Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 84
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। प्रातर्वाति मधो विकृष्टविकसद्राजीवराजीरजो जालामोदमनोहरो रतिरसग्लानि हरन्मारुतः ॥ १२३ ॥ मधौ वसन्ते प्रभात एवंविधो वातो वहति । कीदृशः । रमणीनां मनोहरमुखचन्द्रस्य स्वेदजलबिन्दुयुक्तः । तथा तासां चञ्चलां कुटिलकेशपति कम्पयन् । तथा तासां कटीवस्त्रं स्पृशन् । तथा तासां संभोगसक्तिश्रमं स्फेटयन् । कीदृशः । अपहृतकमलपतिपरागसमूहसौगन्ध्यहृद्यः ॥ अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने । अन्तःपुष्पसुगन्धिराजिकबरी सर्वाङ्गलग्नाम्बरं कान्तानां कमनीयतां विदधते ग्रीष्मेऽपरालागमे ॥ १२४ ॥ ग्रीष्मस्य संध्यासमये नारीणामेतानि वस्तूनि रमणीयतां कुर्वन्ति । एतानि कानि । चन्दनशुभ्रमङ्गम् । न केवलमङ्गम् । किसलयकोमलस्ताम्बूलरक्तोऽधरश्च । तथा प्रक्षालितकजले नयने च । कथंभूते। धारागृहजलस्नानारुणिते । तथा अशुष्कः केशपाशश्च । कीदृशः । मध्यस्थितकुसुमसुरभिः । तथा निर्मलसूक्ष्मवस्त्रं च ॥ वरमसौ दिवसो न पुनर्निशा ननु निशैव वरं न पुनर्दिनम् । उभयमेतदपि व्रजतु क्षयं प्रियतमेन न यत्र समागमः ॥ १२५ ॥ एका सखी एवं ब्रूते-हे सखि, असौ दिवसो वरं न पुना रात्रिः । ततो द्वितीया ब्रवीति-हे सखि, रात्रिरेव श्रेष्ठा न पुनदिनं वरम् । ततस्तृतीया वदति-यत्र दिने यस्यां रात्रौ च प्रियतमेन सह मेलापको नास्ति तट्टितयमपि नाशं यातु ॥ मैन्दं मुद्रितपांसवः परिपतातान्धकारा मरु द्वेगध्वस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः । कर्मव्यग्रकुटुम्बिनीकुचभरखेदच्छिदः प्रावृषः प्रारम्भे मेदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥ १२६ ॥ वर्षायाः प्रारम्भे एवंविधा जलबिन्दवो हर्षयन्ति | कथंभताः । मन्दं यथा स्यादेवं । निवारितधलयः । सर्वदागच्छज्ज्ञाततमसः । वायुवेगापसारिततृणकुटीरकजातच्छिद्रषु प्राप्तप्रवेशाः । तथा गृहकर्माकुलगृहस्थकामिनीकचयुगस्वेदापहारिणः । कन्दलपत्रात लासिनः॥ १. 'प्रकाम' इति पाठः. २. 'प्रकुरुते ग्रीष्मापराह्नागमः' इति पाठः. ३. इतः प्रार तिश्लोकपञ्चकमर्जुनवर्मदेवेन प्रक्षिप्तमित्युक्त्वा षट्पञ्चाशश्लोकानन्तरमुद्धत(४६ पृष्ठ) मस्ति. ४. 'झांकारिझञ्झामरुत्' इति पाठः, ५. 'निपतन्ति' इति पाठः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95