Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४
काव्यमाला ।
स्थगयति मुहुः पत्युत्रे विहस्य समाकुला सुरतविरतौ रेम्या तन्वी मुहुर्मुहुरीक्षते ॥ ९० ॥
संभोगावसाने क्षामाङ्गी रमणीया पति वारंवारमवलोकते । अत एव साकूतं विहस्य लजया संभ्रान्ता भर्तुर्नेत्रे भूयोभूयः समाच्छादयति । रम्यैव कथमित्याह—इतस्ततः पतिते वाससी पाणिपल्लवं भ्रमयित्वा परिधानार्थे मृगयति । प्रदोपविध्यापनार्थे सुरतसंमर्दत्रुटितधम्मिल्लकुसुममालाशेषं क्षिपति । प्रियनयनस्थगनं च घट्टितक चुम्बनेऽप्युक्तमस्ति मुग्धायाः । ‘ईषत्परिगृह्य मीलिताक्षी जिह्वाग्रेण घट्टयन्ती करेण तस्य नयने छादयतीति घट्टितकम्' । मन्मथाप्यायिता छाया सैव कान्तिरिति स्मृता' इत्यनेन कान्तिर्नाट्यालंकारः । यथा भट्टनारायणस्य – 'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्या । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु' ॥
काचित्सखी मानिनीं भीषयित्वा नायकसंप्रतिपत्तौ प्रवेशयतिसन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना
प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते । आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथा
Acharya Shri Kailassagarsuri Gyanmandir
—
1
श्छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्याः पुनः ॥ ९१ ॥ सन्त्येवात्र गृहे गृहे यौवनोद्धताः स्त्रियः । ताः पृच्छ गत्वा । कदा। अधुना । विलम्बं मा कृथा इत्यर्थः । किं पृच्छामीत्याह--प्रेयांसः किं तथा प्रणमन्ति यथा तव प्रेयान्दासवत्प्रणमंश्च वर्तते । प्रेयांसो हि प्रणम्यन्ते । तस्मात् हे आत्मद्रोहिणि, दुर्जनैरनर्थमभिहितं कर्णेऽष्यनिशं मा कृथाः का पुनः कथा हृदये । कर्णेजपवचनौ प्रियोऽपमानितः सन्कदाचित्स्नेहमुत्सृजति । निःस्नेहे तस्मिन्सति किं भवतीत्याह - छिन्नस्नेहरसाः पुरुषाः पुनर्दुःखानुवर्त्या भवन्ति दुःखेनानुवर्तितुं शक्यन्ते । दुराराध्या इत्यर्थः ॥ काचिन्मानशिक्षणनिर्बन्धदुर्ललिताः सखीरुपालभते -
निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते
निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तदोपेक्षितः
For Private and Personal Use Only
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ९२ ॥ १. 'रम्यं तन्वी पुनः पुनरीक्षते' इति शृङ्गारदीपिका. २. 'दुर्जनप्रलपितं कर्णे भृशं' इति शृङ्गारदीपिका. ३. ‘दुःखानुवृत्त्या यतः' इति शृङ्गारदीपिका. ४. 'उन्मूल्यते' इति शृङ्गारदीपिका. ५. 'तथा' इति शृङ्गारदीपिका.

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95