Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् । कोऽपि नायकः कामपि नायिकां दृष्ट्वानुरागातिशयात्पुनरुक्तं दोषमगणयित्वा इदमाहइयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥ १२७ ॥ इयमसौ प्रियतमा मम जीवितमानन्दयति । चञ्चलदीर्घनयना। पृथुलोन्नतमांसलस्तनी । विस्तीर्णकटिप्रदेशभारमन्थरगामिनी ॥
सालक्तकं शतदलाधिककान्तिरम्यं
रात्रौ स्वधामनिकरारुणनूपुराङ्कम् । क्षिप्तं भृशं कुपितया तरलायताक्ष्या
सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥ १२८ ॥ कस्यचिन्नायकस्य मस्तके चञ्चलदीर्घलोचनया प्रियया कुपितया रात्री पदं दत्तं विरेजे शुशुभे । किमिव । सौभाग्यचिह्नमिव । कीदृशम् । सयावकम् । कमलाधिकदीप्तिमनोज्ञम् । निजायतनसमूहरक्तीकृतपादकटकचिह्नम् ॥ श्रुत्वाकस्मान्निशीथे नवघनरसितं विश्लथाङ्गं पतन्त्या
शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटोपान्तदीर्णाश्रुबिन्दु
स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा॥१२९॥ कयाचन पथिकस्त्रियार्धरात्रे नवमेधर्जितमचिन्तितमेव श्रुत्वा रुद्यते । शयनान्मन्दशरीरं यथाभवत्येवं भूमौ पतन्त्या । दुःखितसखीजनेन प्रसारितहस्तं धृतया । कथं रुद्यते । उत्कण्ठायुक्तम् । तथा मक्तकण्ठम् । किं कृत्वा । वल्लभं स्मृत्वा स्मृत्वा । कठिनस्तनोपरिपतितविदीर्णाश्रुबिन्दु अव्यक्तमृदुवचनं च यथा भवत्येवमनुरुद्यते ।। कोऽपि नायको दूती प्रति ब्रूते
पीतो यतः प्रभृति कामपिपासितेन
तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा ततः प्रभृति मे द्विगुणत्वमेति
लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥ १३० ॥ यतः प्रभृति कंदर्पव्यथितेन मया तस्या अधररसः प्रचुर: पीतस्तदादि मम तृष्णामिलापो द्विगुणतामेति । अत्र किमाश्चर्यम् । यतस्तत्र लावण्यं सौन्दर्यमस्ति ।।
१. 'शीर्णाश्रु' इति पाठः.
For Private and Personal Use Only

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95