________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं
रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५२॥ (युगलम्) तन्व्याः पुरतो वार्तान्तरेऽन्याङ्गनानामोच्चारणचकितोऽहं किंचिदवाचितवदनः प्रतिकलविधिप्रेरितो वैलक्ष्याम्किचिल्लिखितुं प्रवृत्तः । अथ मयि लिखत्येव केनाप्यनिर्वचनीयप्रकारेण व्यक्तः स कोऽपि रेखालेखस्तादृशं परिपाकं गतो येन यस्या एव गोत्रस्खलनमापतितं सैव युवतिर्नामापेक्षया पुनरप्यङ्गैरभिव्यक्तिं जगाम । ततश्चित्रनायिकामुप. लभ्य तया वामोऽथ च प्रतिकूलश्चरणश्चण्डिना निक्षिप्तः । किंविशिष्टः । रूपकालंकारेण ब्रह्मास्त्रम् । यथा वारंवारमतिप्रहारिणि शत्रावनन्योपायतया ब्रह्मास्त्रं मुच्यते तथा मयि प्रथममपराधिनि पुनर्गोत्रस्खलनकारिणि पश्चादन्याङ्गनाचित्रलेखिनि वामपादो न्यस्त इत्यर्थः । किं कृत्वा । अश्रुकलुषं यथा भवत्येवमित्यभिधाय । इति किम् । अहो आश्चर्यमाश्चर्यमभिव्यक्तम् । कोऽभिप्रायः-लोकाः, पश्यत दुरात्मनोऽस्य तस्यां तदेकतानताम् । गोत्रस्खलने न पर्याप्तमिदानी तामेव लिखन्वर्तते । किं विशिष्टया सत्या निगद्य । आरूढप्रणयेत्यादि । प्रकर्ष प्राप्तेन प्रेमविशेषेण य एव मे तथा वशीभूत आसीत्स एवायमित्थमुदत्तो जात इत्याश्चर्यकोपव्यञ्जकेन हासेन सह वर्तत इति सहसा उद्गतरोदनस्वना च गीर्यथा स्यात्तथा । कुटस्यादिः कुटादिरिति षष्ठीतत्पुरुषेण कुटादिसंबन्धालिखितुमित्यत्र गुणप्रतिषेधसमर्थनम् । अन्यथा लेखितुमित्येव प्राप्नोति । यथा-'सृष्ट्वा सृष्ट्वा समस्तं ज. नमनुलिखता भूरिभाग्याक्षराणि क्षिप्रं विद्वल्ललाटे कथमपि विधिना लेखितुं विस्मृता श्रीः । दत्त्वास्मिन्हंसपादं मलयजतिलकच्छद्मना क्ष्मातलेन्दो हस्ते दत्तैः सुवर्णैः प्रतिकृति भवता शोधितो भालदेशः ॥' यच्च लेखनारम्भे सैव तरुणी व्यक्तिं गता तत्र ना. यकस्य तन्मयी चित्तवृत्तिनिमित्तम् । चित्रकला च विलासिनां प्रसिद्धव । यदुक्तम्'गीतं वाद्यं नृत्तं चालेख्यं विशेषकपत्रच्छेद्यम्' इत्यादि । विषममलंकारः । यदुक्तम्-'यत्र क्रियाविपत्तेन भवेदेव क्रियाफलं तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते
विषमम् ॥
कश्चिन्नायिका समासोक्तिभिरनुनयंतिकठिनहृदये मुश्च भ्रान्ति व्यलोककथाश्रितां
पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् । किमिदमथवा सत्यं मुग्धे त्वयाद्य विनिश्चितं
यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ १३ ॥ मामनपराधमुपेक्ष्य मत्संगम विनैव तिष्ठमीति हेतोः हे कठिनहृदये, अपराधकथाविका मिथ्याबुद्धि त्यज । व्यलीककथाश्रितां न तु व्यलीकाश्रिताम् । व्यलीकस्य कथा१. 'कथाश्रयां' इति शृङ्गारदीपिका.
For Private and Personal Use Only