SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । साटोपं रतिकलिकालसरसं रम्यं किमप्यादरा छत्पीतं सुतनोमया वैदनकं वक्तुं न तत्पार्यते ॥ ८८॥ यन्मया सुतनोदनकमधरग्रहचमत्कारिचुम्बनपूर्वकत्वेन यत्नात्पीतं तदनिर्वचनीयत्वादुक्तं न शक्यते। तस्य विशेषणान्याह-आन्तरेण मर्मस्पृशा दुःखेन कुसुममिव म्लानम् । प्रत्यवतुषारांशुवत्कान्तिविगलितत्वेन पाण्डु । असौस्थेनाहारस्यारोचकत्वात्सुतनोरिति पदेन] शरीरकार्यात्कृशम्। किंविशिष्टं सदुक्तवक्ष्यमाणविशेषणयोग्यं जातमित्याह-वियोगविधुरम् । इदं विशेषणं हेतुत्वेन सालसं यावत्सर्वत्र संबध्यते । नहि वैधुर्यमेव केवलं वियोगहेतुकम् । म्लानत्वादीनामपि तनिमित्तत्वात् । प्रसाधनपरित्यागेन कर्तनादिरहितखाल्लम्बालकम् । अन्तःखेदेन सालसम् । अथ दर्शनात्मकसंभोगसमुचितं विशेषणमाह। चिरमनोरथप्राप्त्या पुनस्तत्कालोल्लसितकान्ति । क्व सति । मयि पथिकेऽकस्माद्रभसप्राप्ते सति । अथ चुम्बनसमयविशेषणमाह-त्वमद्य यावन्मां विहाय तत्र स्थित इत्याशयेन मानाद्भूभङ्गादिभिः साटोपम् । रतिक्रीडासमये आर्द्रमत एव किमपि रमणीयम् । सालसमित्यत्रालसपदं भावप्रधानम् । तेन सालस्यमित्यर्थः । मुग्धाया अल्पत्वेन मुखमप्यल्पं तेनाल्पार्थे कप्रत्ययेन वदनकम् । भयस्तत्क्षणजातकान्तीत्यनेन विलासः । 'ताकालिको विशेषस्तु विलासोऽङ्गक्रियादिषु' ॥ सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुरा वेषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः । इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं संभ्रमा त्पुंभावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥ ८९ ॥ कयाचिद्विपरीतरतिव्यतिकरे पूर्व पर्याकुलतया पुरुषभावस्त्यक्तस्तदनन्तरं वल्लभो मुक्तः । किं कृत्वा । तनुं ज्ञात्वा । मोहनसमये शरीरपरिज्ञानमेव नासीत्. का पुन: कथा स्त्रीपुरुषविषयविभागस्येति भावः । किंविशिष्टया । लजितया । क्व सति । इत्थं स्मृतरुपगमे । इत्थं कथम् । सैवाहं लजावती गृहलोकानां विदिता इदानीं प्रकृष्टमदा जाता । एतौ च तौ नपुरौ संभोगाभियोगेन शब्दायमानौ मयोच्छृङ्खलया लोकानां श्रुतिसंवादेन ज्ञापितौ। एषास्माकं स्त्रीणामक्रियैव । यतः सहजवीडैव धनं यस्य स तथोक्तः स्त्रीजनः । अतिशयभेदः पूर्वमलंकारः । 'निःसाध्वसत्वं प्रागल्भ्यं' इत्यनेन च प्रागल्भ्यं नाम नाट्यालंकारः॥ करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । १. 'केलिदत्तरभसं' इति शृङ्गारदीपिका. २. 'पीतं यत्' इति शृङ्गारदीपिका. ३. 'मुखमिदं तत्केन विस्मार्यते' इति शृङ्गारदीपिका. ४. 'विलम्बितमेखला' इति शृङ्गारदीपिका. For Private and Personal Use Only
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy