________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
क्तम् । न तु निर्वेदो व्यभिचारिभावः । तस्य शृङ्गारे निषिद्धत्वात् । शृङ्गारश्चात्र विप्रलम्भ एव । यदुक्तम्-'विप्रलम्भस्तु विश्लेषो रूढविस्रम्भयोर्द्विधा । मानप्रवासभेदेन मानो हि प्रणयेप्रा॒योः॥ तत्र प्रणयमानः स्यात्कोपवश्यतया द्वयोः । स्त्रीणामीाकृतो मानः स्यादन्यासङ्गिनि प्रिये ।। श्रुते चानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् । उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः ॥ त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः । न च निर्विण्णशब्देनैव निर्वेदव्यभिचारभावप्रतीतिः । रसादीनां वाच्यत्वाभावात् । यदुक्तम्-'तथा हि । वाच्यत्वं तस्य शब्दनिवेदितत्वेन वा स्याद्विभावादिप्रतिपादनमखेन वा। पूर्वस्मिन्पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतत्वप्रसङ्गः । न च सर्वत्र तेषां स्वशब्दनिवेद्यत्वम् । यत्रापि तदस्ति तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैषां प्रतीतिः । स्वशब्देन सा केवलमनद्यते । न तु तत्कृतैव सा । विषयान्तरे तस्या अदर्शनात् । न हि केवलशृङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिः । केवलं स्वाभिधानमात्रादप्रतीतिः । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् । न त्वभिधेयत्वं कथंचिदिति । एवंविधस्य रसध्वनेरुपनिबन्धक्षमा अमरुकप्राया एव महाकवयः । यदुक्तमभिनवगुप्तपादैः-"प्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनस्यैव महाकविव्यपदेशः । अन्यथा व्युत्पत्त्यभ्यासयोर्मध्ये प्रधानभूतया प्रतिभयापि कविरेवोच्यते । यदुक्तम् –'प्रज्ञा नवनवोलेखशालिनी प्रतिभा मता। तदनुप्राणनाजीवद्वर्णनानिपुणः कविः॥" अलंकारश्चात्राप्यनुमानम् । यदुक्तम्-'यत्र बलीयः कारणमालोक्याभूतमेव भूतमिति । भावीति वा तथान्यत्कथ्येत तदन्यदनुमानम् ॥' यथा—'वहति यथा मलयमरुद्यथा च हरितीभवन्ति विपिनानि । प्रियसखि तथैष न चिरादेष्यति तव वल्लभो नूनम् ॥' परमसौ वाच्यः । वाच्यो व्यङ्गयोऽप्यलंकारो रसस्याङ्गं भवतीत्याचार्याः । गुणस्तु प्रसाद एव । अत एवात्र यमकादयो निषिद्धाः । 'ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥
दत्तोऽस्याः प्रणयस्त्वयैव भवतैवेयं चिरं लालिता
दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम् । मन्युर्दुःसह एंव यात्युपशमं नो सान्त्ववादैः स्फुटं
हे निस्त्रिंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥ ६ ॥ अत्र नायकं प्रति मानिन्याः सखी वक्री । त्वयैवास्याः प्रणयो बहुमानो दत्तः । न पुनरियं मुग्धा बहुमानोत्पादनाय प्रत्यभियोक्तं जानाति । अन्यच्च भवतैवेयं चिरं लालिता । न पुनरनया लालनकारणं किंचिदारब्धम् । अत एव दैवात्, न बुद्धिपर्वकमद्य पुनस्त्वमस्या नवं व्यलीकं कृतवान् । यः खलु यस्याः स्वयं प्रणयं ददाति, स्वयं च
१. 'भवता सेयं' इति शृङ्गारदीपिका. २. 'एष' इति शृङ्गारदीपिका.
For Private and Personal Use Only