________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
६५
1
1
हे सख्यः, कं स्वार्थमनुसंधाय दयिते वयं मानं कारिताः । वयमिति बहुवचनेन सखीब्वौदासीन्यम् । अनर्थ एव को जात इत्याह — निःश्वासा इत्यादि । अनन्तदुःखसंबाधत्वेन संततमुल्लसन्तो निःश्वासवायवो मुखमुष्णतया तपन्ति । निराधारतया हृदयं निर्मूलमुन्मथ्यते । कर्मकर्तरि यक् । चिन्ताज्वरेण निद्रा नागच्छति । संतापशमनं चन्द्ररुचिरं प्रियमुखं न दृश्यते । तद्दर्शनमन्तरेण चक्षुषोः साश्रुत्वादहोरात्रं रुद्यते । सरस्त्याजिताया: कमलिन्या इवा मे शुष्यति । तदा पादपतितोऽपि युष्मद्भणितेन प्रेयानवगणितः । विषमालंकारः । यदुक्तम् —'यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम्' |
काचिन्मानिनी पुण्यसामग्र्या मनोरथशतप्राप्त प्रियतमसंप्रतिपत्तिः पुनविप्रतिपत्तिविषये स्वगतेन शपथं करोति
अद्यारभ्य यदि प्रिये पुनरहं मानस्य वान्यस्य वा गृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः । तेत्तेनैव विना शशाङ्कधंवलाः स्पष्टाट्टहासा निशा
ऐको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥ ९३ ॥ यद्यहमद्यारभ्य मानस्यान्यस्य वापि परिचरणप्रसादादेर्नामापि गृह्णीयाम् । अस्तु तावत्करणम् । केन। मनसा । कीदृशेन । शठदुर्नयेन । कोऽर्थः । मिथ्यैवास्य दोषमारोपयामीति । तदा किं स्यादित्यत आह-संक्षेपत इत्यादि । संदिग्धमरणानेकप्रतिज्ञानां परिहारेण निःसंदेहमरणाध्यवसायतया संक्षेपतस्तेनैव प्रियेण विना सुधांशुधवला अत एव स्पष्टाट्टहासा इव यामिन्यो मे यान्तु । दुःखितस्य हि हसन्कोऽपि न प्रतिभासते । अत एव प्रावृट्काले समन्ततः: संनद्धमेघमालामलीमस एकोऽपि दिवो यायात् । एकसंख्याविशेषेण चन्द्रवत्यनेकरात्रिभ्योऽपि प्रावृदिवसस्यातिवा हयितुमशक्यत्वमुक्तम् ॥ काचित्सखी नूतनमानिनीमात्मप्रियदुर्नयावेदनेन बोधयति -
इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु ।
पुरा येनैवं मे चिरमनुसृता चित्तपदवी
स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥ ९४ ॥ हे सखि, कस्य परिचिताः पुरुषाः । अपि तु न कस्यापि । आत्मीया न भवन्तीत्यर्थः । अथातिनिर्बन्धमानेनोद्वेजितैस्तैः सह परिचयोऽपि दुर्लभः । यतः स एवान्यो
१. 'नहि प्रिये पुनरहं मानस्य वा भाजनं गृह्णीयां विषरूपिणः शठमतेर्नामापि' इति शृङ्गारदीपिका. २. 'किं तेनैव' इति शृङ्गारदीपिका. ३. 'किरणस्पष्टा-' इति शृङ्गारदीपिका. ४. 'नैकोऽपि' इति शृङ्गारदीपिका.
For Private and Personal Use Only