Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 72
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। जातः । एतेनातः प्राग्यैवाहं स एवासीदित्यर्थः । तस्मात्त्वमपि सागसि प्रिये खेदं मा कृथाः । स एव कः । येन पुरा मम चित्तपदवी चिरकालमेवमनुसृता । येन येन वर्मना मम चित्तं विलसितं तेन तेन पृष्ठतो लग्नः । सर्ववारानुवृत्तिपर आसीदित्यर्थः । एवं कथ. मित्याह-हे प्रियतम, इदं कृष्णम् । स आह–कृष्णम् । ननु श्वेतमिदम् । स आहअथ किम् । गमिष्यामः । स आह-यामः । नायिकाभविष्यदुक्तौ नायकस्य वर्तमानोक्त्यानुवृत्तेरतिशयः । आस्तां गमनेन । स आह—आस्ताम् ॥ काचिदन्तविलीनमाना स्वगतेन वितर्के संधारयतिचरणपतनं संख्यालापा मनोहरचाटवः कृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् । इति हि चपलो मानारम्भस्तथापि हि नोत्सहे हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥ ९५ ॥ इत्यमुना प्रकारेण नूनं गत्वर एव मानोपक्रमः । तथापि स्फुटमीjया न मानं त्यक्तुमुत्सहे । इतिशब्दस्यापि शब्दस्याग्रे च हिशब्दोमानारम्भचापल्यस्य मानत्यागानुत्साहस्य च निश्चयं गमयति । इति किम्। चरणपतनेत्यादि। प्रियस्य मच्चरणे पतनम् । तदनुरुद्धसखीनामालापाः । किंविशिष्टाः। मनोहराणि चाटूनि येषु ते तथोक्ताः । मदीयदुर्बलाङ्गस्य प्रियकृतं गाढालिङ्गनम् । बलात्कारेण समन्ताचुम्बनम् । कृशतरतनोरित्यस्य पदस्यायमभिप्रायः-मया तावन्मानः कृतो यावत्क्षीणेन्दलेखाशेषं मम शरीरमभूत् । ननु । यदि नोत्सहे तदा प्रियेण विनैव स्थास्यामीत्याह-अतिशयेन हृदयदयितः कान्तश्च तत्किमत्र प्रस्तावे करोमीति । चिन्ता व्यभिचारिभावः ॥ तन्वङ्गया गुरुसंनिधौ नयनयोर्यद्वारि संस्तम्भितं तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः । मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता श्वासायाससमाकुलालिसरणिव्याजेन धूमावली ॥ ९६ ॥ इयं बाल्य एव प्रियं विना स्थातुं न शक्नोतीति गुरुजनेन ज्ञास्य इति लजया तत्सनिधो नयनयोर्वारि स्तम्भितम् । तेनाभ्यन्तर एव व्यावृत्त्य गलितेन यो हृदये विरहा. द्भवः कामानल: सिक्तस्तस्य संस्तभ्यमानज्वालस्य ननमेषा वदनद्वारेण धूमवातर त्थिता । केन। सुगन्धिश्वासेन य उष्णताजनित आयासस्तेन समाकुलानामलीना या पद्धतिस्तद्व्याजेन । जलाभिषेकेण मन्दितार्चिषि वैश्वानरे हि धूमोद्गमः समुल्लसति ॥ १. 'सासालापाः' इति शृङ्गारदीपिका. २. 'इति बहुफलो' इति शृङ्गारदीपिका. ३. 'च' इति शृङ्गारदीपिका. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95