Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरुशतकम् ।
'नीत्वोच्चैर्विक्षिपन्तः कृततुहिन कणासारसङ्गान्परागानामोदानन्दितालीनतितरसुरभीन्भूरिशो दिङ्मुखेषु । एते ते कुङ्कुमाङ्कस्तनकलशभरास्फालनादुच्छलन्तः
पीत्वा सीत्कारिवक्रं हरिणशिशुदृशां हैमना वान्ति वाताः॥ ११९॥
एते ते प्रसिद्धा हेमन्तसंबन्धिनो वाता वहन्ति । मृगाक्षीणां सीत्कारयुक्तं मुखं स्पृष्ट्ा । किं कुर्वन्तः । कुङ्कमलेपयुक्तस्तनकलशताडनादूर्ध्व गच्छन्तः । पुनः किं कुर्वन्तः । अनेकान्परागानुच्चैर्नीत्वा दिशामुखेषु निक्षिपन्तः । जनिततुषारकणवृष्टिभ्रमान् । पुनः कथंभूतान् । परिमलतोषितभ्रमरान् । अतिशयसुगन्धान् ॥ पीतस्तुषारकिरणो मधुनैव सार्ध
मन्तः प्रविश्य चषकप्रतिबिम्बवर्ती ।
मीनाकरं मनसि मानवतीजनस्य
नूनं विभेद यदसौ प्रससाद सद्यः ॥ १२० ॥
कविरुत्प्रेक्षते — निश्चयेनायं चन्द्रो मधुपात्रे प्रतिबिम्बितः सन्मद्येनैव सह पीतः सन्मानिनीसमूहस्य चित्तेऽन्तः प्रविश्य मानोत्पत्तिस्थानं चूर्णयामास । कथमेतज्ज्ञायते—यदसौ मानिनीलोकस्तत्क्षणान्मानरहितो बभूव ॥
ललनालोलधम्मिल्लमल्लिकामोदवासिताः ।
७७
वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः ॥ १२१ ॥
एवंविधा वायवो रात्रौ ग्रीष्मे वहन्ति । कथंभूताः । अङ्गनाचपल केशपाशमल्लिकापरिमलसुगन्धयः । संभोगखिन्नकामिनीप्रियाः ।।
वान्ति कहारसुभगाः सप्तच्छदसुगन्धयः ।
वाता नवर्रेतिम्लानवधूसंगममन्थराः ॥ १२२ ॥
शरत्काले एवंविधा वाता वहन्ति । कीदृशाः । सौगन्धिकमनोज्ञाः । विषमच्छदसुरभयः । नवसंभोगखिन्नकामिनीसुखोत्पादनमन्दाः ॥
रामाणां रमणीयवक्रशशिनः स्वेदोदबिन्दुप्लुतो व्यालोलामलकावलीं प्रचलयंश्रुम्बन्नितम्बांशुकम् ।
For Private and Personal Use Only
१. 'क्षिवोच्चैः' इति पाठः. २. 'कौन्दानानन्दितालीनतिशय' इति पाठः. ३. 'मानान्धकारमपि' इति पाठः. ४. 'रतग्लानवधूगमन' इति पाठः. ५. 'नितम्बाम्बरम्'
इति पाठः.

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95