________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achary,
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
ऊरुद्वयं मृगदृशः कदलस्य काण्डौ
मध्यं च वेदिरतुलं स्तनयुग्ममस्याः । लावण्यवारिपरिपूरितशातकुम्भकुम्भौ मनोजनृपतेरभिषेचनाय ॥ १३७ ॥ हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकराः ॥ १३८॥
४ परिशिष्टम् । सुभाषितावलावमरुकनाम्ना समुद्धृताः पूर्वागतश्लोकाधिकाः श्लोकाः । यथाअन्योन्यग्रथितारुणाङ्गुलि नमत्पाणिद्वयस्योपरि
न्यस्योच्छासविकम्पिताधरदलं निर्वेदशून्यं मुखम् । आमीलन्नयनान्तवान्तसलिलं श्लाव्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥ १३९ ॥ असत्तो नायं न च खलु गुणैरेष रहितः
प्रियो मुक्ताहारस्तव चरणमूले निपतितः । गृहाणेमं मुग्धे व्रजतु निजकण्ठप्रणयिता
मुपायो नास्त्यन्यस्तव हृदयसंतापशमने ॥ १४ ॥ आलोकयति पयोधरमुपमन्दिरमभिनवाम्बुभरनीलम् । दयितारचितचितानलधूमोद्गमशङ्कया पथिकः ॥ १४१ ॥ आश्लिष्टा रभसाद्विलीयत इवाक्रान्ताप्यनङ्गेन या
यस्याः कृत्रिमचण्डवस्तुकरणाकूतेषु खिन्नं मनः । कोऽयं काहमिति प्रवृत्तसुरता जानाति या नान्तरं
रन्तुः सा रमणी स एव रमणः शेषौ तु जायापती ॥ १४२ ।। किं बाले मुग्धतेयं प्रकृतिरियमथो रौद्रता किं नु कोपः
किं वा चापल्यमुच्चैर्ऋतमुत किमु ते यौवनारम्भदर्पः ।। यत्केशालापवक्रस्मितललितकुचभ्रूविलासावलग्नैः
खस्थो लोकस्त्वदीयैर्मनसि विनिहितैर्दह्यतेऽमीभिरायः ॥ १४३ ॥
११
For Private and Personal Use Only