Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 68
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । मन्मार्गवीक्षणनिवेशितदीनदृष्टे नूनं छमच्छमिति बाष्पकणाः पतन्ति ॥ ८६ ॥ नूनमहमे मन्ये-दयिताया हृदि च्छमच्छमित्यश्रुविपुषः पतन्ति । किंविशिटायाः । मदागमनपदवीगवेषणदत्तदीनदृष्टेः । किंविशिष्टे हृदये । महतीभिर्वियोगानलज्वालाभिस्तप्ते । पुन: कोदृशे । आपाण्डुरस्तनतटे। संतप्तवस्तुनिपतितं पयश्छमत्करोतीत्यनुकारः । रूपकमलंकारः । यदुक्तम्-'यत्र गुणानां साम्ये सत्युपमानोपमेययोर। भिधा । अविवक्षितसामान्या कल्प्यत इति रूपकं ज्ञेयम् ॥' परं गृहीतमुक्तोऽलंकारः ।। काचित्सखी मानिनीवृत्तान्तमपरसख्याः कथयति चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः । प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रत्तोऽधुना । सवीडैरलसैनिरन्तरलुठद्वाष्पाकुलैरीक्षणैः । श्वासोत्कम्पिकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥८७|| तया प्रियतमो निवारितः । किंविशिष्टः सन् । गन्तुं प्रवृत्तः । यतः प्रत्याख्यानेन । परामखो निराकृत एव । किंविशिष्टः सन् । चरणानतः । केन विशिष्टः । विदितापराधत्वान्मौनेन । पुनरपि केन। चेतसा । कथंभूतेन । प्रसादं करिष्यति न वेति चिन्तयान्तःकरणशन्यत्वान्मोहेन च स्तिमितेन । विनिश्चलमिति भीरुत्वोक्तिः । कदा। अधुना ।। इदानीं यावत्प्रसादोपायांश्चकारेत्यर्थः । कया वारितः । जीविताशया । प्रत्याख्यानं ताव त्साहसेन कृतम् । गन्तुं प्रवृत्ते तस्मिन्प्राणान्धारयितुमशक्यत्वादनन्यगतिकत्वं जातमित्यर्थः । अद्याहमेव त्वया विना जीवितुं न शक्नोमि, तदा किमेवं लघ्वी भवामीत्यभिधानात् । श्वासेनोत्कम्पितौ कुचौ यत्र तत्तथोक्तम् । अथ च यद्यहं जीवामि तदा प्रियसगमं प्राप्नोमीति जीवने कृता आशा जीवाशा। किं कृत्वा वारितः । सुचिरं निरीक्ष्य ।। केः। ईक्षणः । किंविशिष्टैः। अवष्टम्भत्यागव्यञ्जकतया सव्रीडैः । दैन्यद्योतकतयालसः ।। अपमानातिशयानिरन्तरलुठद्वाष्पाकुलैः ॥ कश्चिद्देशान्तरादागतो मनोरथप्राप्तप्रियतमासमागमं प्रणिधत्तेम्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं भूयस्तत्क्षणजातकान्ति रंभसप्राप्ते मयि प्रोषिते । १. मोहनिबध्यमानमनसा' इति शृङ्गारदीपिका. २. 'प्रत्याख्यात' इति र दीपिका. ३. 'प्रवृत्तः शठः' इति शृङ्गारदीपिका. ४. 'तन्वङ्गया स पुनस्तया तरलया तत्रान्तरे वारितः इति शृङ्गारदीपिका. ५. 'विलास' इति शृङ्गारदीपिका. ६. लसं' इति शृङ्गारदीपिका. ७. 'मधुरं प्राप्ते' इति शृङ्गारदीपिका. चा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95