Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
८४
www.kobatirth.org
काव्यमाला ।
१५ परिशिष्टम् ।
सूक्तिमुक्तावलावमरुकनाम्ना समुद्धृताः पूर्वश्लोकातिरिक्ताः श्लोकाः । यथाकान्ते कथंचिद्गदितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी । ततस्तमालोक्य कदा गतोऽसीत्यालिङ्गय मुग्धा मुदमाससाद ॥१९८॥ यद्गम्यं गुरुगौरवस्य सुहृदो यस्मिलभन्तेऽन्तरं यद्दाक्षिण्यवशाद्भयाच्च सहते मन्दोपचारानपि ।
यल्लज्जा निरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्यय
स्तत्कि प्रेम स उच्यते परिचयस्तत्रापि मानेन किम् ॥ १५९ ॥ दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्रव
न्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति । नीवीबन्धवदागतं शिथिलतां संभाषमाणे क्षणा
न्मानेनापसृतं ह्वियेव सुदृशः पादस्पृशि प्रेयसि ॥ १६०॥ ललितमुरसा तरन्ती तरलतरङ्गौघचालितनितम्बा । विपरितरक्तासक्तेव दृश्यते सरसि सा सख्या ॥ १६१ ॥
६ परिशिष्टम् ।
शार्ङ्गधरपद्धती पूर्वश्लोकाधिकः श्लोकः । यथा— कान्तामुखं सुरतकेलिविमर्दखेदसंजातघर्मकणविच्छुरितं रतान्ते ।
Acharya Shri Kailassagarsuri Gyanmandir
आपाण्डुरं विलसदर्धनिमीलिताक्षं
संस्मृत्य हे हृदय किं शतधा न यासि ॥ १६२॥ ७ परिशिष्टम् । औचित्यविचारचर्चायां पूर्वश्लोकातिरिक्तः श्लोकः । यथागन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् । संसारे घटिकाप्रणालविगलद्वारा समे जीविते
को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥ १६३ ॥
१. औचित्यविचारचर्चायाममरकनानायं श्लोकः समुद्धृतस्तत्रामरुकस्येति भाति.
For Private and Personal Use Only

Page Navigation
1 ... 88 89 90 91 92 93 94 95