________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
काव्यमाला।
किमुपालभे इत्यर्थः । इति संबन्धः । अत्र नायिका साधारणा । सोपालम्भवचनं नर्म । आक्षेपालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ कवेर्वाक्यम्पराची कोपेन स्फुटकपटमुद्रामुकुलिता
प्रविश्याङ्गेनाङ्गं प्रणयिनि परीरम्भचतुरे । शनैनीवीबन्धं स्पृशति सभयव्याकुलकरं
_ विधत्ते संकोचग्लपितमवलग्नं वरतनुः ॥ ११२ ॥ कोपेन प्रणयकोपेन पराची पराङ्मुखी । स्फुटकपटनिद्रामुकुलिता। स्फुटं प्रव्यक्ता । तथैव भासमानेत्यर्थः । कपटेन कृता निद्रा तया मुकुलिता निमीलिताक्षी सती वरतनुस्तन्वी अङ्गेन गात्रेणाङ्ग स्वस्य गात्रं प्रविश्यासाद्य परीरम्भचतुरे आलिङ्गनदक्षे प्रणयिनि प्रिये नीवीबन्धं वस्त्रग्रन्थि सभयव्याकुलकरं सभयो भयसहितो व्याकुलस्तरल: करो यस्मिन्कर्मणि तत्तथोक्तं शनैर्मन्दं स्पृशति सत्यवलग्नं मध्यं संकोचग्लपितमम्बराकर्षणकर्शितं विधत्ते करोतीति संबन्धः । अत्र कपटनिद्रयावलमसंकोचेन च नायिकाया विरहासहिष्णुत्वं व्यज्यते । औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकल: संभोगशृङ्गारः। कैशीकीवृत्तेरङ्ग नर्म। युक्तिरलंकारः । शिखरिणी वृत्तम् ॥
नायकमानेतुं प्रेषिताया लक्ष्यमाणसंभोगचिह्नाया दूत्या नायिकायाश्च प्रश्नोत्तररूपा वाक्यमालास्विन्नं केन मुखं दिवाकरकरैस्ते रागिणी लोचने
रोषात्तद्वचनोदिताद्विललिता नीलालका वायुना । भ्रष्टं कुङ्कुममुत्तरीयकषणाक्लान्तासि गत्यागतै
रुक्तं तत्सकलं किमत्र वद हे दूति क्षतस्याधरे ॥ ११३ ॥ हे दूति, तव मुखं केन कारणेन स्विन्नं सस्वेदं जातम् । अयं नायिकायाः प्रश्नः । दिवाकरकरैः स्वित्रमिति दूत्या उत्तरमक्तम् । ते तव लोचने दृशौ केन कारणेन रा. गिणी रक्ते । अयं नायिकाया: प्रश्नः । तद्वचनोदितात्तस्य धूर्तस्य वचनं वाक्यं तस्मादुदितादुद्गताद्रोषादक्ते इत्युत्तरम् । नीलालकाः कृष्णकुन्तलाः केन विलुलिता व्याकुलिताः । अयं प्रश्नः । वायुना विलुलिता इत्युत्तरम् । कुङ्कम काश्मीर केन भ्रष्ट विगलितम् । अयं प्रश्न: । उत्तरीयकषणात्संव्यानघर्षणाष्टम् । इत्युत्तरम् । केन क्लान्तासि तान्ता भवसि । अयं प्रश्नः । गत्यागतैर्गमनागमनैः क्लान्तास्मि । इत्युत्तरम् । हे दूति, सकलं त्वया यदुक्तं तत्सर्व युक्तमुपपन्नम् । अधरे क्षतस्य व्रणस्य किं कारणमत्रास्मिता न्प्रश्ने वद ब्रूहि । उत्तरमिति शेषः । इति संबन्धः । अत्र वदेत्यनेन त्वया वैदग्ध्यात्त
For Private and Personal Use Only