Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। ३ परिशिष्टम्। मूलपुस्तकेष्वधिकाः श्लोकाःग्रामेऽस्मिन्पथिकाय पान्थ वसतिनँवाधुना दीयते रात्रावत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा । तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥ १३१ ॥ कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः । आयाता वयमागमिष्यसि सुहृद्वर्गस्य भाग्योदयैः संदेशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ १३२ ॥ कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत् । आश्लेषमर्पय मदर्पितपूर्वमुच्चै मह्यं समर्पय मदर्पितचुम्बनं च ॥ १३३ ॥ हारो जलार्द्रवसनं नलिनीदलानि प्रालेयशीकरमुचस्तुहिनांशुभासः। यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवाग्निः ॥ १३४ ॥ तन्वी शरत्रिपथगा पुलिने कपोले लोले दृशौ रुचिरचञ्चलखञ्जरीटौ । तद्वन्धनाय सुचिरार्पितसुभ्रुचाप चाण्डालपाशयुगलाविव शून्यकर्णौ ॥ १३५ ॥ पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेशं लिखन्ती भूयो भूयः क्षिपन्ती मयि शितशबले लोचने लोलतारे । वकं ह्रीनम्रमीपत्स्फुरदधरपुटं वाक्यगर्भ दधाना । यन्मां नोवाच किंचित्स्थितमपि हृदये मानसं तदुनोति ॥ १३६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95