Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 87
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achary, Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । ऊरुद्वयं मृगदृशः कदलस्य काण्डौ मध्यं च वेदिरतुलं स्तनयुग्ममस्याः । लावण्यवारिपरिपूरितशातकुम्भकुम्भौ मनोजनृपतेरभिषेचनाय ॥ १३७ ॥ हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकराः ॥ १३८॥ ४ परिशिष्टम् । सुभाषितावलावमरुकनाम्ना समुद्धृताः पूर्वागतश्लोकाधिकाः श्लोकाः । यथाअन्योन्यग्रथितारुणाङ्गुलि नमत्पाणिद्वयस्योपरि न्यस्योच्छासविकम्पिताधरदलं निर्वेदशून्यं मुखम् । आमीलन्नयनान्तवान्तसलिलं श्लाव्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥ १३९ ॥ असत्तो नायं न च खलु गुणैरेष रहितः प्रियो मुक्ताहारस्तव चरणमूले निपतितः । गृहाणेमं मुग्धे व्रजतु निजकण्ठप्रणयिता मुपायो नास्त्यन्यस्तव हृदयसंतापशमने ॥ १४ ॥ आलोकयति पयोधरमुपमन्दिरमभिनवाम्बुभरनीलम् । दयितारचितचितानलधूमोद्गमशङ्कया पथिकः ॥ १४१ ॥ आश्लिष्टा रभसाद्विलीयत इवाक्रान्ताप्यनङ्गेन या यस्याः कृत्रिमचण्डवस्तुकरणाकूतेषु खिन्नं मनः । कोऽयं काहमिति प्रवृत्तसुरता जानाति या नान्तरं रन्तुः सा रमणी स एव रमणः शेषौ तु जायापती ॥ १४२ ।। किं बाले मुग्धतेयं प्रकृतिरियमथो रौद्रता किं नु कोपः किं वा चापल्यमुच्चैर्ऋतमुत किमु ते यौवनारम्भदर्पः ।। यत्केशालापवक्रस्मितललितकुचभ्रूविलासावलग्नैः खस्थो लोकस्त्वदीयैर्मनसि विनिहितैर्दह्यतेऽमीभिरायः ॥ १४३ ॥ ११ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95