Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 78
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ काव्यमाला। थोक्तम्-'भूगतस्तनभुजास्यमस्तकामुन्नतस्फिजमधोमुखी स्त्रियम् । कामति स्वकर. कृष्टमेहने वल्लभे करिपदं तदुच्यते ॥' इति । क्वचिचूर्णोद्गारीत्यनेन धेनुकं नाम करणं सूच्यते । यथोक्तम्-'न्यस्तहस्तयुगला भुवस्तले योषिदेति कटिरूढवल्लभा । अग्रतो यदि शनैरधोमुखी धेनुकं वृषवदुनते प्रिये ॥' इति । क्वचिदपि च सालक्तकपद इत्यनेन पुरुषायितं सूच्यते । तत्स्पष्टमेव । वलीभङ्गाभोगैरित्यनेनालकपतितैः शीर्णकुसुमैरित्यनेन च रत्युपमर्दातिशयः सूच्यते । जातिरलंकारः । शिखरिणीवृत्तम् ।। कवेर्वाक्यम्पुष्पोद्भेदमवाप्य केलिशयनाद्दूरस्थया चुम्बने कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते । आच्छाद्य स्मितपूर्णगण्डफलकं चेलाञ्चलेनाननं मन्दान्दोलितकुण्डलस्तबकया तन्व्यावधूतं शिरः ॥ १०८॥ पुष्पोद्भेदं रजःप्रादुर्भावमवाप्य प्राप्य केलिशयनादूरस्थया क्रीडातल्पं विहाय विप्रकृष्टया । ल्यब्लोपे पञ्चमी । स्फुरिताधरेण स्पन्दिताधरेण कान्तेन प्रियेण भ्रूसंज्ञया साधनेन निभृतं निगढं चुम्बने याचिते प्रार्थिते सति स्मितपूर्णगण्डफलकं मन्दहासभरितकपोलतलमाननं चेलाञ्चलेनांशुकपल्लवेनाच्छाद्य पिधाय मन्दान्दोलितकुण्डलस्तबकया मन्दं शनैरान्दोलिते आलोलिते कुण्डले कर्णवेष्टने एव स्तबको गुच्छौ यस्याः सा तथोक्ता तया तन्व्या कान्तया शिरोऽवधूतं तिर्यग्वक्रितमिति संबन्धः। शिरोऽवधूतमित्यनेन प्रतिषेधः सूचितः। औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मध्याप्रगल्भयोरन्यतरा स्वाधीनपतिका च । नायकोऽनकलः । संभोगशृङ्गारः । अत्र चेष्टाकृतं संभोगेच्छारूपं शृङ्गारिनर्म । सूक्ष्मोऽलंकारः । यथोक्तं काव्यादर्शे'इङ्गिताकारलक्ष्यार्थसौक्ष्म्यात्सूक्ष्म इति स्मृतः' इति । शार्दूलविक्रीडितम् ॥ नायिका नायकमुपालभतेशठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिप्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्त्वाचक्षे घृतमधुमयत्वबहुवचो विषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥ १०९ ॥ हे शठ धूर्त, अन्यस्या इतरनायिकायाः काञ्चीमणिरणितं मेखलारत्नशिञ्जितमाकण्याश्लिष्यन्नेवालिङ्गनेव सहसा शीघ्रं प्रशिथिलभुजग्रन्थिविश्लथबाहुबन्धनोऽभव आसीराित यत्तदेतच्छाठ्यं क्वाचक्षे कुत्र ब्रवीमि । यतो घतमधुमयत्वद्वहुवचोविषेण घृतमधुमय स. पि:क्षौद्ररूपं त्वद्वहुवचस्तव भरिवचनं घतमधुमयं च तत्त्वद्ववचश्च तदेव विष तना वर्णन्ती भ्राम्यन्ती में सखी किमपि न गणयति न विचारयति । न विश्वसितीत्यथः ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95