________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
उक्त्वेत्यध्याहरणीयम् । सुप्तमुखचुम्बनं च नायिकानां रागोद्दीपनम् । यदुक्तम्-'सुप्तस्य मखमालोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागोद्दीपनम्' इति । यच्च तेन रिंसुना विजनमाकाङ्क्षतालीकनिमीलनं कृतं तत्सख्यो जानन्ति, अत एवायमित्यर्थान्तरसंक्रमितत्वेन धोऽस्मन्निर्गमाय सुप्त इत्युपन्यस्य स्वयमुत्थाय गताः । अर्थान्तरसंक्रमितस्योदाहरणमे
त_स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लबलाका घना वाताः शीकरिणः पयोदसहदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' अत्र हि पितृमरणादिदःखसहनक्षमत्वविशिष्टो राम इति संज्ञा प्रतीयते न तु संज्ञिमात्रम् । यदुपज्ञेन ध्वनिवर्त्मना संचरमाणाः, सचेतसः प्रहर्ष प्राप्नुवन्ति तेषामाचार्याणामुक्तिषु मीमांसायां के वयम् । परं तथाप्यात्मावबोधार्थमिदमुदाहरणं परामृशामः--ननु सर्वसहत्वे हेतुभूतकठोरहृदयत्वेनैव राम इति संज्ञिनो वैशिष्टयमुच्यते । यदि कठोरहृदयत्वमत्र सर्वसहत्वे हेतुभूतमभविष्यत्तदा राम इति पदमेव न प्रायोक्ष्यत । वैदेही तु कथं भविष्यतीत्यनेनैव दाशरथिप्रतीतेः । तस्मात्कठोरहृदयत्वविशिष्टस्यैव संज्ञिनस्तत्त्वान्तरं ध्वननीयम् । येन मया प्रवासकाले मातृभिः स्थाप्यमाना त्वमयोध्यायामुपेक्षिता सोऽहं शतकोटिकोटिकर्कशचेताः सर्वेसहः । नहि मया त्वमाहूता, अपि तु स्वयमागता । यथा-'कृतककुपितैर्बाष्पाम्भोभिः सदैन्यविलोकितैर्वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया । नवजलधरश्यामाः पश्यन्दिशो भवती विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥' यच्चालोचनकारेण पिटमरणादिदुःखसहनक्षमत्वं ध्वनिविषयीकृतं तदसत् । दुःखस्य विजातीयत्वात् । नहि प्रियाविरहसंतप्तः पुमाञ्जीवतो लोकान्तरितस्य वा पितुः स्मरति ॥
काचिन्मानिनी बहुभिरुपायैरतिनिर्बन्धप्रसादनेन गतकल्पं मानं परित्यक्तुमनाः प्रियं प्रति ब्रवीति
कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं ___यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ ३८ ॥ तस्यावयोरेवंविदितस्य प्रेम्णस्तदिदमतिगर्हि तमधुना वैशसं विनाशो जातः । पश्य, मान्धा भूः । तस्य कस्येत्याह-यत्र प्रणयकलहेषु भ्रकुटेरभिनय एव रोषः । वाक्पारुष्यणापि मनसो दूषयितुमशक्यत्वाद्वचननिरोध एव यस्मिन्निग्रहः । क्रीडाकमलादिनापि ताडनस्य दृष्करत्वात्परस्परमनवृत्तिवशीकरणव्यञ्जकमीषद्धसितमेव प्रसादनम् । सामदानाद्युपायानामपि भेदसूचकत्वात् । उभयोरपि तुल्यकालमेव प्रसादनमभिलषितमिति प्रतिपादयितुमन्योन्यशब्दप्रयोगः । दृष्टिक्षेप एव यत्रानुग्रहः । चरणपतनाद्यसंभवे
१. 'विग्रहो' इति शृङ्गारदीपिका. २. 'यत्र दृष्टिः प्रसादः' इति शृङ्गारदीपिका.
For Private and Personal Use Only