Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
काव्यमाला।
कवेर्वाक्यम्स्मररसनदीपूरेणोढाः पुनर्गुरुसेतुभि
यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ १०४ ॥ प्रियाः । 'पुमान्स्त्रिया' इत्येकशेषः । प्रियश्च प्रियाश्चेत्यर्थः । स्मररसनदीपूरेणोढा: स्मरेण कामेन कृतो रसो रागः स एव नदीपूरस्तेनोढा उद्धृताः । बलानीता इत्यर्थः । पुनभूयो गुरुसेतुभिर्गुरवो गुरुजनास्त एव सेतवः प्रवाहबन्धास्तैर्यद्यस्मात्कारणाद्विधृता अपि निवारिताश्च भवन्ति । तस्मादारात्समीपेऽपूर्णमनोरथा अपर्याप्तकामास्तिष्ठन्ति आसते। तदपि तथापि लिखितप्रख्यैश्चित्रसदृशैरङ्गैः शरीररुपलक्षिताः परस्परमन्योन्यमुन्मुखा अभिमुखाः सन्तो नयननलिनीनालानीतं नयनानि दर्शनान्येव नलिनीनालानि पद्मकाण्डानि तैरानीतमाहृतं रसं पिबन्ति आस्वादयन्तीति संबन्धः । अत्र स्मररसनदीपूरेणोढा इत्यनेनात्यन्ताभिलाषपरतन्त्रा इति गम्यते। लिखितप्रख्यैरङ्गैरित्यनेन स्तम्भ नाम सात्त्विकभावं गता इति गम्यते । अत्रौत्सुक्यं नाम संचारी भावः । संभोगशृङ्गारः। यथोक्तं दशरूपके–'अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोग उदाहृतः ॥' इति । अत्र चेष्टाकृतं संभोगेच्छारूपं शृङ्गारिनर्म जातिरलंकारः । हरिणीवृत्तम् ॥ नायकमानेतुं गत्वा समागतां लक्ष्यमाणसंभोगचिह्नां दूती नायिका प्राहनिःशेषच्युतचन्दनं स्तनतटं निम॒ष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे ।
वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥१०॥ स्तनतटं कुचतटं निःशेषच्युतचन्दनं नि:शेषं यथा भवति तथा च्युतं गलितं चन्दनं । यस्मात्तथोक्तम् । अधरो दशनच्छदो निदृष्टरागोऽपगतालक्तकोऽपगतताम्बूलरागो वा । नेत्रे दूरमत्यर्थमनञ्जने कजलरहिते। तन्वी तवेयं तनु: पुलकिता सरोमाञ्चा। मिथ्यावान दिन्यसत्यप्रलापिनि बान्धवजनस्य सुहृजनस्याज्ञातपीडागमे । अज्ञातोऽनवगतः पीडागमा दुःखप्राप्तिर्यया सा तथोक्ता तस्याः संवृद्धिः । अज्ञातबान्धवजनपीडागमे इत्यर्थः । हे दति संदेशहरे, अतोऽस्मात्प्रदेशाद्वापी दीर्घिकां स्नातुं जलावगाहनं कर्तुं गतासि यातासि तस्याधमस्य निकृष्टस्य नायकस्यान्तिकं पुनः समीपं तु न गतासीति संबन्धः । अत्र वापीस्नानचिह्नकथनव्याजेन संभोगचिवकथनान्नायकस्याधमत्वकथनाच्च तदन्तिका मेव रन्तुं गतासीत्ययमों व्यज्यते । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः ।।
For Private and Personal Use Only

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95