Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 81
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । सर्व संभोगचिह्नमपहृतमधरक्षतं कथमपहुयेतेत्ययमर्थो गम्यते । नायिका स्वीया प्रगमा च । नायकः शठः । विप्रलम्भशृङ्गारः । वाक्योत्तरमलंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ अत्यन्तापराधिनि प्रिये समागते सति कुपिताया नायिकाया आकारगोपनप्रकार कविराह नान्तः प्रवेशमरुणद्विमुखी न चासी दाचष्ट रोषपरुषाणि न चाक्षराणि । सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं विलोकितवती जननिर्विशेषम् ॥ ११४ ॥ सा नायिका नायकस्यान्तः प्रवेशं स्वगृहान्तः प्रवेशं नारुणन निवारयति स्म। किं च विमुखी पराङ्मखी नासीत् । किं च रोषपरुषाणि कोपकर्कशान्यक्षराणि वचनानि नाचष्ट नाभाषत । किं तु सरलपक्ष्मभिः सरलानि ऋजनि पक्ष्माण्यक्षिरोमाणि येषु ते तथोक्तास्तैरक्षिपातैः संदर्शनैः कान्तं प्रियं जननिर्विशेषं सर्वजनसामान्यं यथा भवति तथा केवलं विलोकितवती दृष्टवती। एवेति शेषः । इति संबन्धः । जननिर्विशेषं विलोकितवतीत्यनेनापराधिन: प्रियस्यासाधारणं दण्डनं कृतमित्यवगम्यते । अवहित्यं नाम संचारी भावः । अत्र नायिका स्वीया धीरा प्रगल्भा च । नायकः शठः । ईर्ष्यामानकृतो विप्रलम्भशृङ्गारः । ईर्ष्याक्रोधप्रायं नर्म । आक्षेपालंकारः । वसन्ततिलकावृत्तम् ॥ कवेर्वाक्यम्प्रियकृतपटस्तेयक्रीडाविडम्बनविह्वलां किमपि करुणालापां तन्वीमुदीक्ष्य ससंभ्रमम् । अपि विगलिते स्कन्धावारे गते सुरताहवे त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः ॥ ११५ ॥ प्रियकृतपटस्तयक्रीडाविलम्बनविहलां प्रियेण कृता प्रियकृता पटस्तेयक्रीडा पटस्य वत्रस्य स्तेयं चौर्य तदेव क्रीडा विनोदस्तस्या विलम्बनं कालक्षेपस्तेन विह्वला व्याकुला ताम् । किमपि करुणालापामनिर्वाच्यादीनभाषितां तन्वीं कान्तामुदीक्ष्यावलोक्य त्रिभुवनमहाधन्वी त्रैलोक्यैकवीरो मन्मथः कामः सुरताहवे संभोगसंगरे गते निवृत्ते सति स्कन्धावारे शिबिरे विगलिते च्यते सत्यपि ससंभ्रमं सत्वरं यथा भवति तथा न्यवर्तत निवृत्तोमत्स्थाने युक्तमिति संबन्धः । अत्र पटस्तेयक्रीडा संमोगावसाने कृतेति वेदितव्यम् । त सुरताहवे इत्युक्तत्वात् । सुरतस्याहवत्वरूपणं परस्परोपमर्दस्य विद्यमानत्वात् । अत्र स्कन्धावारशब्देन स्रक्चन्दनादिप्रसाधनहारमेखलाद्याभरणलीलाविलासविभ्रमादिचेष्टास्वरूपोद्दीपनसामग्री कथ्यते । विगलिते इत्यनेन सुरतान्ते लक्ष्यमाणं सामग्रीशैथिल्यं क For Private and Personal Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95