Book Title: Amru Shatakam
Author(s): Durgaprasad Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
६०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ ८२ ॥ बीड़ानम्रवदना बाला वल्लभेन स्मयमानेन चिरं चुम्बिता । किं कृत्वा लजानम्रमुखी । पत्युः कपोलस्थलीं जातपुलकामिति हेतोर्जाप्रदवस्थाशंसिनीं विलोक्य । कपोलावलोकनमेव किं कृत्वा कृतम् । निद्राव्याजमुपागतस्य मुखं परिचुम्ब्य । कथम् । विस्रब्धम् । विस्रब्धचुम्बनमेव किं कृत्वा कृतम् । सुचिरं निर्वर्ण्य । मुग्धा ह्यन्यद्रा लजासाध्वसाभ्यां पराङ्मुखीकृताः क्व दयितमुखनिर्वर्णनचुम्बनरसमनुभवन्ति । सुचिरं निर्वर्णनमेव किं कृत्वा कृतम् । शयनात्स्तोकमुत्थाय । कथम् । प्रबोधशङ्कया शनैः । स्तोकोत्थानमेव किं कृत्वा कृतम् । मा कदाचिदपि कोऽपि मां पश्येदिति शङ्कया शून्यमपि वासगृहं विशेषेण दृष्ट्वा । (अत्र भिन्नकर्तृकत्वशङ्का न कार्या । लज्जाक्रियापेक्षया समानकर्तृकत्वात् ।) नायिकायाश्च स्वाभिप्राय चुम्बनमेतत् । यदुक्तम् — 'सुप्तस्य मुखमालोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागोद्दीपनम्' इति । स्वाधीनपतिका मुग्धा नायिका ।। लोलकूलतया विपक्षदिगुपन्यासेऽवैधूतं शिर
स्तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः । कोपात्ताम्रकपोलभित्तिनि मुखे दृष्टया गतः पादयो
रुत्सृष्टो गुरुसंनिधावपि विधिर्द्वाभ्यां न कालोचितः ॥ ८३ ॥ श्वशुरप्राय गुरुजनसकाशेऽपि द्वाभ्यां चातुर्येण कोपप्रसादनात्मको विधिः समयोचितो न मुक्तः । कथं कथमित्याह — तत्र गत्वा आगतोऽसीति सूचकं स्पन्दितया भ्रूलतयान्यवनितागृहोद्देशोपक्षेपे नायिकया शिरोऽवधूतम् । नायकोऽपि शिरः कम्पनत्तान्तनिरीक्षणे विलक्षः स्थितः । किं विशिष्टः । नमस्या भवती यदेवमेव निरपराधस्य ममापराधमारोपयतीत्याशयेन कृतनमस्कारः । अथवा तस्यै दिशे मम नमस्कार एवेति भावः । न केवलं विलक्षः स्थितः नायिकाया मुखे इदानीं किं ते कितव कर्तुं शक्नोमि यद्येकान्ते लब्धो भवसि तदा शिक्षां ग्राहयामीति कोपात्ताम्रगण्डमण्डले मुखे सत्याभिनयॆन प्रणामं सूचयन्दृष्टया तत्पादयोः पतितः । अत्र कोपेन पुलकाद्यभावात्कपोले कर्कशत्वसाधारणधर्मो भित्तित्वेन रूपितः । दृष्टिश्वेयं लजितशङ्किता । यथा - ' -'fanfa दचितपक्ष्माग्रा प्रतितोर्ध्वपुटा भिया । त्रपाधोगततारा च शङ्किता दृष्टिरिष्यते ॥ काचित्सखीभिरुपदिष्टं मानं स्थापयितुमक्षमा ताः प्रत्याह
जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं
वक्रं स्वेदकणान्वितं न सहसा यावच्छठेनामुना |
१. 'बालाभवच्चुम्बिता' इति शृङ्गारदीपिका. २. 'लोलभ्रूलतया' इति शृङ्गारदीपिका. ३. विधूतं' इति शृङ्गारदीपिका', ४. 'ईषत्ताम्रकपोलकान्तिनि मुखे दृष्टया नतः' इति शृङ्गारदीपिका.
For Private and Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95