Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 79
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अमरुशतकम् । ७३ वचनमिति शेषः । इति संबन्धः । अत्र नायकवचसां घृतमधुमयत्वकथनेन तदानीं हितत्वं पश्चादहितत्वं च गम्यते । यतो घृतं मधुमिश्रितं विपाके विषत्वमापद्यते । यथोक्तं वाग्भटे—'मधुसपिर्वसातैलपानीयानि द्विशस्त्रिशः । एकत्र वा समांशानि विरुध्यन्ते परस्परम् ।।' इति । तदेतत्क्काचक्षे इत्यनेन सखी त्वया वञ्चिता कस्याग्रतो मम दुःखं कथयामीति स्वनिर्वेदः सूचितः । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः । विप्रलम्भश्शृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः । शिखरिणीवृत्तम् ॥ दूती नायकमुपालभते Acharya Shri Kailassagarsuri Gyanmandir • अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुष्वपिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः । अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते विस्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ ११० ॥ अच्छिन्नं संततं नयनाम्बु अश्रु बन्धुषु कृतमर्पितम् । चिन्ता विचारो गुरुषु जनन्यादिष्वपिता न्यस्ता । दैन्यं दीनत्वं परिजनेऽशेषतः सर्वस्मिन्परिचारकवर्गे । सप्तम्यर्थे तसिल् । दत्तं निहितम् । तापः संज्वरः सखीषु वयस्यास्वाहितो निक्षिप्तः । एवमनेन प्रकारेण तथा विप्रयोगजनितं विरहोत्पादितं दुःखं विभक्तं विभागं प्रापितम् । सा यतः श्वासैः श्वसितैः परमत्यर्थ खिद्यते खिन्ना भवति । तस्मादद्यास्मिन्दिवसे श्वः परस्मिन्दिवसे वा परनिर्वृतिमत्यन्तसौख्यं भजति प्राप्नोति । अतो विखन्धो निश्चिन्तो भवेति संबन्धः । परनिर्वृतिं भजतीत्यनेन मरणं सूच्यते । विस्रब्धो भवेत्यनेनोपालम्भो गम्यते । अत्र मूर्च्छा नाम दशाविशेषः । नायिका परकीया कन्या च । अयोगविप्रलम्भश्शृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ पूर्व कृतपरिचयेन नायकेन पश्चात्परित्यक्ता नायिका स्ववाटिकायां यदृच्छागतं प्रियं दृष्ट्वा तमुपालभते रोहन्तौ प्रथमं ममोरसि तव प्राप्तौ विवृद्धि स्तनौ संल्लापास्तव वाक्यभङ्गिमिलनान्मौग्ध्यं परं त्याजिताः । धात्रीकण्ठमपास्य बाहुलतिके कण्ठे तवासञ्जिते निर्दाक्षिण्य करोमि किं नु विशिखाप्येषा न पन्थास्तव ॥ १११ ॥ प्रथमं ममोरसि रोहन्तावुद्भवन्तौ स्तनौ तवोरसि विवृद्धिं प्राप्तौ गतौ । मम संल्लापाः संभाषणानि तव वाक्यभङ्गिमिलनाद्वचनरीतिमिश्रणात्परमत्यर्थे मौग्ध्यं मूढतां त्याजिताः । मम बाहुलतिके धात्रीकण्ठमुपमातृकण्ठमपास्य विहाय तव कण्ठे आसञ्जिते आसङ्गं प्रापिते । हे निर्दाक्षिण्य अज्ञातपरचेतोनुवर्तन, एषा विशिखापि इयं रथ्यापि तव पन्था मार्गो न भवति । एवं सति किं नु करोमि किं कर्तव्यम् । नु पृच्छायाम् । भवन्तं १० For Private and Personal Use Only

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95