Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७६
काव्यमाला ।
थ्यते । न्यवर्तत मन्मथ इत्यनेन पुनः सुरतारम्भो गम्यते । यथा लोके शूरः पुरुषः परानिर्जित्य गलितसंनाहः प्रयातः सन्पश्चात्परैरभिभूतानां स्वकीयानामार्तनादं श्रुत्वा तत्प्रशमनाय पुनर्निवर्तते तद्वदयमपीत्यभिप्रायः । अत्र व्रीडा नाम संचारी भाव: । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोग श्टङ्गारः । चेष्टाकृतं सहासं शृङ्गारि नर्म | हेतुरलंकारः । हरिणी वृत्तम् || कवेर्वाक्यम्
सालक्तकेन नवपल्लवकोमलेन पादेन नूपुरवता मदनालसेन । यस्ताढ्यते दयितया प्रणयापराधा
Acharya Shri Kailassagarsuri Gyanmandir
त्सोऽङ्गीकृतो भगवता मकरध्वजेन ॥ ११६ ॥
स्पष्टोऽर्थः । अत्र दयितया पादेन ताडितोऽपि भगवता मकरध्वजेन सोऽङ्गीकृत इत्यनेन नानाविधैरुपचारैरुपलालितः किमुतेत्ययमर्थः सूचितः । एतावता कामपुरुषार्थस्योपादेयत्वमुक्तं भवति ॥
२ परिशिष्टम्
रुद्रमदेवकुमारप्रणीतटीकायां केचनाधिकाः श्लोकाः । यथाप्रयच्छाहारं मे यदि तव रहोवृत्तमखिलं
-
मया वाच्यं वोच्चैरिति गृहशुके जल्पति शनैः । वधूर्वक्रं व्रीडाभरनमितमन्तर्विहसितं
हरत्यर्धोन्मीलन्नलिनमनिलावर्जितमिव ॥ ११७ ॥
काचन नायिका गृहशुके शनैर्मन्दमिति वदति सति मुखं वक्रं करोति । कथं जल्पति, हे नायिके मह्यमाहारं देहि यदि न दास्यसि तदा तवैकान्तवृत्तान्तं समस्तं मयोच्चैः कथनीयम् । कीदृशं मुखम्, लजातिशयनम्रम्। गुप्तहसितम् । इदानीमुत्प्रेक्षते - अर्धविकसत्पद्मं वायुवक्रीकृतमिव ॥
किंचिन्मुद्रितपांसवः शिखिगणैरुत्पक्ष (रूर्ध्वाक्ष) मालोकिता जीर्णावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः । एते ते निपतन्ति नूतनघनात्प्रावृङ्करानन्दिनो
विच्छायीकृतविप्रयुक्तवनिता वक्रेन्दवो बिन्दवः ॥ ११८ ॥
For Private and Personal Use Only
त एते नूतनघनाजलबिन्दवः पतन्ति । कथंभूताः । किंचिन्निषिद्धरेणवः । रूर्ध्वनयनं यथा स्यादेवं दृष्टाः । पुराणभवनदरिद्रकान्तानिःश्वासमारुतैरनेकधा कृताः । वर्षागमहर्षिणः । मलिनीकृतवियोगिवनिता वक्रचन्द्राः ॥
मयूरवृन्दै -

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95