Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 75
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ १०२॥ तद्विरहातुरस्य ममान्या कापि प्रकृतिर्नास्ति । तर्हि किमस्तीत्याह–प्रासादादिषु सैव । तस्मादहो आश्चर्यम् । सा सेति सकले जगति कोऽयमद्वैतवादः । आत्मनोऽप्यलेखितत्वेन तस्यां तादात्म्यम् । विशेषोऽलंकारः । यदुक्तम्-'यत्रैकमनेकस्मिन्नाधारे वस्तु विद्यमानतया । युगपदभिधीयतेऽसावत्रान्यः स्याद्विशेष इति ॥' यथा-'हृदये चक्षषि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं पादपतनेन ॥' पूर्वार्धे यावन्त एव साशब्दाः प्रयुक्तास्तावन्त एवोत्तरार्धेऽनूदिताः ॥ समाप्तेयं रसिकसंजीविनी टीका। कृतिर्महाराजाधिराजवीरचूडामणिश्रीमदर्जुनवर्मदेवस्य । समाप्तमिदं रसिकसंजीविनीटीकासमेतममरुशतकम् । १ परिशिष्टम् । वेमभूपालविरचितशृङ्गारदीपिकाख्यटीकायां केचन श्लोका अधिकाः सन्ति, तेऽत्र सटीकास्तत एवोद्भियन्ते । यथानायकोक्तिःनभसि जलदलक्ष्मी सास्रया वीक्ष्य दृष्ट्या प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथंचित् । मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं यदनु कृतवती सा तत्र वाचो निवृत्ताः ॥ १०३ ॥ नभस्याकाशे जलदलक्ष्मी मेघसामग्री सास्रया सबाष्पया दृष्टया दृशा वीक्ष्यावलोक्य 'हे कान्त हे प्रिय, प्रवससि यदि प्रवासं करोषि चेत्' इति कथंचित्कृच्छ्रेणार्ध सावशेषम् । वाक्यमिति शेषः । उक्त्वा मम पटमंशुकमवलम्ब्य गृहीत्वा धरित्रीं भुवं पालखन्ती कर्षन्ती अनु पश्चात्सा यत्कर्म कृतवती तत्र तस्मिन्कर्मणि वाच उक्तयो निवृत्ता व्यावृत्ता इति संबन्धः । यत्कृतवतीत्यत्र यच्छब्दवाच्यश्चिन्तानिःश्वासवैवर्ण्यबाष्पगद्गदिकादिभिरनभावस्त्वां विना क्षणमपि जीवितुमहं न शक्नोमीत्ययमर्थः प्रवससि यदोत्यस्य वाक्यस्य शेषत्वेनावगन्तव्यः । तत्र वाचो निवृत्ता इत्यनेन नायिकायाश्चिन्तानिःश्वासादीनामनुभावानां दशाविशेष: पश्यतां मनोगोचर एव न वाग्गोचर इत्ययमोंवगम्यते । दैन्यं नाम संचारिभावः। अत्र नायिका स्वीया मुग्धा च । नायकोऽनुकूलः। भविष्यत्प्रवासविप्रलम्भशृङ्गारः । तत्र नर्मस्फोटः । जातिरलंकारः। मालिनी वृत्तम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95