Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरुशतकम् । काचित्सखीभिर्मानं शिक्षितानध्यवसायगर्भ संदेहमाहभ्रूभेदो गुणितश्विरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया ६७ बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ ९७ ॥ मानस्वीकारे मया सामग्री प्रगुणीकृता सिद्धिः पुनर्देवाधीना । देवयोगान्माननिर्वाहो भवति न वेत्यर्थः । कथं परिकरो बद्ध इत्याह-- भ्रूभेद इत्यादि । सूत्रपाठप्राथमकल्पिकन्यायेन भ्रूभङ्गश्विरं गुणितः । लोचनयोः संकोचनमभ्यस्तम् । प्रयत्नेन स्मितं निवारयितुं शिक्षितम् । वाचंयमत्वेऽभियोगः कृतः । अकातरतां विधातुमपि कथंचिदेतच्चैत: स्थिरीकृतम् । एते प्रकारास्तस्मिन्दृष्टे निर्वाहं न गमिष्यन्तीत्यर्थः ॥ काचित्स्वैरिणी चिरमनोरथप्राप्तकामुकचौर्यरतं साधितसाध्यतया सख्याः कथयति — अहं तेनाहूता किमपि कथयामीति विजने समीपे चासीना सरसहृदयत्वादवहिता । ततः कर्णोपान्ते किमपि वदताघ्राय वदनं गृहीता धम्मिल्ले सखि स च मया गाढमधरे ॥ ९८ ॥ हे सखि, किमपि कथयामीति व्यपदेशेन विजने तेनाहमाहूता । अहं च सखि, साभिलाषहृदया तस्य प्रियतमस्य समीप आसीना । अथ च तेन श्रवणोपान्ते किंचिद्वदता पर्याकुलतया मन्मुखमाघ्रायापसरणशङ्कयाहं धम्मिल्ले गृहीता । न केवलमेवम्, स च मया गाढमधरे गृहीतः । किमपि कथयामीति विस्रम्भणम् । यदुक्तम् — 'विविक्ते च किंचिदस्ति कथयितव्यमित्यक्त्वा निर्वचने भावं तत्रोपलक्षयेत् ॥ देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि । उद्वीवश्चैरणार्धरुद्धवसुधः प्रोन्मृज्य सास्त्रे दृशौ तामाशां पथिकस्तथापि किमपि ध्यायन्पुनर्वीक्षते ॥ ९९ ॥ तथापि किमपि ध्यायन्पथिकस्तां दयितासंबद्धां दिशं वारंवारमवलोकयति । अथ वाशामिवाशाम् । किं कृत्वा । साश्रुणी नेत्रे पदार्थोपलम्भार्थ प्रकर्षात्प्रोञ्छय । किंविशिष्टः । दर्शनोत्कलिकयोत्कंधरः । पुनः कीदृशः । उन्नतो भवितुं पदार्थेनावष्टब्धभूमिः । For Private and Personal Use Only १. 'गृहीत्वा धम्मिल्लं मम सखि निपीतोऽधररसः' इति शृङ्गारदीपिका. २. 'चरणाय' इति शृङ्गारदीपिका. ३. 'तथैव' इति शृङ्गारदीपिका. ४. 'मुहु:' इति शृङ्गारदीपिका.

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95