________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
प्रेमातिरेकेण लालयति, न तस्याः प्रतिकूलं बुद्धिपूर्वकमारभते । तत्रापि किलशब्दप्रयोगः । कोऽर्थः । विप्रियं विप्रियमिति श्रूयते न हि भवान्वस्तुतो विप्रियं करोतोति ज्ञावापराधेऽपि नायके नायिकाया धृत्युत्पादनम् । एवं सति मन्युरेव मानजनितो दुःखविशेष एव दःसहो न सामवादैरुपशमं याति । स्फुटमेतत् । तस्मात् हे निस्त्रिंश निरनक्रोश, विमुक्त उच्चैःशब्दत्वात्कण्ठो यस्मिन्नसौ विमुक्तकण्ठः स चासौ करुणो यथा भवत्येवं तावत्सखी रोदितु । विमुक्तकण्ठविषये करुणा यत्रेति वा समासः। कोऽभिप्रायः । एवं रोदितुं यदि न प्राप्स्यति तदा मन्युनामातमस्या हृदयं परिपाकोच्छ्रसितबीजविदीर्णदाडिमफलन्यायेन स्फुटिष्यति । तस्मादुच्चैःशब्दं रोदितुं देहि । पश्चायथा जानासि तथा प्रसादय । अथ च यदि रुदित्वा जीवन्ती निर्वक्ष्यति तदा प्रसादनं घटत इत्यसूया । विषमोऽलंकारः । यदुक्तम्-'कार्यस्य कारणस्य च यत्र विरोधः परस्परं गणयोः । तद्वक्रिययोरथवा संजायतेति तद्विषमम् । यथा-'आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥'
वारंवारमनुनीयमानामपि प्रौढेावशादशिथिलमानग्रन्थि मनस्विनी प्रति प्रधानसखी प्राहलिखन्नास्ते भूमि बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्व हसितपठितं पञ्जरशुकै
स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ ७ ॥ हे कठिने, बहिः प्राणदयित आस्ते । किं कुर्वन् । शून्यतासूचकचिन्तासंतानसमुचितचेष्टानुभावेनावनतो भूमिं लिखन् । अकृते प्रसादे द्वारं न मुञ्चतीत्यर्थः । तथा च वर्तन्तेऽनशनाः सख्यः । पुनः कीदृश्यः । निरन्तरबाष्पेणोच्छूने लोकोक्त्या उच्छृसिते नयने यासां ताः सततरुदितोच्छूननयनाः । अत्र नायिकाया अमङ्गलचिन्तनमेव हेतुः । किं च, पारशुकैरपि हसितपठितं परित्यक्तम् । तथापि तवावस्था चेयम् । निरुद्धबाष्पारुणितनेत्रामायमाननिःश्वासकदीमानाधरस्फुरणादिमन्युचेष्टाभिरधृष्या तथैव तिष्ठसीत्यर्थः । तस्मान्मानं परित्यज । कदा। अधुनापि । अपिशब्दोऽध्याहार्यः । एतावतीमपि दशां दुर्जनोपहसनीयां प्राप्ता मानं न मुञ्चसीति प्रतीयमानत्वात् । यस्याः कृते सख्योपि पञ्जरशुका अथाहारं हसितपठितं च परित्यजन्ति सा त्वं कथमिव प्रियाय न प्रतिभाषसे । प्रियोऽपि यस्यास्तव प्राणदयितस्तदलमतिमानेनेति भावार्थः । अत एव कठिने इति संबोधनम् । अत्रार्थशक्त्युद्भवः सहोक्तिरलंकारः । नायिकायामाहारादिकं कुवैत्यां सर्वेऽपि कुर्वन्ति, निवर्तमानायां च निवर्तन्त इति प्रतीतेः । सुप्तिब्यङ्गयमात्रं चात्र कर्मलकाराभ्यामेवोद्भासितम् । अत्र न लिखतीति, अपि तु लिखनिति प्रसादनपयन्तम् । आस्ते इति, न त्वासित इति । भूमिमिति, न भूमाविति । नहि बुद्धिपूर्वकं
For Private and Personal Use Only