'नितम्बाम्बरम्' इति पाठः. Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। प्रातर्वाति मधो विकृष्टविकसद्राजीवराजीरजो जालामोदमनोहरो रतिरसग्लानि हरन्मारुतः ॥ १२३ ॥ मधौ वसन्ते प्रभात एवंविधो वातो वहति । कीदृशः । रमणीनां मनोहरमुखचन्द्रस्य स्वेदजलबिन्दुयुक्तः । तथा तासां चञ्चलां कुटिलकेशपति कम्पयन् । तथा तासां कटीवस्त्रं स्पृशन् । तथा तासां संभोगसक्तिश्रमं स्फेटयन् । कीदृशः । अपहृतकमलपतिपरागसमूहसौगन्ध्यहृद्यः ॥ अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने । अन्तःपुष्पसुगन्धिराजिकबरी सर्वाङ्गलग्नाम्बरं कान्तानां कमनीयतां विदधते ग्रीष्मेऽपरालागमे ॥ १२४ ॥ ग्रीष्मस्य संध्यासमये नारीणामेतानि वस्तूनि रमणीयतां कुर्वन्ति । एतानि कानि । चन्दनशुभ्रमङ्गम् । न केवलमङ्गम् । किसलयकोमलस्ताम्बूलरक्तोऽधरश्च । तथा प्रक्षालितकजले नयने च । कथंभूते। धारागृहजलस्नानारुणिते । तथा अशुष्कः केशपाशश्च । कीदृशः । मध्यस्थितकुसुमसुरभिः । तथा निर्मलसूक्ष्मवस्त्रं च ॥ वरमसौ दिवसो न पुनर्निशा ननु निशैव वरं न पुनर्दिनम् । उभयमेतदपि व्रजतु क्षयं प्रियतमेन न यत्र समागमः ॥ १२५ ॥ एका सखी एवं ब्रूते-हे सखि, असौ दिवसो वरं न पुना रात्रिः । ततो द्वितीया ब्रवीति-हे सखि, रात्रिरेव श्रेष्ठा न पुनदिनं वरम् । ततस्तृतीया वदति-यत्र दिने यस्यां रात्रौ च प्रियतमेन सह मेलापको नास्ति तट्टितयमपि नाशं यातु ॥ मैन्दं मुद्रितपांसवः परिपतातान्धकारा मरु द्वेगध्वस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः । कर्मव्यग्रकुटुम्बिनीकुचभरखेदच्छिदः प्रावृषः प्रारम्भे मेदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥ १२६ ॥ वर्षायाः प्रारम्भे एवंविधा जलबिन्दवो हर्षयन्ति | कथंभताः । मन्दं यथा स्यादेवं । निवारितधलयः । सर्वदागच्छज्ज्ञाततमसः । वायुवेगापसारिततृणकुटीरकजातच्छिद्रषु प्राप्तप्रवेशाः । तथा गृहकर्माकुलगृहस्थकामिनीकचयुगस्वेदापहारिणः । कन्दलपत्रात लासिनः॥ १. 'प्रकाम' इति पाठः. २. 'प्रकुरुते ग्रीष्मापराह्नागमः' इति पाठः. ३. इतः प्रार तिश्लोकपञ्चकमर्जुनवर्मदेवेन प्रक्षिप्तमित्युक्त्वा षट्पञ्चाशश्लोकानन्तरमुद्धत(४६ पृष्ठ) मस्ति. ४. 'झांकारिझञ्झामरुत्' इति पाठः, ५. 'निपतन्ति' इति पाठः । For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । कोऽपि नायकः कामपि नायिकां दृष्ट्वानुरागातिशयात्पुनरुक्तं दोषमगणयित्वा इदमाहइयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥ १२७ ॥ इयमसौ प्रियतमा मम जीवितमानन्दयति । चञ्चलदीर्घनयना। पृथुलोन्नतमांसलस्तनी । विस्तीर्णकटिप्रदेशभारमन्थरगामिनी ॥ सालक्तकं शतदलाधिककान्तिरम्यं रात्रौ स्वधामनिकरारुणनूपुराङ्कम् । क्षिप्तं भृशं कुपितया तरलायताक्ष्या सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥ १२८ ॥ कस्यचिन्नायकस्य मस्तके चञ्चलदीर्घलोचनया प्रियया कुपितया रात्री पदं दत्तं विरेजे शुशुभे । किमिव । सौभाग्यचिह्नमिव । कीदृशम् । सयावकम् । कमलाधिकदीप्तिमनोज्ञम् । निजायतनसमूहरक्तीकृतपादकटकचिह्नम् ॥ श्रुत्वाकस्मान्निशीथे नवघनरसितं विश्लथाङ्गं पतन्त्या शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटोपान्तदीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा॥१२९॥ कयाचन पथिकस्त्रियार्धरात्रे नवमेधर्जितमचिन्तितमेव श्रुत्वा रुद्यते । शयनान्मन्दशरीरं यथाभवत्येवं भूमौ पतन्त्या । दुःखितसखीजनेन प्रसारितहस्तं धृतया । कथं रुद्यते । उत्कण्ठायुक्तम् । तथा मक्तकण्ठम् । किं कृत्वा । वल्लभं स्मृत्वा स्मृत्वा । कठिनस्तनोपरिपतितविदीर्णाश्रुबिन्दु अव्यक्तमृदुवचनं च यथा भवत्येवमनुरुद्यते ।। कोऽपि नायको दूती प्रति ब्रूते पीतो यतः प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥ १३० ॥ यतः प्रभृति कंदर्पव्यथितेन मया तस्या अधररसः प्रचुर: पीतस्तदादि मम तृष्णामिलापो द्विगुणतामेति । अत्र किमाश्चर्यम् । यतस्तत्र लावण्यं सौन्दर्यमस्ति ।। १. 'शीर्णाश्रु' इति पाठः. For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। ३ परिशिष्टम्। मूलपुस्तकेष्वधिकाः श्लोकाःग्रामेऽस्मिन्पथिकाय पान्थ वसतिनँवाधुना दीयते रात्रावत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा । तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥ १३१ ॥ कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः । आयाता वयमागमिष्यसि सुहृद्वर्गस्य भाग्योदयैः संदेशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ १३२ ॥ कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत् । आश्लेषमर्पय मदर्पितपूर्वमुच्चै मह्यं समर्पय मदर्पितचुम्बनं च ॥ १३३ ॥ हारो जलार्द्रवसनं नलिनीदलानि प्रालेयशीकरमुचस्तुहिनांशुभासः। यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवाग्निः ॥ १३४ ॥ तन्वी शरत्रिपथगा पुलिने कपोले लोले दृशौ रुचिरचञ्चलखञ्जरीटौ । तद्वन्धनाय सुचिरार्पितसुभ्रुचाप चाण्डालपाशयुगलाविव शून्यकर्णौ ॥ १३५ ॥ पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेशं लिखन्ती भूयो भूयः क्षिपन्ती मयि शितशबले लोचने लोलतारे । वकं ह्रीनम्रमीपत्स्फुरदधरपुटं वाक्यगर्भ दधाना । यन्मां नोवाच किंचित्स्थितमपि हृदये मानसं तदुनोति ॥ १३६ ॥ For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achary, Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ऊरुद्वयं मृगदृशः कदलस्य काण्डौ मध्यं च वेदिरतुलं स्तनयुग्ममस्याः । लावण्यवारिपरिपूरितशातकुम्भकुम्भौ मनोजनृपतेरभिषेचनाय ॥ १३७ ॥ हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकराः ॥ १३८॥ ४ परिशिष्टम् । सुभाषितावलावमरुकनाम्ना समुद्धृताः पूर्वागतश्लोकाधिकाः श्लोकाः । यथाअन्योन्यग्रथितारुणाङ्गुलि नमत्पाणिद्वयस्योपरि न्यस्योच्छासविकम्पिताधरदलं निर्वेदशून्यं मुखम् । आमीलन्नयनान्तवान्तसलिलं श्लाव्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥ १३९ ॥ असत्तो नायं न च खलु गुणैरेष रहितः प्रियो मुक्ताहारस्तव चरणमूले निपतितः । गृहाणेमं मुग्धे व्रजतु निजकण्ठप्रणयिता मुपायो नास्त्यन्यस्तव हृदयसंतापशमने ॥ १४ ॥ आलोकयति पयोधरमुपमन्दिरमभिनवाम्बुभरनीलम् । दयितारचितचितानलधूमोद्गमशङ्कया पथिकः ॥ १४१ ॥ आश्लिष्टा रभसाद्विलीयत इवाक्रान्ताप्यनङ्गेन या यस्याः कृत्रिमचण्डवस्तुकरणाकूतेषु खिन्नं मनः । कोऽयं काहमिति प्रवृत्तसुरता जानाति या नान्तरं रन्तुः सा रमणी स एव रमणः शेषौ तु जायापती ॥ १४२ ।। किं बाले मुग्धतेयं प्रकृतिरियमथो रौद्रता किं नु कोपः किं वा चापल्यमुच्चैर्ऋतमुत किमु ते यौवनारम्भदर्पः ।। यत्केशालापवक्रस्मितललितकुचभ्रूविलासावलग्नैः खस्थो लोकस्त्वदीयैर्मनसि विनिहितैर्दह्यतेऽमीभिरायः ॥ १४३ ॥ ११ For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। गच्छेत्युन्नतया भ्रुवैव गदितं मन्दं वलन्त्या तया तेनाप्यञ्चितलोचनद्वयपुटेनाज्ञा गृहीता शनैः । संकेताय वलद्दशा पिशुनिता ज्ञाता च दिक्प्रेयसा गूढः संगमनिश्चयो गुरुपुरोऽप्येवं युवभ्यां कृतः ॥ १४४ ॥ चटुलनयने शून्या दृष्टि कृता खलु केन ते क इह सुकृती द्रष्टव्यानामुवाह धुरं पराम् । यमभिलिखितप्रख्यैरङ्गैर्न मुञ्चसि चेतसा वदनकमलं पाणौ कृत्वा निमीलितलोचना ॥ १४५ ॥ चलतु तरला धृष्टा दृष्टिः खला सखि मेखला स्खलतु कुचयोरुत्कम्पान्मे विदीर्यतु कञ्चकम् । तदपि न मया संभाव्योऽसौ पुनर्दयितः शठः स्फुटति हृदयं माननान्तर्न मे यदि तत्क्षणम् ॥ १४६ ॥ तैस्तैश्चाटुभिराज्ञया किल तया वृत्ते रतिव्यत्यये लज्जामन्थरया तया निवसिते भ्रान्त्या मदीयांशुके । तत्पट्टांशुकमुद्वहन्नहमपि स्थित्वा यदुक्तोऽधुना वेषो युज्यत एष एव हि तवेत्येतन्न विस्मयते ॥ १४७ ॥ पत्रं न श्रवणेऽस्ति बाष्पगुरुणोर्नो नेत्रयोः कज्जलं रागः पूर्व इवाधरे चरणयोस्तन्व्या न चालक्तकः । वार्तोच्छित्तिषु निष्ठुरेति भवता मिथ्यैव संभाव्यते सा लेख लिखतु च्युतोपकरणा न्यायेन केनाधुना ॥ १४८ ।। यदि विनिहिता शून्या दृष्टिः किमु स्थिरकौतुका यदि विरचितो मौने यत्नः किमु स्फुरितोऽधरः । यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः कृतमभिनयैदृष्टो मानः प्रसीद विमुच्यताम् ॥ ११९ ॥ यद्रात्रौ रहसि व्यपेतविनयं वृत्तं रसात्कामिनो रन्योन्यं शयनीयमीहितरसावाप्तिप्रवृत्तस्पृहम् । For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । तत्सानन्दमिलदृशोः कथमपि स्मृत्वा गुरूणां पुरो हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित्स्थितम् ॥ १५० ॥ याते गोत्रविपर्यये श्रुतिपथं शय्यागतायाश्चिरं निर्ध्यातं परिवर्तनं हृदि पुनः प्रारब्धमङ्गीकृतम् । भूयस्तत्प्रकृतं कृतं च वलितक्षिप्तैकदोर्लेखया मानिन्या न तु पारितः स्तनभरो नेतुं प्रियस्योरसः ॥ १५१॥ सा यौवनमदोन्मत्ता वयमस्वस्थचेतसः । तस्या लावण्यभङ्गेषु दाहोऽस्मासु विजृम्भते ॥ १५२॥ सति प्रदीपे सत्यग्नौ सत्सु तारामणीन्दुषु । विरामे मृगशावाझ्यास्तमोभूतमिदं जगत् ॥ १५३॥ सुरतविरतौ व्रीडावेशश्रमश्लथहस्तया रहसि गलितं तन्व्या प्राप्तुं न पारितमंशुकम् । रतिरसजडैरङ्गैरङ्गं पिधातुमशक्तया प्रियतमतनौ सर्वाङ्गीणं प्रविष्टमधृष्टया ॥ १६४ ॥ सख्यस्तानि वचांसि यानि बहुशोऽधीतानि युष्मन्मुखा द्वक्ष्येऽहं बहुशिक्षिता क्षणमिति ध्यात्वापि मौनं श्रिता । धूर्तेनैत्य च मण्डलीकृतकुचं गाढं परिष्वज्य मां पीतान्येव सहाधरेण हसता वक्रस्थितान्येव मे ॥ १५५ ॥ उत्कम्पो हृदये स्खलन्ति वचनान्यावेगलोलं मनो गात्रं सीदति चक्षुरश्रुकलुषं चिन्ता मुखं शुष्यति । यस्यैषा सखि पूर्वरङ्गरचना मानः स मुक्तो मया वन्द्यास्ता अपि योषितः क्षितितले यासामयं संमतः॥ १५६ ।। मानव्याधिनिपीडिताहमधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखीजनोऽस्ति चतुरो यो मां बलान्नेष्यति । मानी सोऽपि जनो न लाघवभयादभ्येति मातः स्वयं कालो याति चलं च जीवितमिति क्षुण्णं मनश्चिन्तया ॥११७॥ For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८४ www.kobatirth.org काव्यमाला । १५ परिशिष्टम् । सूक्तिमुक्तावलावमरुकनाम्ना समुद्धृताः पूर्वश्लोकातिरिक्ताः श्लोकाः । यथाकान्ते कथंचिद्गदितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी । ततस्तमालोक्य कदा गतोऽसीत्यालिङ्गय मुग्धा मुदमाससाद ॥१९८॥ यद्गम्यं गुरुगौरवस्य सुहृदो यस्मिलभन्तेऽन्तरं यद्दाक्षिण्यवशाद्भयाच्च सहते मन्दोपचारानपि । यल्लज्जा निरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्यय स्तत्कि प्रेम स उच्यते परिचयस्तत्रापि मानेन किम् ॥ १५९ ॥ दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्रव न्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति । नीवीबन्धवदागतं शिथिलतां संभाषमाणे क्षणा न्मानेनापसृतं ह्वियेव सुदृशः पादस्पृशि प्रेयसि ॥ १६०॥ ललितमुरसा तरन्ती तरलतरङ्गौघचालितनितम्बा । विपरितरक्तासक्तेव दृश्यते सरसि सा सख्या ॥ १६१ ॥ ६ परिशिष्टम् । शार्ङ्गधरपद्धती पूर्वश्लोकाधिकः श्लोकः । यथा— कान्तामुखं सुरतकेलिविमर्दखेदसंजातघर्मकणविच्छुरितं रतान्ते । Acharya Shri Kailassagarsuri Gyanmandir आपाण्डुरं विलसदर्धनिमीलिताक्षं संस्मृत्य हे हृदय किं शतधा न यासि ॥ १६२॥ ७ परिशिष्टम् । औचित्यविचारचर्चायां पूर्वश्लोकातिरिक्तः श्लोकः । यथागन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् । संसारे घटिकाप्रणालविगलद्वारा समे जीविते को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥ १६३ ॥ १. औचित्यविचारचर्चायाममरकनानायं श्लोकः समुद्धृतस्तत्रामरुकस्येति भाति. For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकश्लोकानुक्रमणी। शोकाङ्क: १७/ ::::: ४ १०१ ११८ श्रोकारम्भः श्लोकाङ्कः। श्लोकारम्भः अङ्गं चन्दनपाण्डु ... १२४ एकस्मियने पराङ्मुख अङ्गानामतितानवं ५० एकस्मिञ्शयने विपक्ष अङ्गुल्यग्रनखेन ... ५ कठिनहदये अच्छिन्नं नयनाम्बु ... ११० कथमपि कृते अज्ञानेन पराङ्मुखीं ... कथमपि सखि अद्यारभ्य यदि ९३ कपोले पत्राली अनन्तचिन्ता ६५ करकिसलयं अनालोच्य प्रेम्णः ८० काञ्च्या गाढतरा अन्योन्यग्रथिता ३९ कान्तामुखं सुरत अलसवलितैः कान्ते कत्यपि असद्वत्तो नायं १४० कान्ते कथंचि अहं तेनाहूता कान्ते तल्पमुपागते ... आदृष्टिप्रसरात् ७६ कान्ते सागसि आयस्ता कलहं १०६ किंचिन्मुद्रितपांसवः ... आयाते दयिते किं बाले मुग्धतेयं ... १४३ आलम्ब्याङ्गण कृतो दूरादेव आलोकयति कोपस्त्वया यदि आलोलामलका कोपात्कोमल आशङ्कय प्रणति कोपो यत्र भ्रुकुटि आश्लिष्टा रभसा क्वचित्ताम्बूलाक्तः आस्तां विश्वसनं क प्रस्थितासि इति प्रिये क्षिप्तो हस्तावलग्नः इदं कृष्णं कृष्णं गच्छेत्युन्नतया १४४ इयमसौ तरला गेते प्रेमाबन्धे उत्कम्पो हदये ... गन्तव्यं यदि नाम .... उरसि निहितस्तारो ... ३१ गाढालिङ्गनवामनी ... ऊरुद्वयं मृगदृशः १३७ गाढाश्लेषविशीर्ण ... एकत्रासनसंस्थितिः ... ... १८ ग्रामेऽस्मिन्पथिकाय ... ... १३१ १. शृङ्गारदीपिकायां नास्ति. २. सुभाषितावलौ अद्भुतफुल्लस्य. शाधरपद्धतौ अद्भुतपुण्यस्य. ३. सुभाषितावली भीमस्य. ४. शृङ्गारदीपिकायां नास्ति. ५. शृङ्गारदीपिकायां नास्ति. ६. सुभाषितावली शार्ङ्गधरपद्धतौ च अर्गटस्य. ७. सुभाषितावलौ पुलिनस्य. ८. सूक्तिमुक्तावली शार्ङ्गधरपद्धतौ च वामनस्य. ९. सुभाषितावलौ विज्जिकायाः. ::::::::::::::::: :::::::::::::::::::::::: ७८ १४ :::::::::::: १०७ २३ मा. ... For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । धोकाः V१९ ::: ६४ .. १०३ . १०५ ::: ४१ १४८ १३६ नोकारम्भः शोकाङ्कः श्लोकारम्भः चक्षुःप्रीतिप्रसक्ते १०० दृष्दैकासनसंस्थिते चटुलनयने १४५ देशैरन्तरिता चपलहदये | धीरं वारिधरस्य चरणपतनं सख्यालापा न जाने संमुखा चरणपतनप्रत्याख्यान... नभसि जलदलक्ष्मी... चलतु तरला नान्तः प्रवेश . ११४ ... ... १४६ चिन्तामोह ... नापेतोऽनुनयेन चिरविरहिणो नार्यो मुग्धशठा जाता नोत्कलिका निःशेषच्युतचन्दनं ज्याकृष्टिबद्ध निःश्वासा हृदयं नीत्वोच्चैविक्षिपन्तः ... ११९ ततश्चाभिज्ञाय | पटालग्ने पत्यौ तथाभूदस्माकं तद्वक्राभिमुखं 'पंत्रं न श्रवणेऽस्ति ... पराची कोपेन ११२ तेन्वङ्गया गुरुसंनिधौ... तन्वी शरत्रिपथगा ... परिम्लाने माने २५ तप्ते महाविरह ... पश्यामो मयि तस्याः सान्द्रविलेपन... पादाङ्गुष्टेन भूमि तैस्तैश्चाटुभि पादासक्ते सुचिर पीतस्तुषारकिरणो १२० त्वं मुग्धाक्षि विनैव ... दंपत्योनिशि पीतो यतः प्रभृति दत्तोऽस्याः प्रणयः ... पुरस्तन्व्या गोत्र पुष्पोरेदमवाप्य १०८ दीर्घा वन्दनमालिका... ... ४५ प्रयच्छाहारं ... ... ११७ दूरादुत्सुकमागते ... ४९ प्रस्थानं वलयैः दृष्ट: कातरनेत्रया ... ... ८५ प्रहरविरतौ ... ... १२ दृष्ट लोचनवन्मनाङ् ... ... १६० प्रातः प्रातरुपागतेन ... ... २ १. सुभाषितावली पुण्डकस्य. २. सक्तिमक्तावलावप्यमरुकनाम्नैवोद्धतः. ३. शङ्गारदा पिकायां नास्ति. ४. शृङ्गारदीपिकायां नास्ति. सुभाषितावलौ दुर्वहकस्य. ५. राङ्गारदाता पिकायां नास्ति. ६.शङ्गारदीपिकायां नास्ति. सुभाषितावलौ शार्ङ्गधरपद्धतौ च छमछ मिकारत्नस्य. ७. सूक्तिमुक्तावलावप्यमरुकनाम्नवोद्धतः. ८. सुभाषितावली नरासहसः ९. शृङ्गारदीपिकायां नास्ति. १०. शङ्गारदीपिकायां नास्ति. ११. सूक्तिमुक्ताव मुभाषितावली शार्ङ्गधरपद्धतौ च नामरहितः. १२ सक्तिमक्तावलावप्यमरुकनाम्नवाहतः। १३. हरविजयस्थोऽयं (२६।६२) श्लोकः. १४. शृङ्गारदीपिकायां नास्ति. एतद्युग्म दश रूपावलोकेऽप्यमरुकनान्नैवोदाहतम्. सुभाषितावलावेतद्यग्मं दुर्वहकस्य. १५. सूक्तिमुक्तावला सुभाषितावलो झलज्झलिकावासुदेवस्य. शार्ङ्गधरपद्धती गलज्जलवासुदेवस्य. :::::::::: ::::::::: ५१ For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शोकाङ्कः ::::: :: . ६७ १०९ ८२ ::::: :::::::::::: ५९ 36 :::::::: :::: :::::::::::::::::::::::::::: १ :: अमरुशतक श्लोकानुक्रमणी। नोकारम्भः लोकाङ्कः। श्रोकारम्भः प्रासादे सा दिशि १०२ लोललोचनवारिभिः प्रियकृतपट ११५ वरमसौ दिवसो १२५ बोले नाथ विमुञ्च | वान्ति कहार १२२ भवतु विदितं | विरहविषमः भ्रभङ्गे रचितेऽपि | शंठान्यस्याः काञ्ची भ्रभेदो गुणितः शून्यं वासगृहं मन्दं मुद्रितपांसवः | श्रुत्वाकस्मान्निशीथे ... मॅलयमरुतां श्रुत्वा नामापि मानव्याधि |श्लिष्ट: कण्ठे मुग्धे मुग्धतयैव | संदष्टेऽधरपल्लवे म्लानं पाण्डुकृशं ८८ सख्यस्तानि | सति प्रदीपे यदि विनिहिता १५३ यद्गम्यं गुरु १५९ सन्त्येवात्र गृहे यद्रात्रौ रहसि | सौ पत्युः प्रथमे याताः किं न मिलन्ति सा बाला वयमप्र ... याते गोत्रविपर्यये |सा यौवनमदो ... यावन्त्येव पदा | सालक्तकं शत १२८ यास्यामीति समु ७९ सालक्तकेन रात्रौ वारिभरा | सुतनु जहिहि रामाणां रमणीय १२३ | सुरतविरतौ रोहन्ती प्रथम १११ सुमोऽयं सखि ललनालोल १२१ सैवाहं प्रमदा १६१ स्फुटतु हृदयं लग्ना नांशुक ... | स्मररसनदीपूरेणोढा ... लाक्षालक्ष्म ललाट ... | स्वं दृष्ट्वा करजक्षतं ... लिखन्नास्ते भूमि ... ७ स्विन्नं केन मुखं ... ११३ लीलातामरसाहतो ... ७२ हॉरो जलार्द्रवसनं ... १३४ लालझूलतया ... ... ८३ हारोऽयं हरिणा ... ... १३८ १. शृङ्गारदीपिकायां नास्ति. २. सूक्तिमुक्तावलौ शार्ङ्गधरपद्धतौ कुमारदासस्य. सुभाषितावली भकुमारस्य. ३. सुभाषितावलौ भदन्तधर्मकीर्तेः. सूक्तिमुक्तावलौ धर्मकीर्तेः. ४. सूक्तिमुक्तावलौ सुभाषितावली च भदन्तारोग्यस्य, शार्ङ्गधरपद्धतौ भदन्तवर्मणः. ५. शशारदीपिकायां नास्ति. ६. सूक्तिमुक्तावलौ शार्ङ्गधरपद्धतौ च भद्देन्दुराजस्य. ७. शङ्गारदीपिकायां नास्ति. ८. सुभाषितावलौ अर्गटस्य. ९. शाङ्गधरपद्धतावप्यमरुकस्यैव. १०. सुभापितावलौ दाक्षिणात्यस्य कस्यापि. ११. सुभाषितावलौ शार्ङ्गधरपद्धतौ च शीलाभट्टारिकायाः. १२. अर्जुनवर्मदेवेन द्वाविंशश्लोकव्याख्यायां प्रमाणत्वेनोपन्यस्तः. १३. सुभाषितावलौ लीलाचन्द्रस्य. १४. शृङ्गारदीपिकायां नास्ति. १५. सूक्तिमुक्तावलौ शार्ङ्गधरपद्धतौ चामरुकनामवाद्धतः. १६. शङ्गारदीपिकायां नास्ति. १७. सुभाषितावलौ बाणकवेः.। १५२ ४८ ११६ ३ % १५४ ३७ लेलितमुरसा ::::::::::: For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KAVYAMALA. 13 THE SAMBAPANCHASIKA OF SAMBA WITH The commentary of Kshemaraja. EDITED BY PANDIT DURGAPRASAD AND KAS'INATH PANDURANG PARAB. OOO 00 PRINTED AND PUBLISHED BY THE PROPRIETOR OF THE "NIRNAYA-SAGARA" PRESS. BOMBAY 1889. Price 4 Annas. For Private and Personal Use Only