SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । मिति मिथ्यापदार्थनिवर्णनार्थ ग्रीवावलनापदेशेन रुणद्धि । व्यक्तं नावलोकते । मय्यन्यनोमखेऽन्तरान्तरा पश्यतीत्यर्थः । मयि वामिश्रणार्थमालापयुक्ते तदन्तरार्थ सख्या सह विपरीतवचनमाचष्टे । लेशोऽलंकारः । यदुक्तम् –'दोषीभावो यस्मिन्गुणस्य दोषस्य वा गुणीभावः । अभिधीयते तथाविधकर्मनिमित्तः स लेश इति' ॥ यावन्त्येव पदान्यलीकवचनैरालीजनैः पाठिता तावन्त्येव कृतागसो द्रुततरं संप्य पत्युः पुरः । पारेभे परतो यथा मनसिजस्येच्छा तथा वर्तितुं प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥४८॥ मुग्धा यावन्त्येव पदानि व्यलीकवचनैः कृत्वा सखीजनैः शिक्षिता तावन्त्येव कृतापराधस्य भर्तुरग्रे अनन्यसामान्योऽयमर्थो मयैव केवलं साधित इत्यद्भुतातिशयेन शुकवदुच्चार्य तदनन्तरं यथा मनसिजस्येच्छा तथा चेष्टितुमुपचक्रमे । संभोगप्रवणा बभूवेत्यर्थः । यतः प्रेम्णो मौग्ध्येन शोभमानस्याकृत्रिमः कोऽप्यनिर्वचनीयः सुन्दरः प्रकारः । अलोकवचनैरित्यत्रालीकशब्दो व्यलीकवदपराधार्थः । यथा-'अभिव्यक्तालीकः' इत्यादि । तेनापराधे यानि वचनान्युच्यन्ते तैरलीकवचनैः, न तु प्रणयमानार्थ मिथ्यापराधारोपकैरिति । अन्यथा कृतागस इत्यस्यानुपपद्यमानत्वात् । संलप्येति क्त्वाप्रत्ययेन पूर्वकाल. तायां प्रतिपादितायां मनसिजस्येच्छावर्तनस्य यद्यपि परत्वं स्वतः सिद्धं तथाप्यमुकं कृत्वा पश्चादमुकं कर्तव्यमिति लोकोक्त्या परतःशब्दो नाधिकः ॥ दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाप्पाम्बुपूर्णक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ४९॥ अहो आश्चर्यम् । यजातापराधे प्रियतमे मानिन्याश्चक्षुरनेकरूपतादक्षिणं संवृत्तम् । कथं तथा जातमित्याह-दूरादित्यादि । यदि तमपराधकारिणं पश्यामि तदा शिक्षा ग्राहयामीत्युत्पन्नकोपावेगेन दूरस्थे तस्मिन्नुत्सुकम् । सविधं प्राप्तेऽवधीरणयान्यतो नीतम् । वक्तुं प्रवृत्ते सत्यद्यापि निःशङ्को वदन्वर्तत इत्याक्षेपबुद्धया स्फारितम् । बलादालिङ्गितुमुपनते बहुमानयोग्यामेवं मां धृष्यतीति रोषेण लोहितम् । धृतवस्त्रे कोपकुञ्चित लतम् । अत्रारुणतासकाशादश्चितभ्रलतत्वस्योद्भटत्वेन सर्वेष्वपि भावेषु कोपहेतुकेषु सत्स्वाप विशेषतः कोपाश्चितत्यमना कोपशब्दप्रयोगेण बहुमानरोष एव पोषं प्रापितः । १. 'सा यावन्ति' इति शृङ्गारदीपिका. २. 'व्याहृत्य' इति शृङ्गारदीपिका. ३. 'प्रा. या' इति शृङ्गारदीपिका. ४. 'संकुञ्चितभूलतम्' इति शृङ्गारदीपिका. ५. 'पूर्णेक्षणात्' इति शृङ्गारदीपिका. For Private and Personal Use Only
SR No.020033
Book TitleAmru Shatakam
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang
PublisherNirnaysagar Press
Publication Year1889
Total Pages95
LanguageSanskrit
ClassificationBook_Devnagari
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy